भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 299, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 299

२६४ तैत्तिरीये आरण्यके

मे ददातु प्र॒जां प॒शून् पुष्टिं॒ यश॑ः। ऋ॒तव॑श्च मे कल्प- न्तां^(६)। ^(७)अ॒न्नं॑ सप्त॒ होता॑। स प्रा॒णस्य॑ प्रा॒णः। स मे॑ ददातु प्र॒जां प॒शून् पुष्टिं॒ यश॑ः। प्रा॒णस्य॑ च मे प्रा॒णो भू॑यात्^(७)। ^(८)द्यौर॑ष्ट॒होता॑। सोऽनाधृ॒ष्यः॑ ॥ ३ ॥ स मे॑ ददातु प्र॒जां प॒शून् पुष्टिं॒ यश॑ः। अ॒ना॒धृ॒ष्य॑श्च भू- यासं^(८)। ^(९)आ॒दि॒त्यो नव॑होता। स तेज॑स्वी। स मे॑ ददातु प्र॒जां प॒शून् पुष्टिं॒ यश॑। ते॒ज॒स्वी च॑ भूयासं^(९)।


राभ्यां शुक्लकृष्णपक्षद्वारा ‘ऋतून् कल्पयति’। अत एवान्य- चाम्नातं। ऋतूनन्यो विदधज्जायते पुनरिति ॥ अथ सप्तममाह। ^(७)“अन्नं सप्त ॰ प्राणो भूयात्” इति। सप्तानां शीर्षण्यानां प्राणवृत्तीनां पोषकत्वेन सप्तहोतृत्वं। अत एव प्राणपोषकत्वात् प्राणस्य प्राण इत्युच्यते ॥ अथाष्टममाह। ^(८)“द्यौरष्ट ॰ अनाधृष्यश्च भूयासं”^(८) इति। आरोग्यादिभिः कश्यपान्तैरष्टभिः सूर्यैरुपकरोतीति अष्टहोतृत्वं। द्युलोकस्य केनापि निराकर्तुमशक्यत्वादनाधृष्यत्वं॥ अथ नवममाह। ^(९)“आदित्यो ॰ तेजस्वी च भूयासं”^(९) इति। पूर्वोक्तैरष्टभिर्होतृभिस्तत्रानुगतेन सामान्यरूपेण नवधो- पकारात् नवहोतृत्वं तेजस्वित्वं चादित्यस्य प्रसिद्धं ॥