भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 272, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 272

२ प्रपाठके १७ अनुवाकः । २६७

अथ सप्तदशोऽनुवाकः ।

(१)दु॒हे ह॒वा ए॒ष छन्दा॑ꣳसि॒ यो या॒जय॑ति॒ स येन॑ य- ज्ञक्रतु॑ना या॒जये॑त् सोऽर॑ण्यं परीत्य॑ शुचौ दे॒शे स्वा॒ध्याय॑- मे॒वैन॑मधीयन्नासीत^(१)। (२)तस्या॒नश॑नं दी॒क्षा स्थान॑मुप-


अथ सप्तदशोऽनुवाकः।

पूर्वमनापदि दुष्टयाजनस्य प्रायश्चित्तमुक्तं । इदानीमा- पदि तद्याजनस्य पूर्वस्मादल्पं प्रायश्चित्तं विधत्ते । (१)“दुहे हवा • अधीयन्नासीत”(१) इति । ‘यः’ पुमान्, धनाभावे जीवना- भावात् प्राणरक्षणाय* अयाज्यमपि पुरुषं ‘याजयेत्’ । एतच्च वाजसनेयके दर्शितं, प्राणस्य वै सम्राट् कामेभ्य अयाज्यं या- जयत्यप्रतिगृह्यस्य प्रतिगृह्णातीति । ईदृशः पुमान् ‘छन्दांसि’, तत्र प्रतिग्रहे कियान् मन्त्रान् रिक्तीकरोति फलरहितान् करोति तत्परिहारार्थं ‘येन’, ‘यज्ञक्रतुना’, याजितवान् ‘एन- मेव’ क्रतुभागं, ‘स्वाध्यायं’, स पुमानरण्ये गत्वा पठन् ‘आसीत’, तेन प्रायश्चित्तं सम्पाद्यते तत् सम्भावनार्थं ध्यानार्थं वा ॥

तत्र यज्ञावयवान् सम्पादयति । (२)“तस्यानशनं • समृद्धतरः”(२) इति । ‘तस्य’ प्रायश्चित्तार्थं वेदभागमध्येतुः पुरुषस्य, तावति काले यो भोजनपरित्यागः सैव ‘दीक्षा’ । यदेतच्छुद्ध-


* अन्नाभावे प्राणरक्षणाय इति F पाठः ।
† सम्राट् समायायायाज्यं इति तै० पाठः ।
2 k 2