भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 342, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 342

३ प्रपाठके १२ अनुवाकः। ३६७

(१६)वेदा॒हमे॒तं पुरु॑षं म॒हान्त॑म्। आ॒दि॒त्यव॑र्णं तम॑सस्तु पा॒रे। सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑। नामा॑नि कृ॒- त्वाभि॒वद॒न् यदास्ते॑(१६)। (१७)धा॒ता पु॒रस्ता॒द्यमु॒दाज॑-


अथ षोडशीमाह। (१६)“वेदाहमेतं ॰ यदास्ते”(१६) इति। यथोक्तविराट्पुरुषध्यानमत्र प्रतिपाद्यते। तत्र मन्त्रद्रष्टा स्वकी- यं ध्यानानुभवं प्रकटयति। ‘यत्’ यः पुरुषः, ‘सर्वाणि रूपाणि’ देवमनुष्यशरीराणि, ‘विचित्य’ विशेषेण निष्पाद्य, ‘नामानि’ च देवोऽयं पशुरयमित्यादीनि, ‘कृत्वा’, ‘अभिवदन्’, तैर्नाम- भिरभितो व्यवहरन्, ‘आस्ते’, ‘एतं’ ‘पुरुषं’ विराजं, ‘महा- न्तं’ सर्वगुणैरधिकं, ‘आदित्यवर्णं’ आदित्यवत् प्रकाशमानं, ‘वेद’ ‘अहं’, जानामि, ध्यानेन सर्वदा अनुभवामीत्यर्थः। स च पुरुषः ‘तमसः पारे’ अज्ञानात्परस्ताद्वर्त्तते। अतो गुरुशास्त्रोपदेशरहितैर्मूढैरनुभवितुमशक्य इत्यर्थः॥

अथ सप्तदशीमाह। (१७)“धाता ॰ अयनाय विद्यते” (१७) इति। ‘धाता’ प्रजापतिः, ‘यं’ विराट्पुरुषं, ‘उदाजहार’ ध्यातॄणामुपकारार्थं प्रख्यापितवान्। ‘चतस्रः प्रदिशः’ चतुर्द्दि- क्षु वर्तिनः सर्वान् प्राणिनः, ‘प्रविद्वान्’ प्रकर्षेण जानन्, ‘शक्रः’ इन्द्रः, तदनुग्रहार्थं प्रख्यापितवान्। धातुरिन्द्रस्योपदेशात् ‘तं’

२ s २