भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 279, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 279

२७४ | तैत्तिरीये आरण्यके


णाहन्तेज॑सा कश्य॑पस्य॑^{(१)}। ^{(२)}यस्मै॒ नम॒स्तच्छिरो॒ धर्मो॑ मूर्द्धानं॒ ब्रह्मोत्त॑रा॒हनु॑र्य॒ज्ञोऽध॑रा॒ विष्णु॒र्हृद॑य॒ꣳ सं॑वत्स॒रः प्र॒जन॑नम॒श्विनौ॑ पूर्व॒पादा॒वचि॑र्म॒ध्यं मि॒त्रावरु॑णावप॒रपादा॒वग्निः॒ पुच्छ॑स्य प्रथ॒मं का॒ण्डं तत् इन्द्र॑स्त॒तः प्र॒जाप॑तिर॒भयं॑ चतुर्थꣳ^{(२)}। ^{(३)}स वा ए॒ष दि॒व्यः श॑-


ब्रह्मोपस्थानकाले सर्वात्मकस्य परमेश्वरस्य शिशुमाराख्यजलग्रहस्वरूपत्वं ध्यानार्थं दर्शयति। (१)“यस्मै नमस्तच्छिरो ० प्रजापतिरभयञ्चतुर्थं”(२) इति। ‘यस्मै’ परब्रह्मणे, ‘नमः’ सर्वैः नमस्कारः क्रियते, ‘तत्’ परं ब्रह्म, अत्र शिशुमाराख्याध्यातव्यस्य जलग्रहस्य ‘शिरः’ उत्तमाङ्गस्थानं, योऽयमनुष्ठेयः ‘धर्मः’, सः ‘मूर्द्धानं’ मूर्द्धस्थानीयः, शिरसो मूर्द्धश्चैकस्मिन्नेवायतने ऊर्ध्वाधोभागभेदेन भिदाऽयं चतुर्मुखः ‘ब्रह्मा’, सोऽयं तस्य ग्रहस्य ‘उत्तरा हनुः’, यः ‘यज्ञः’, सः ‘अधरा हनुः’। यः ‘विष्णुः’, सोऽयं हृदयस्थानीयः। यः ‘संवत्सरः’, तत् ‘प्रजननं’ इन्द्रियस्थानीयम्,* यौ ‘अश्विनौ’, तौ तस्य ग्रहस्य ‘पूर्वपादौ’, योऽयमत्रिमुनिः, सोऽयं मध्यशरीरं, यौ ‘मित्रावरुणौ’ देवौ तौ ‘अपरपादौ’, शिशुमारस्य पुच्छे बहवो भागाः, तत्र ‘अग्निः पुच्छस्य’, ‘प्रथमं काण्डं’ प्रथमो भागः, ‘ततः’ तदूर्ध्वं, ‘इन्द्रः’,


* तत्प्रजननमित्यादिस्थाने सोऽयं प्रजननेन्द्रियस्थानीयः इति F पुस्तकपाठः।