तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 280, कुल 940 में से
संदर्भ में पढ़ें२ प्रपाठके १६ अनुवाकः। २७५
करः॒ शि॒शु॒मार॒स्तꣳह॑^{(३)}। ^{(४)}य ए॒वं वेदाप॑ पुनर्मृ॒त्युञ्ज॑यति ज॑यति स्व॒र्गं लो॒कं नाध्व॑नि प्रमी॑यते॒ नाग्नौ प्रमी॑यते॒ नाप्सु प्रमी॑यते नानप॒त्यः प्रमी॑यतै ल॒ब्धान्नो॑ भवति॑^{(४)}। ^{(५)}ध्रु॒वस्त्वम॑सि ध्रु॒वस्य॑ क्षि॒तम॑सि॒ त्वं भू॒ताना॒मधि॑पतिरसि॒
द्वितीयो भागः, 'ततः' ऊर्ध्वं, 'प्रजापतिः', तृतीयो भागः, ततो- ऽपि परतः 'अभयं' भयरहितं, परं ब्रह्म *चतुर्थो भागः ॥
एवं ध्यातव्यानवयवान् सम्पाद्यावयविनं सन्ददर्शयति । (३) "स वा ० शिशुमारस्तꣳह"^{(३)} इति । यस्मै नमस्तच्छिर इत्या- दिना अभयं चतुर्थामित्यन्तेन वाक्येन योऽयं निरूपितः 'एषः', 'दिव्यः' दिवि भवः, 'शाकरः' अत्यन्तशक्तिमान्, शिशून् मार- यति मुखेन निगरतीति 'शिशुमारः' जलग्रहविशेषः, स हि ज- लमध्येऽत्यन्तविवृतेन मुखेन मनुष्यान् गृह्णातीति ॥
यदेवं †ध्यातव्यो ग्रहो निरूपितः, तज्ज्ञानं तत्फलञ्च दर्श- यति । ^{(४)}"य एवं ० लब्धान्नो भवति"^{(४)} इति । 'यः' पुमान्, दिव्यं शिशुमारं 'वेद' मनसा ध्यायति, स 'पुनः', 'अपमृत्युञ्ज- यति' मार्गादिमरणरूप अपमृत्युविशेषस्य न भवति, दुर्मरण- स्तस्य न भवतीत्यर्थः । 'लब्धान्नः' सर्वत्र सुलभान्नो भवति ॥
अथ ध्यानानन्तरमनुमन्त्रणमन्त्रमाह । ^{(५)}"ध्रुवस्त्वमसि ०
* चतुर्थं ब्रह्मेति तै० पाठः ।
† तदेष इति तै० पाठः ।
2 L 2