तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 281, कुल 940 में से
संदर्भ में पढ़ें२०६ तैत्तिरीये आरण्यके
त्वं भू॒ताना॒ꣳ श्रेष्ठो॑ऽसि॒ त्वा भू॒तान्युप॑पर्याव॑र्त्तन्ते॒ नम॑स्ते॒ नमः॒ सर्व॑न्ते॒ नमो॒ नमः॑ शिशु॒कुमाराय॑* नमः॑॥(५)॥१९॥
शिशुकुमाराय नमः”(५) इति । अनेन मन्त्रेणोदङ्मुखो भूत्वा ध्रुवमण्डलं पश्यन् शिशुकुमाररूपेण तमुपतिष्ठेत् । हे शिशुकुमार ‘त्वं ध्रुवोऽसि’ विनाशरहितोऽसि । तथा ‘ध्रुवस्य’ जगत आका- शादेः, ‘क्षितं’ निवासस्थानं, ‘असि’ । ‘भूतानां’ सर्वेषां प्राणिनां, ‘त्वं अधिपतिरसि’, अत एव ‘भूतानां’, मध्ये ‘श्रेष्ठोऽसि’ । ‘भूता- नि’, सर्वाणि त्वामुपेत्य परितः सेवन्ते, तस्मात् ‘ते’ तुभ्यं, ‘नमः’, अस्तु, यत् ‘सर्वं’ जगत्, ‘ते’† तव अधीनं, तथा सति ‘नमः सर्वं’ त्वदीयाय सर्वस्मै नमः । तथा ‘ते नमः’ सर्वस्य स्वामिने तुभ्यमपि नमः । किं बहुना ‘नमः शिशुकुमाराय नमः’ शि- शुकुमारस्य जलग्रहविशेषस्य कुमारे बालकः तदाकारो यो ध्रुवः तस्मै नमस्कारोऽस्तु । उभयतो नमस्कारद्वयमादरार्थं ॥
इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा- रण्यके द्वितीयप्रपाठके एकोनविंशोऽनुवाकः ॥ १९ ॥
* शिशुमारकुमाराय इति F पुस्तकपाठः ।
† जगत् तत् ते इति F पुस्तकपाठः ।