भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 343, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 343

३३८ तैत्तिरीये आरण्यके

हार॑। श॒क्रः प्र॒विद्वा॒न् प्र॒दिश॒श्चत॑स्रः। तमे॒वं वि॒द्वा- न॒मृत॑ इ॒ह भ॑वति। नान्यः पन्था॒ अय॑नाय विद्यते⁽१७⁾। ⁽१८⁾य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः। ता॒नि धर्मा॑णि प्रथ॒मान्या॑-

विराट्पुरुषं ‘एवं’ उक्तप्रकारेण, ‘विद्वान्’ साक्षात् कुर्वन्, ‘इह’ अस्मिन्नेव जन्मनि, ‘अमृतः’ मरणरहितः, ‘भवति’। यदा विराट्पुरुषोऽहमिति साक्षात् करोति तदानीं वर्त्तमा- नदेहस्य तत्स्वरूपलाभावात् तन्मरणेन *अयमुपासको न म्रियते ‘अयनाय’ अमृतत्वप्राप्तये, ‘अन्यः पन्थाः’ यथोक्तविराट्- पुरुषसाक्षात्कारमन्तरेणान्यो मार्गः, ‘न विद्यते’। न हि कर्म- सहस्रैरप्यमृतत्वं सम्पादयितुं शक्यते। न कर्मणा न प्रजया धनेनेत्यादि शास्त्रात् ॥

अथाष्टादशीमाह। ⁽१८⁾“यज्ञेन ० मन्ति देवाः”⁽१८⁾ इति। अत्र कृत्स्नानुवाकतात्पर्यं सङ्क्षिप्योपन्यस्यति। ‘देवाः’ प्रजापति- प्राणरूपाः, ‘यज्ञेन’ यथोक्तेन मानसेन सङ्कल्पेन, ‘यज्ञं’ यथोक्त- यज्ञस्वरूपं प्रजापतिं, ‘अयजन्त’ पूजितवन्तः, तस्मात् पूजनात् ‘तानि’ प्रसिद्धानि, ‘धर्माणि’ जगद्रूपविकाराणां धारकाणि, ‘प्रथमानि’ मुख्यानि भूतानि,† ‘आसन्’, एतावता सृष्टिप्रतिपा-


* तत्प्रत्यक्तरूपत्वाभावात् अन्यमरणेनेति G चिह्नितपुस्तकपाठः।
† मुख्यभूतानीति G चिह्नितपुस्तकपाठः।