भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 282, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 282

२ प्रपाठके २० अनुवाकः । २७७

अथ विंशोऽनुवाकः ।

^(१)नमः॒ प्राच्यै॑ दिशे॒ याश्च॑ दे॒वता॑ ए॒तस्यां॑ प्रति॒वसन्त्ये॒ताभ्य॑श्च^(१) । ^(२)नमो॒ नमः॑ दक्षि॒णायै॑ दिशे॒ याश्च॑ दे॒वता॑ ए॒तस्यां॑ प्रति॒वसन्त्ये॒ताभ्य॑श्च॒ नमो॒ नमः॑ प्रती॒च्यै॑ दिशे॒ याश्च॑ दे॒वता॑ ए॒तस्यां॑ प्रति॒वसन्त्ये॒ताभ्य॑श्च॒ नमो॒ नम॒उदी॑च्यै दिशे॒ याश्च॑ दे॒वता॑ ए॒तस्यां॑ प्रति॒वसन्त्ये॒ताभ्य॑श्च॒ नमो॒ नम॑ ऊ॒र्ध्वायै॑ दिशे॒ याश्च॑ दे॒वता॑ ए॒तस्यां॑ प्रति॒वसन्त्ये॒ताभ्य॑श्च॒ नमो॒ नमो॑ऽध॒रायै॑ दिशे॒ याश्च॑ दे॒वता॑ ए॒तस्यां॑ प्रति॒वसन्त्ये॒ताभ्य॑श्च॒ नमो॒ नमो॑ऽवान्त॒रायै॑ दिशे॒ याश्च॑ दे-


अथ विंशोऽनुवाकः ।

सन्ध्यावन्दनाङ्गत्वेन शिशुमारोपस्थानमुक्तं अथ दिगुपस्थानमुच्यते । तत्र प्रथमं मन्त्रमाह। “^(१)नमः प्राच्यै दिशे याश्च ० प्रतिवसन्त्येताभ्यश्च”^(१) इति । एते मन्त्राः प्रथममन्त्रवद्व्याख्येयाः ॥

अथ मुन्युपस्थानमन्त्रं दर्शयति । ^(२)“नमो नमो ० मुनिभ्यश्च नमः” इति । नमस्कारादिक एको मन्त्र उभयतो नमत्कारौ द्वौ मन्त्रौ । ‘गङ्गायमुनयोः’, मध्ये पुण्यप्रदेशेषु तपोऽ-