तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 343, कुल 940 में से
संदर्भ में पढ़ें३३८ तैत्तिरीये आरण्यके
हार॑। श॒क्रः प्र॒विद्वा॒न् प्र॒दिश॒श्चत॑स्रः। तमे॒वं वि॒द्वा- न॒मृत॑ इ॒ह भ॑वति। नान्यः पन्था॒ अय॑नाय विद्यते⁽१७⁾। ⁽१८⁾य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः। ता॒नि धर्मा॑णि प्रथ॒मान्या॑-
विराट्पुरुषं ‘एवं’ उक्तप्रकारेण, ‘विद्वान्’ साक्षात् कुर्वन्, ‘इह’ अस्मिन्नेव जन्मनि, ‘अमृतः’ मरणरहितः, ‘भवति’। यदा विराट्पुरुषोऽहमिति साक्षात् करोति तदानीं वर्त्तमा- नदेहस्य तत्स्वरूपलाभावात् तन्मरणेन *अयमुपासको न म्रियते ‘अयनाय’ अमृतत्वप्राप्तये, ‘अन्यः पन्थाः’ यथोक्तविराट्- पुरुषसाक्षात्कारमन्तरेणान्यो मार्गः, ‘न विद्यते’। न हि कर्म- सहस्रैरप्यमृतत्वं सम्पादयितुं शक्यते। न कर्मणा न प्रजया धनेनेत्यादि शास्त्रात् ॥
अथाष्टादशीमाह। ⁽१८⁾“यज्ञेन ० मन्ति देवाः”⁽१८⁾ इति। अत्र कृत्स्नानुवाकतात्पर्यं सङ्क्षिप्योपन्यस्यति। ‘देवाः’ प्रजापति- प्राणरूपाः, ‘यज्ञेन’ यथोक्तेन मानसेन सङ्कल्पेन, ‘यज्ञं’ यथोक्त- यज्ञस्वरूपं प्रजापतिं, ‘अयजन्त’ पूजितवन्तः, तस्मात् पूजनात् ‘तानि’ प्रसिद्धानि, ‘धर्माणि’ जगद्रूपविकाराणां धारकाणि, ‘प्रथमानि’ मुख्यानि भूतानि,† ‘आसन्’, एतावता सृष्टिप्रतिपा-
* तत्प्रत्यक्तरूपत्वाभावात् अन्यमरणेनेति G चिह्नितपुस्तकपाठः।
† मुख्यभूतानीति G चिह्नितपुस्तकपाठः।