भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 35, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 35

३० तैत्तिरीये आरण्यके

विश्वे॑देवा विप्र॑हरन्ति। अ॒ग्निजि॑ह्वा अ॒संश्च॑त^{(१)}। ^{(२)}नै- व दे॒वो न मर्त्य॑ः। न राजा॒ वरु॑णो वि॒भुः। ना॒ग्निर्नैन्द्रो॑ न प॑वमा॒नः। मा॒दृक्कुंचन॒ विद्य॑ते^{(२)}। ^{(३)}दि॒व्यस्यैका॑ ध॒नुरार्त्निः॑। पृ॒थि॒व्यामप॑रा श्रि॒ता ॥ १ ॥ तस्येन्द्रो॑ वम्रीरू॒पेण॑। धनु॒र्ज्यामच्छि॑नत् स्व॒यम्^{(३)}।


यथा पूर्वत्र वसन्ताद्यृतुसहभाविनां वसुरुद्रादीनां साराग- शुक्लवस्त्रादीनि एवमत्रापि शिशिरर्तुसहभाविनां विश्वेषां देवानां 'असितास्राणि', वस्त्राणि आयुधानि च ऋष्ट्यादीनि ते च 'विश्वेदेवाः', तैर्ऋष्टिवजिग्रतग्निनामकैरायुधविशेषैर्विविधं शत्रून् 'प्रहरन्ति', ततः 'अग्निजिह्वाः' अरुणकेतुकाग्निरूप- जिह्वायुक्ताः, 'असंश्चत' जयनिमित्तेनोत्साहेनात्युच्चं शब्दं कृतवन्तः ॥

अथ द्वितीयामाह। ^{(१)}“नैव देवो न मर्त्यः ॰ मादृक्कुचन विद्यते”^{(२)} इति। यदास्फोटनं विश्वेदेवैः कृतं। तदत्र स्पष्टी- क्रियते। 'कचन' कश्चन, कोऽपि देवः, 'मादृक्' मादृक् मत्स- दृशः, 'न विद्यते'। एवं न मर्त्य इत्यादिष्वपि योज्यं। सोऽयं विश्वैर्देवैरुद्घोषितः शब्दः ॥

अथ तृतीयामाह। ^{(३)}“दिव्यस्यैका धनुरार्त्निः ॰ मच्छि- नत् स्वयम्”^{(३)} इति। 'अस्य' विश्वेदेवजिह्वारूपस्यारुण- केतुकस्याग्नेः, 'एका धनुरार्त्निः' धनुष ऊर्ध्वकोटिः। 'दिवि',