तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 283, कुल 940 में से
संदर्भ में पढ़ें२७८ तैत्तिरीये आरण्यके
वता॑ ए॒तस्यां॑ प्रति॒वस॑न्त्ये॒ताभ्य॑श्च॒ नमो॒ नम॑ गङ्गायमु- नयोर्मध्ये ये वस॑न्ति॒ ते मे॑ प्रसन्नात्मानश्चिरञ्जीवितं॑ वर्ध॑यन्ति॒ नमो॑ गङ्गायमुनयोर्मुनिभ्यश्च॒ नमो॒ नमो॑ ग- ङ्गायमुनयोर्मुनिभ्यश्च॒ नमः॑(२) ॥ २० ॥
सह॒, रक्षाँ॑सि, यद्दे॒वाः स॒प्तद॑श, यद॒दोव्यं॑ पञ्च॑दश, आयु॑ष्टे चतुर्विँशत्*, वैश्वान॒राय॑ षड्विँश॒तिः, वात॑- रसना ह, कूष्माण्डैः, अजान् ह॒, पञ्च†, ब्रह्मय॒ज्ञेन॑, ग्रामे॑, मध्यन्दिने॑‡, तस्य॒ वै मेघः, तस्य॒ वै द्वौ§, रिच्य॑- ते§, दुहे ह॑§, क॒तिधाव॑कीर्णो§, भूः§, नमः॒ प्राच्यै॑ विँश॒तिः§ ॥ हरिः ॐ ॥ तत् सत् ॥
धिका ये केचन ‘मुनयः’, वसन्ति, ते सर्वेऽपि प्रसन्नचित्ता भूत्वा मम चिरमायुर्वृद्धिं कुर्वन्तु तेभ्यः ‘नमः’ । उत्तरौ द्वौ मन्त्रौ भक्त्यतिशयद्योतनार्थौ । तत्रापि नमःशब्दद्वयोपेतत्वमभ्यासार्थं । तदेवमस्मिन् प्रपाठके स्वाध्यायविधिः प्राधान्येन प्रतिपादितः, तत्प्रसङ्गाच्छुद्धिकारणं सन्ध्यावन्दनादिकं सर्वं प्रतिपादितं ॥
* आदर्श दण्डपातभ्रमेण मूले त्रर्यास्त्रिंशत् कण्डिका दृश्यन्ते ।
† पूर्वोक्तकारणेन दण्डमध्ये सप्तकाण्डका एव मूले दृश्यन्ते ।
‡ एतद्दशतावपि दण्डपातभ्रमो दृश्यते ।
§ एतास्वपि दण्डपातभ्रमः ।