तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
३० तैत्तिरीये आरण्यके
विश्वे॑देवा विप्र॑हरन्ति। अ॒ग्निजि॑ह्वा अ॒संश्च॑त^{(१)}। ^{(२)}नै- व दे॒वो न मर्त्य॑ः। न राजा॒ वरु॑णो वि॒भुः। ना॒ग्निर्नैन्द्रो॑ न प॑वमा॒नः। मा॒दृक्कुंचन॒ विद्य॑ते^{(२)}। ^{(३)}दि॒व्यस्यैका॑ ध॒नुरार्त्निः॑। पृ॒थि॒व्यामप॑रा श्रि॒ता ॥ १ ॥ तस्येन्द्रो॑ वम्रीरू॒पेण॑। धनु॒र्ज्यामच्छि॑नत् स्व॒यम्^{(३)}।
यथा पूर्वत्र वसन्ताद्यृतुसहभाविनां वसुरुद्रादीनां साराग- शुक्लवस्त्रादीनि एवमत्रापि शिशिरर्तुसहभाविनां विश्वेषां देवानां 'असितास्राणि', वस्त्राणि आयुधानि च ऋष्ट्यादीनि ते च 'विश्वेदेवाः', तैर्ऋष्टिवजिग्रतग्निनामकैरायुधविशेषैर्विविधं शत्रून् 'प्रहरन्ति', ततः 'अग्निजिह्वाः' अरुणकेतुकाग्निरूप- जिह्वायुक्ताः, 'असंश्चत' जयनिमित्तेनोत्साहेनात्युच्चं शब्दं कृतवन्तः ॥
अथ द्वितीयामाह। ^{(१)}“नैव देवो न मर्त्यः ॰ मादृक्कुचन विद्यते”^{(२)} इति। यदास्फोटनं विश्वेदेवैः कृतं। तदत्र स्पष्टी- क्रियते। 'कचन' कश्चन, कोऽपि देवः, 'मादृक्' मादृक् मत्स- दृशः, 'न विद्यते'। एवं न मर्त्य इत्यादिष्वपि योज्यं। सोऽयं विश्वैर्देवैरुद्घोषितः शब्दः ॥
अथ तृतीयामाह। ^{(३)}“दिव्यस्यैका धनुरार्त्निः ॰ मच्छि- नत् स्वयम्”^{(३)} इति। 'अस्य' विश्वेदेवजिह्वारूपस्यारुण- केतुकस्याग्नेः, 'एका धनुरार्त्निः' धनुष ऊर्ध्वकोटिः। 'दिवि',
१ प्रपाठके ५ अनुवाकः ॥ २१
$^{(४)}$तदि॑न्द्र॒धनु॒रित्यज्यं॑ । अ॒भ्रवर्णे॑षु चक्ष॑ते । ए॒तदे॒व शंयोर्बार्ह॑स्प॒त्यस्य॑ । ए॒तद्रु॒द्रस्य॒ धनु॑:।$^{(४)}$ । $^{(५)}$रु॒द्रस्य॑ त्वेव॒- धनु॒रार्त्तिः॑ । शिर॒ उत्पि॑पेष । स प्र॑व॒र्ग्यो॑ भवत् । त- स्मा॒द्यः स प्र॑व॒र्ये॑ण य॒ज्ञेन॒ यज॑ते । रु॒द्रस्य॒ स शिर॒: प्रति॑-
'श्रिता', 'अपरा' तु अधस्तनी कोटिः, 'पृथिव्यामाश्रिता' । वम्रयः पिपीलिकासमाना जन्तवः । यदीयवमनान् मृत्तिका द्रवीक्रियते । 'इन्द्रः' यथोक्तधनुर्दर्शनेन भीतः सन् 'वम्रिरू- पेण', अधःकोटिसमीपे स्थाने स्थित्वा 'तस्य' अरुणकेतुकस्याग्नेः, धनुष्यवस्थितां 'ज्यां', 'स्वयं' 'अवाच्छिनत्' ॥
अथ चतुर्थीमाह । $^{(४)}$"तदिन्द्रधनु रित्यज्यं ॰ एतद्रुद्रस्य धनुर्हति"$^{(४)}$ इति । यस्य धनुषो ज्याच्छिन्ना 'तत्' तदेत्, अ- भिज्ञाः 'अभ्रवर्णेषु' मेघस्थितप्रकाशेषु, दृष्ट्या इन्द्रेणच्छिन्नत्वात् ज्यारहितं 'इन्द्रधनुः', इत्याचक्षते । योयं बृहस्पतिपुत्रः 'शंयुः', तस्यापि 'एतदेव', 'धनुः', अनेनैव धनुषाऽसौ स्वकार्यं सम्पाद- यति । 'एतद्रुद्रस्य धनुः', तस्मादिदमुत्कृष्टं रुद्रो नामात्रारुण- केतुकोऽग्निः । रुद्रो वा एष यदग्निरिति श्रुतेः । एताभिश्च- उष्णोदकरूपास्सप्तसप्तउपधेयाः ॥
अथ ब्राह्मणं । $^{(५)}$"रुद्रस्य त्वेव धनुरार्निः ॰ एवं वेद"$^{(५)}$ इति । यदेतत् उच्छिन्नज्याकं 'धनुः', तस्येन्द्रवधं पुराणं धनुष्टम्
३२ तैत्तिरीये आरण्यके
दधाति॑ । नैनꣳ॑रु॒द्र आ॒रुको॑ भवति । य ए॒वं वेद॑ ⁽५⁾
॥ २ ॥
श्रियतायज॑तेची॒र्णिं च॑ ॥ ५ ॥
इत्येतावदेव न, किन्तु ज्यायां छिन्नायामुत्पतन्ती धनुष ऊर्ध्वा कोटिरर्चस्य रुद्रस्य गलमवष्टभ्य पूर्वमवस्थिता तस्य 'रुद्रस्य', 'शिरः', छिन्दन्ती ऊर्ध्वं नीत्वाऽधःपतन्ती 'पिपेष' तच्छिरश्चूर्णी-चकार । 'स' च पिष्टार्द्धशिरोभागः, 'प्रवर्ग्य'रूपेणाविर्बभौ । यस्माद्रुद्रस्य शिर एव प्रवर्ग्यः 'तस्मात्', प्रवर्ग्यसहितेन 'यज्ञेन', यः 'यजते', 'सः' अयं, 'रुद्रस्य', तत् 'शिरः', 'प्रतिदधाति' पुनः समादधाति । 'यः' पुमान् 'एवं' शिरःसमाधानप्रकारं, 'वेद', तम् 'एनं', 'रुद्रः', 'आरुको न भवति', तस्य हिंसां न करोतीत्यर्थः ॥
इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके प्रथमप्रपाठके पञ्चमोऽनुवाकः ॥ ❀ ॥
१ प्रपाठके ६ अनुवाकः । ३३
षष्ठोऽनुवाकः ।
(१)अ॒त्यू॒र्ध्वाक्षोऽ॑ति॒रश्चा॑त् । शि॒शि॒रः प्र॒दृश्य॑ते । नैव रू॒पं न वासा॑ꣳसि । न चक्षुः॑ प्रति॒दृश्य॑ते(१) । (२)अ॒न्योन्यं॑
कल्पः । अत्यूर्ध्वाच इति त्रीण्यृतुमण्डलान्येव दृष्ट इति चेति ऋतुमण्डलशब्दस्य मन्त्रनामत्वादुपधेयानामिष्टकानामपि तदेव नाम । तत्र प्रथमामृचमाह । (१)“अत्यूर्ध्वाचोतिरश्चात् ॰ न चक्षुः प्रतिदृश्यते”(१) इति । योऽयं ‘शिशिरः’, ऋतुः सोऽयं प्राणिषु प्रकर्षेण ‘दृश्यते’ । कीदृशः शिशिरः, ‘अत्यूर्ध्वाचः’, तस्मिन्नृतौ यदा शीतबाहुल्यं भवति तदानीं कम्पमानाः प्राणिनो हस्ताभ्यां उर आच्छादयन्तो मुखेन सीत्कारं कुर्वन्तो द्वे भ्रुवावत्यूर्द्धमुन्नमयन्ति, तदिदं तस्यर्त्तोरत्यूर्ध्वाचत्वं । शीतपीडितत्वादेव दक्षिणतो वामतो वा तिर्यङ् न पश्यति । तदिदम् ‘अतिरश्चात्’, इत्युच्यते । यत्तु शरीरस्य ‘रूपं’,तदपि शीतवेलायां प्राणिभिः ‘नैव’,‘दृश्यते’ । ‘वासांसि’, अपि नैव दृश्यन्ते ‘चक्षुः’, अपि दर्पणादौ ‘न प्रतिदृश्यते’ । रूपवस्त्रादिषु नात्यन्तमादरः किन्तु शीतपरिहारमेवान्विच्छन्तीत्यर्थः ॥
अथ द्वितीयामाह । (२)“अन्योन्यं तु न हिंसतः ॰ सूर्यस्योदयनं प्रति”(२) इति । यौ परस्परमत्यन्तद्वेषिणौ युद्धार्थमुद्युक्तौ तावपि शिशिरर्त्तौ ‘अन्योन्यन्तु’, ‘न हिंसतः’ शीत-
३४ तैत्तिरीये आरण्यके
तु॒ न हि॑ꣳसातः । स॒तस्त॑ह्ये॒वलक्ष॑णम् । लो॒हि॒ता॒क्षि॒ण॒ शार॑शीर्ष्णा । सूर्य॑स्यो॒दयं॒ प्रति॑⁽२⁾ । ⁽१⁾त्वङ्क॑रोषि॒ न्यञ्ज॑लिकां । त्वङ्क॑रोषि नि॒जानु॑कां ॥ १ ॥
निवारणाय प्रावरण एव प्रयत्नयुक्तौ सन्तौ परस्परं हिंसा- मपि न कुरुतः, यदेतदीदृशं प्राणिनां वर्त्तनं 'तत्' 'एतत्' 'सतः' वर्त्तमानस्य, शिशिरर्त्तोः 'लक्षणं' देवेन सूर्येण सम्पादितं चिह्नं अनेन लक्षणेन शिशिरत्वं विद्यात् । किञ्च तस्यर्त्तौ- रभिमानिदेवताविग्रहे 'अक्षिण' चक्षुषी, 'लोहितः', वर्णः भवति 'शीर्ष्णा', शिरसि, 'शार' शारिमायाः, शुक्लिमायाः, यो वर्णः स वर्णे भवति । कस्मिन् काले अयं वर्णविशेष इति उच्यते । 'सूर्यस्योदयनं प्रति' सूर्योदयवेलायां । अत्र सर्वत्रोच्यमानेषु काललक्षणेषु यथा प्रजा सुसम्भवति तत्र प्रजाद्वारेण कालं लक्षयति । यत्तु प्रजासु न सम्भवति तत् साक्षादेव काला- भिमानिदेवतायां द्रष्टव्यं ॥
अथ तृतीयामाह । ⁽१⁾"त्वङ्करोषि न्यञ्जलिकां ० अमी वा- चमुपासतामिति"⁽१⁾ इति । हे शिशिरर्त्तौ 'त्वं', 'अञ्जलिकां' हस्ताग्रवर्त्तिनमञ्जलिं, 'निकरोषि' न्यग्भूतङ्करोषि, तथा 'जानुकां' जानुप्रदेशमपि, 'त्वं', 'निकरोषि' न्यग्भूतं करोषि । सर्वे प्राणिनः शीतबाहुल्यादग्निसेवार्थं हस्तौ न्यग्भूतौ कुर्वन्ति । उदरादिदेहावयवतापनाय व्यवधानभूते जानुनी अपि भूमि-
१ प्रपाठके ६ अनुवाकः । ३५
नि जा॑नुका मे॒ न्य॑ञ्जलिका । अमी वाच॑मुपास॑ता- मिति॑^(३) । ⁽४⁾तस्मै॒ सर्व॑ ऋ॒तवो॑ नमन्ते । म॒र्या॒दा॒कर॒त्वात् प्र॑पुरो॒धां । ब्रा॒ह्म॒णं प्रा॒प्नोति॑ । य ए॒वं वेद॑ । स खलु
स्पर्शिनी यथाभवत्तथा न्यग्भूते कुर्वन्ति । स्वयमेवं कुर्वन्तो बुद्धिमन्तो प्रबुद्धान् बालान् प्रत्येवमुपदिशन्ति । हे बालाः ‘अमी’ भवन्तः, ईदृशीं ‘वाचमुपासतां’। कीदृशी वागिति तदु- च्यते । ‘मे’ मदीया, ‘जानुका’ न्यग्भूता भवतु, ‘अञ्जलिका’, अपि न्यग्भूता भवत्विति, श्रोतः ‘इति’ शब्द एवंविधलक्षणप्र- दर्शनार्थः। अनुक्तमप्येतादृशं लोकव्यवहारं दृष्ट्वा तमृतुं जानी- यात् । ऋतुमण्डलाख्यैरेतैर्मन्त्रैस्तिस्र इष्टका उपदध्यात् ॥
अथ ब्राह्मणमुच्यते। ⁽४⁾“तस्मै सर्व ऋतवो नमन्ते • तस्यै- षा भवति”⁽४⁾ इति। ‘यः’ पुमान्, ‘एवं’ उक्तैरनुवाकैः प्रतिपा- दितमृतुस्वभावं, ‘वेद’। ‘तस्मै’ पुरुषाय, ‘सर्वे’ ‘ऋतवः’ वसन्ताद- यः, ‘नमन्ते’ प्रह्वीभवन्ति स्वाधीना भवन्ति । किंच ‘स ब्राह्मणः’ ‘पुरोधां’ पुरतोऽवस्थितिं, सर्वेषु ब्राह्मणेषु प्राधान्यं ‘प्राप्नोति’ । ऋतूनां स्वाधीनत्वं दुःखानुत्पादकत्वं तस्मिन् स्वाधीनत्वे प्रा- धान्यप्राप्तौ च हेतुरुच्यते ‘मर्यादाकरत्वात्’, इति । अयं हि विद्वान् पुरुषः तेषां वसन्ताद्यृतूनां मर्यादां करोति यस्मिन् यस्मिन्नृतौ ये धर्माः तत्र तान् प्रवर्त्तयति । मर्यादाकरत्वमेव कथमिति तदुपपाद्यते । ‘स खलु’ विद्वान् ब्राह्मणः, देहपाता- दूर्ध्वं ‘संवत्सरः’ भूत्वा संवत्सरनिष्पादकादित्यरूपो भूत्वाऽऽरुण-
F 2
३६ द्वितीये आरण्यके
संवत्सर एतैस्सेनानीभिः सह । इन्द्राय सर्वान् का- मानभिवहति । सद्रप्सः । तस्यैषा भवति^(४) ॥ २ ॥ ^(५)अव॑ द्र॒प्सो अ॑ꣳशु॒मती॑मतिष्ठत् । इया॒नः कृ॒ष्णो दश॑- भिः स॒हस्रै॑ः । प्राव॑र्त॒मिन्द्र॒ः शच्या॒ धम॑न्तं । उप स्तु॒हि तं
केतुकाग्नितादात्म्यं प्राप्य, ‘एतैः’ ‘सेनानीभिः’ वसन्तो वसुभिः सह शुक्लवासा रुद्रगण इत्यादिवाक्येषु प्रतिपादितैर्वसन्तादि- देवतासहवर्त्तिभिर्वस्वादिभिः सेनाधिपतिभिः ‘सह’, वर्त्तमानः सन् ‘इन्द्राय’ कर्मस्वामिने यजमानाय, ‘सर्वान् कामान्’, ‘अभि- वहति’ आभिमुख्येन सम्पादयति, तस्मादारुणकेतुकाग्निप्रा- प्तियोग्यत्वादयं विद्वान् मर्यादाकरो भवत्येव ‘सः’ च विदुषा प्राप्य आरुणकेतुकः, ‘द्रप्सः’ उदकरूपः, वृष्टिहेतुत्वात् ‘तस्य’ द्रप्सरूपस्यारुणकेतुकाग्नेः, प्रतिपादिकेयं काचिदृग्विद्यते ॥
अथ तामृचं दर्शयति । “^(५)अव द्रप्सो अंशुमतीमतिष्ठत् ॰
नृम्णामथद्राम्^(५) इति । ‘द्रप्सः’ उदकात्मकोऽयमारुणकेतु- कः, ‘अंशुमती’ अंशुशब्देन सोमलताखण्डवाचिना सर्वा ह्योषधय उपलक्ष्यन्ते तद्युक्तत्वादंशुमती पृथिवी ताम्, ‘अवातिष्ठत्’ अवगम्य प्राप्य तत्रावस्थितः । कीदृशो द्रप्सः, ‘दशभिः सहस्रैः’ अनेकसहस्रसङ्ख्याकैः आदित्यरश्मिभिः, ‘इयानः’ सञ्चरन्, आदित्याज्जायते वृष्टिरिति स्मृतेः । ‘कृष्णः’ कृषिहेतुः, सति ह्युदके भूमिं कृषन्ति । हे आदित्यरूपारुणकेतुकाग्ने ‘इन्द्रः’ वृष्टेरीश्वरस्त्वं, ‘आवत्तं’ पुनःपुनरावृत्य तं, ‘शच्या’ स्वकीयया
१ प्रपाठके ६ अनुवाकः । ३७
*नृम्णामयथ॑द्रा॒मिति॑^{(५)}। ^{(६)}ए॒तयै॒वेन्द्र॑: सला॒वृक्या स॒ह । असु॑रान् परि॑वृ॒श्चति॑ । पृथि॒व्यँऽशु॑मती । तामन्व॑वस्थितः संव॑त्स॒रोदि॒वञ्च॑ । नैवं॑विदु॒षाचा॒र्यान्ते॒वासिनौ॑ । अ॒- न्यो॒न्यस्मै॑ द्रुह्याता॑म् । यो द्रुह्य॑ति । भ्रश्य॑ते स्व॒र्गाल्लो॒कात् ।
शक्ता, तदा तदाऽपेक्षितकाले समागत्य 'धमन्तं' गर्जनादिनाऽ- ब्दयन्तं 'नृम्णां' नृभिर्मनुष्यैः, मननीयं सर्वदा प्रार्थनीयं 'अथ- द्रां' अथो द्रवणशीलम्, 'तं' द्रप्सं, उदकविशेषं, 'उपस्तुहि' । भूमौ प्रस्रावय इत्यनेन मन्त्रेण द्रप्सवतीमिष्टकामुपदध्यात् ॥
अथ ब्राह्मणमुच्यते । ^{(६)}“एतद्वैवेन्द्रः ० अत ऊर्ध्वं मनिर्व- चनाः”^{(१)} इति। योऽयं 'इन्द्रः' आरुणकेतुको वृष्टिखामी, 'सला- वृक्या' सलः सलिलं जलन्तस्य 'आवृका' दानं तद्युक्ता भूमिः सलावृकी एतया सलावृक्या निमित्तभूतया, 'सह', 'असुरान्' असवः प्राणा रमन्ते क्रोडन्ते येषु मेघेषु सत्सु ते मेघा असुराः तान्, 'परिवृश्चति' परितश्छिनत्ति, अयं देवो जलार्थी पृथिवीनिमित्तं मेघभेदं कृत्वा वर्षयतीत्यर्थः । पूर्वोक्तमन्त्रे येयं 'अंशुमती', कथिता सेयं 'पृथिवी', विवक्षिता 'तां' पृथिवीं, 'दिवञ्च', अनुसृत्य अयं संवत्सरात्मक आरुणकेतुको देवो वह्नि- रूपेणादित्यरूपेण वा 'अवस्थितः', यः पुमानेवमारुणकेतुका- ग्नेर्महिमानं जानाति तेन 'एवंविदुषा', सह 'आचार्यान्तेवासि- नौ', 'अन्योन्यस्मै', द्रोहं कर्तुं नार्हतः आचार्योऽध्वर्युः यज्ञे धर्मा-
* नृणामिति A. C. पुस्तकद्वयसम्मतः पाठः ।
| ३८ | तैत्तिरीये आरण्यके |
|---|
इत्यृतुम॑ण्डला॑नि । सूर्यम॑ण्डलान्य॒ाख्यायि॑काः । अत ऊ॒र्ध्वँ स॒निर्व॑चनाः^(६) ॥ ३ ॥
नि॒जानु॑कां भ॑व॑ति द्रुह्याताम॒म्वञ्च॑ च^(६) ॥ अनु० ६ ॥
नाचरतीतिव्युत्पत्तेः यजमानोन्तेवासी तस्याध्वर्योः समीपे नि-
वासात् तावध्वर्युयजमानावभिज्ञेन सह द्रोहयोग्यौ न भवतः
स्वयं द्रोग्धावपि न भवतः द्रोग्धारावपि न भवत इति वक्तु-
मन्योन्यस्मा इत्युक्तं, तस्मै विदुषे स्वयं द्रोहमकृत्वा सोपि यथा
न द्रुह्यति तथा वर्त्तितव्यं, ‘यः’ मूढः, तस्मै विदुषे ‘द्रुह्य-
ति’, सोऽयं स्वर्गलोकाद्भ्रष्टो भवति तस्मान्न द्रोहः कर्त्तव्यः,
स्मृतिः प्रत्यक्षमृत्यारभ्य पञ्चस्वनुवाकेषु प्रोक्तोर्थ उपसंह्रियते।
‘इति’ एवमतीते ग्रन्थे, ऋतूर्ऋतूनानुद्यमान इत्यादिभिर्ऋतु-
मण्डलप्रतिपादकानि वाक्यान्युक्तानि, एतैरादित्यमण्डलम-
त्यादिभिः सूर्यमण्डलप्रतिपादकानि वाक्यान्युक्तानि, पूर्वोक्त
एवार्थो दृढमाख्यायते। यासु ऋचु उदाहृतासु ता आख्या-
यिकाः शुकन्ते अन्यदित्यादयः ता अप्युक्ताः, अत ऊर्ध्वमुपरि-
तनेष्वनुवाकेषु ‘सनिर्वचनाः’ निःशेषेण वचनं निर्वचनं ब्राह्मण-
न्तेन सहिताः, ‘आख्यायिकाः’, सनिर्वचनाः पूर्वेष्वनुवाकेषु म-
न्त्रप्रतिपादितेऽर्थे संवादार्थमृच उदाहृताः, उत्तरेष्वनुवाकेषु
ब्राह्मणप्रतिपादितेऽर्थे संवादार्थमृच उदाह्रियन्त इत्यर्थः ॥
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा-
रण्यके प्रथमप्रपाठके षष्ठोऽनुवाकः ॥ ० ॥
सप्तमोऽनुवाकः ।
१ प्रपाठके ७ अनुवाकः । ३६
सप्तमोऽनुवाकः ।
(१)आ॒रो॒गो भ्राजः॑ पट॒रः प॑त॒ङ्गः । स्व॑र्ण॒रो ज्योति॑षीमा॒न् विभा॑सः । ते अ॒स्मै सर्वे॑ दि॒वमा॑त॒पन्ति॑ । ऊर्जं॑ दु- हा॑ना अ॒नप॑स्फुरन्तः॑(१)॒ इति॑ । (२)क॒श्यपो॑ऽष्ट॒मः । सम-
कल्पः । आरोग इत्यष्टौ पदशोयन्ते शिल्पमिति चेत्या- रोगादीनि विभासान्तानि । तत्र ब्राह्मणभाग इत्यादिपद- प्रतिपादिकामृचमुदाहरति । (१)“आरोगोभ्राजः ० अनप- स्फुरन्तः”(१) इति । आरोगादीनि विभासान्तानि सप्त पदानि सप्तानां सूर्यविशेषाणां नामधेयानि ते सप्तापि सूर्याः 'अस्मै' लो- कार्थं, 'दिवं' आकाशं, 'आतपन्ति' सर्वतः प्रकाशयन्ति । किं कुर्वन्तः, 'ऊर्जं दुहानाः' वृष्टिद्वारेण क्षीरादिरसं सम्पादय- न्तः । 'अनपस्फुरन्तः' प्राणिनां प्रातिकूल्येन प्रकाशनमप- स्फुरणं तदकुर्वन्तः, अनुकूलमेव प्रकाशनं सर्वदाकुर्वन्तीत्यर्थः । श्रौत 'इति'शब्द उपधानप्रदर्शनार्थः । उदाहृतायामस्यामृच्यु- क्तैरारोगादिनामभिः सप्तभिरिष्टका उपदध्यादित्यर्थः । आ- रोगस्तया देवतयांगिरस्वद्द्वाधोदेत्येवमुपधानमन्त्रा उन्नेयाः॥
अथाष्टमं नामधेयं दर्शयति । (२)“कश्यपोऽष्टमः ० तस्यैषा भवति”(२) इति । पूर्वोक्तारोगादिसप्तसूर्यापेक्षया योयं 'अष्ट- मः', सूर्यः तस्य 'कश्यपः' इति नामधेयं । तेन नाम्नेष्टका उप-
४० | तैत्तिरीये आरण्यके
ह्ममेरुन्न॑जहा॒ति । तस्यै॒षा भव॑ति^(२) । ^(३)यत्ते॑ शि॒ल्पं क॑श्यप रोच॒नाव॑त् । इ॒न्द्रि॒याव॑त्पुष्क॒लंश्चि॒त्रभा॑नु । य॒स्मि॒न् सूर्या॒ अर्पि॑ताः स॒प्त सा॒कं ॥ १ ॥ तस्मि॑न्त्राजा॑नमधि॒विश्र॑येम॒मिति॑^(३) । ^(४)ते अ॒स्मै सर्वे॑-
दध्यात् । 'सः' च कश्यपमेरुपर्वतः, 'न', कदाचिदपि परित्यजति मेरुस्थानमेव सर्वदा प्रकाशं करोति । 'तस्य' कश्यपस्य, प्रतिपादिका काचिदृग्विद्यते ॥
अथ तामृचं दर्शयति । ^(३)“यत्ते शिल्पं कश्यप रोचनावत् तस्मिन् राजानमधिविश्रयेममिति”^(३) इति । हे 'कश्यप', अष्टमसूर्य, 'यत्', 'ते' तव, 'शिल्पं' जगत्प्रकाशलक्षणं चित्रं कर्म, 'यस्मिन्' स्वकीये प्रकाशरूपे चित्रकर्मणि, आरोगादयः 'सप्त सूर्याः', 'साकमर्पिताः' त्वया सह स्थापिताः, 'तस्मिन्' शिल्पे प्रकाशलक्षणे, 'इमं' यजमानं, 'राजानं' दीप्तियुक्तं कृत्वा, 'अधिविश्रय' सर्वेषामुपरि विशिष्टत्वेन स्थापय । कीदृशं शिल्पं, 'रोचनावत्' प्रकाशयुक्तं, 'इन्द्रियावत्' इन्द्रियसामर्थ्ययुक्तं, 'पुष्कलं' सम्पूर्णं, 'चित्रभानु' विविधरश्मियुक्तं, इत्येषा काश्यपप्रतिपादिकाऽभिहिता ॥
कश्यपस्य शिल्पे सप्तसूर्याणामर्पितत्वं स्पष्टीकरोति । ^(४)“ते अस्मै सर्वे कश्यपाज्ज्योतिः ॰ सूर्या इत्याचार्याः”^(४) इति । 'ते' सर्वे सप्तापि सूर्याः, 'अस्मै' जगत्प्रकाशनार्थं, 'कश्यपात्', सकाशात्
१ प्रपाठके ७ अनुवाकः ॥ ४१
कश्य॒पाज्ज्योति॒र्लभ॑न्ते । तान्सोमः कश्य॒पादधि॑निर्ध- मति। भ्रस्ताकर्मकृदि॑वै॒वम्॑ । $^{(१)}$ $^{(५)}$प्रा॒णो जी॒वानीन्द्रि॑यजी- वा॒नि । स॒प्त शीर्ष॑ण्याः प्रा॒णाः । सूर्या इत्याचा॒र्याः॑$^{(५)}$ ।
ज्योतिर्लभन्ते । यद्यपि सूर्याः पूर्वमेव ज्योतिष्मन्तः तथापि 'तान्' सूर्य्यान्, 'सोमः', देवः 'कश्यपात्', सकाशात् 'अधि- निर्धमति' अधिकत्वेन निस्तमस्का यथा भवन्ति तथा शोध- यति सोमो हि तानाह्वय कश्यपसमीपं प्रापितवान्, तस्य कश्य- पस्यानुग्रहादेतेषां प्रकाशाधिक्यं सम्पन्नमित्यर्थः । भ्रस्तेत्यादि- स्तत्र दृष्टान्तः, रेफस्य व्यत्यये सति भस्त्राशब्दो धनसाधन- मिवेत्याचष्टे । यथा चर्ममय्या दृष्या वायुमुत्पाद्य ज्वलिता- ग्निना सुवर्णादेः किटादिकमपनीय 'भस्त्राकर्मकृत्' सुवर्ण- कारः, शोधयति एवं कश्यपसम्बन्धकारो सोमस्तान् सूर्य्यान्- शोधयत् ॥
तेषां सप्तसूर्य्याणां स्वरूपे मतभेदं दर्शयति । "$^{(५)}$प्राणो जीवानीन्द्रियजीवानि ॰ सूर्या इत्याचार्याः"$^{(५)}$ इति । मुख- नासिकयोः सञ्चारी यः 'प्राणः', स एव सप्तभिः वृत्तिभेदैः 'सप्त सूर्याः', 'इति' एवं, केचित् 'आचार्याः', आहुः । 'जीवानि' जीवननिमित्तभूतानि, महदहङ्कारपञ्चतन्मात्ररूपाणि तत्त्वा- नि, 'सप्त सूर्याः', 'इति' एवम्, अन्ये 'आचार्याः', प्रचक्षते । 'इन्द्रियजीवानि' चक्षुरादीनि पञ्चेन्द्रियाणि मनोबुद्धिसहितानि जीवननिमित्तभूतानि, 'सप्त सूर्याः', 'इति' एवम्, अपरे
४२ तैत्तिरीये आरण्यके
(३)अप॑श्यम॒हमे॒तान्त्स॒प्त सूर्य्या॒निति॑ । पञ्च॑ कर्णो॒ वात्स्या॑यनः । स॒प्तक॑र्णिश्च॒ प्लाक्षिः॑ ॥ २ ॥
आनु॒श्रवि॑क ए॒व नौ क॒श्यप॒ इति॑ । उ॒भौ वे॑दयिते । न
प्रचक्षते । शिरस्यवस्थितानि यानि सप्तच्छिद्राणि तेषु सञ्च- रन्तः 'प्राणाः', 'सप्त सूर्याः', 'इति', अन्ये । एते सर्वेऽप्याचार्याः सप्तसूर्य्यबुद्ध्या खैरुपास्यानि तत्त्वान्याहुः, अतो नैते मुख्याः सप्त सूर्याः ॥
अथ मुख्यानां सप्तसूर्याणां द्रष्टारावृषी उदाहरति । (१)“अपश्यमहमेतान् ० महामेरुं गन्तुम्”(१) इति । 'पञ्चकर्ण- नामकः', कश्चिद्वत्सस्य पुत्रो महर्षिः 'एतान्' आरोग्यादीन्, 'सप्तसूर्यान्', प्रत्यक्षेणैव 'अहमपश्यम्', इत्युवाच । तथा 'सप्त- कर्णनामकः', कश्चित् प्लक्षस्य पुत्रो महर्षिरपि 'अहमपश्यम्', इत्युवाच । अतो मनुष्यैः सन्निहितत्वादेक एव सूर्य्योऽवलोक्यते, न तु व्यवहितत्वादितरे षट् सूर्या अवलोक्यन्ते । किञ्च तौ 'उभौ' अपि पञ्चकर्णसप्तकर्णाख्यौ महर्षी, 'वेदयिते' इत्थं वेदयतः, प्राणिनः सर्वान् बोधयतः । किमिति तदुच्यते, 'कश्यपाख्यः' अष्टमः सूर्य्यः, 'नौ' आवयोः उभयोः, 'आनु- श्रविक एव', न तु प्रत्यक्षः गुरूपदेशमनुश्रूयत इत्यनुश्रवो वेदः, तत्रैवानुगतः, 'आनुश्रविकः', यत्ते शिल्पं कश्यपेत्यादि- मन्त्रादेवावगम्यत इत्यर्थः । प्रत्यक्षादर्शने हेतुमप्याहुः,
१ प्रपाठके ७ अनुवाकः । ४३
हि शेकुमि॑व महामे॒रुङ्कन्तुं॑(६) । (७)अप॑श्यम॒हमे॒तत् सू॑- र्यमण्डलं परिवर्त्त॑मानं । गार्ग्यः प्रा॑ण॒त्रातः । गच्छतं म॑हामे॒रुं । एक॑ञ्चाजह॒तं(७) । (८)भ्राजपटरपतङ्गा नि॒- ह्ने । तिष्ठ॑न्वात॒पन्ति॑ । तस्मा॑दि॒ह त॑म्न्रितपाः ॥ ३ ॥
‘महामेरुं’ कश्यपस्यस्थानं, ‘गन्तुं’, आवां ‘नहि शेकुमिव’ न शक्तौ भवाव एव, तस्माद्भेदादेव जानीवः ॥
अथ कश्यपदर्शिनमृषिमुदाहरति । (७)“अपश्यमहमेतत् ० एकञ्चाजहतं”(७) इति । गर्गस्य पुत्रः ‘प्राणत्रातनामकः’, कश्चित् महर्षिः तौ पञ्चकर्णसप्तकर्णौ प्रत्येवमुवाच, महामेरावेव ‘परिवर्त्तमानम्’, ‘एतत्’ कश्यपाभिधं, ‘सूर्य्यमण्डलं’, प्रत्यक्षेणैव ‘अपश्यं’, अतो हे मुनी युवामपि ‘महामेरुं’, ‘गच्छतं’ योग्येन मार्गेण गच्छतं, तत्त्वतस्तु दूहात्र* ‘अजहतं’ मेरुं कदाचिदप्यपरित्यजन्तम्, ‘एकं’ कश्यपाख्यं सूर्य्यञ्च, गच्छतं ॥
अथ मेरुगमने मार्गं दर्शयति । (८)“भ्राजपटरपतङ्गा निह्ने ० तस्मादिहातप्रितपाः”(८) इति । य एते सप्तसूर्याः तेषां मध्ये आरोगारख्यस्य अस्माभिर्दृश्यमानस्य सूर्य्यस्य गतिः प्रसिद्धा, तदनन्तरभाविनो भ्राजादयस्त्रयः ते ‘निह्ने’ मेरुमार्गस्य निह्रुतप्रदेशे अधोभागे, ‘तिष्ठन्वातपन्ति’ अवस्थिताः सन्तो रश्मिभिरधोमुखैर्मेरुमार्गादधोवर्त्तिनः प्राणिनः सर्वतः प्रकाशयन्ति, ‘तस्मात्’, एषामधोमुखा रश्मयः ‘तस्मात्’, ‘इह’ लोके, ‘तन्नि-
G 2
४४ तैत्तिरीये आरण्यके
' अमुत्रे॒तरे॑ । तस्मा॑दि॒हात॑प्तितपाः^(८) । ^(९)तेषा॑मे॒षा भ॑व॑ति । स॒प्त सूर्या॒ दिव॒मनु॒प्रवि॑ष्टाः । तानन्वे॑ति प॒थिभि॑र्दक्षिणावा॒न् । ते अ॒स्मै॒ सर्वे॑ घृ॒तमात॑पन्ति । ऊर्जँ॑
तपाः' तपनशीलरश्मियुक्ताः, 'इतरे' तु भ्राजपटरपतङ्गेभ्योऽन्ये, खर्णेन ज्योतिष्मद्दिभागशस्त्रयः सूर्याः ते 'अमुत्र' मेरुमार्गादुपरिभागे, वर्त्तन्ते यस्मात् तेषां रश्मयः यदूर्ध्वमुखास्तस्मात्ते 'इह' अधो लोकेषु, 'अतप्तितपाः' तपनशीलरश्मियुक्ता न भवन्ति, भ्राजादीनामधोमुखरश्मित्वात् खर्णादीनामूर्ध्वमुखरश्मित्वाच्च वर्गद्वयमध्ये तापाभावाच्छीतलेन मार्गेण मेरुं गन्तुं शक्यत इत्यर्थः ॥
अथ सूर्याणां मध्यवर्त्तिमार्गप्रतिपादिकामृचमवतारयति । (९)“तेषामेषा भवति ॰ अनपस्फुरन्त इति”(९) इति । आरोग्दयः 'सप्त सूर्याः', 'दिवम्' अन्तरिक्षं, 'अनुप्रविष्टाः' अनुक्रमेणव्याप्ताः, 'दक्षिणवान्' शास्त्रोक्त इष्टकदक्षिणायुक्तोऽनुष्ठितारुणकेतुकाग्निः, प्रागुक्तान् सप्तसूर्याननुसृत्य 'पथिभिः' सूर्यवर्गद्वयवर्त्तिभिः शान्तमार्गैः, 'एति' मेरुं गच्छति, 'ते' सूर्याः, 'सर्वे', 'अस्मै' यजमानाय, 'घृतमातपन्ति' मेरुमार्गरूपमाकाशं घृतादिभोग्यवस्तुसम्पूर्णं यथा भवति तथा प्रकाशयन्ति । किं कुर्वन्तः, 'ऊर्जं दुहानाः' भोग्यं क्षीरादिकं सम्पादयन्तः, 'अनपस्फुरन्तः' सन्तापमकुर्वन्तः, हे यजमान
१ प्रपाठके ७ अनुवाकः। ४५
दुहा॑ना अ॒नपस्फुर॑न्त॒ इति॑^{(९)}। ^{(१०)}स॒प्तर्त्विजः॒ सूर्या॑ इत्याचा॒र्याः^{(१०)}। ^{(११)}ते॒षामे॒षा भ॑वति^{(११)}। ^{(१२)}स॒प्त दि॒शो नाना॑सूर्याः ॥ ४ ॥ स॒प्त होता॑र ऋ॒त्विजः॑। दे॒वा आ॑दित्या॑ ये स॒प्त। ते-
इहास्यतां इह भुज्यतामित्येवं प्रियोक्तिं वदन्ति। तथा चाथर्वणिका आमनन्ति, एह्येहोति तमाहुतयः सुवर्चसः सूर्यरश्मिभिर्यजमानं वहन्ति प्रियां वाचमभिवदन्त्योर्चयन्त इति। इत्येषा सप्त सूर्या इत्यादिकामार्गप्रतिपादिका तयेष्टकामुपदध्यात्। तथा च बौधायनः। ‘सप्त सूर्याः सप्त दिशो नानापन्थानञ्चित्रं देवानामिति। चतस्रः सौरीः पुरस्तादिति’॥
इदानीं सूर्यस्वरूपे पक्षान्तरमुपन्यस्यति। ^{(१०)}“सप्तर्त्विजः ० इत्याचार्याः”^{(१०)} इति। य एते यज्ञे होत्रादयः ‘सप्तर्त्विजः’, त एव सप्त ‘सूर्याः’, ‘इति’, केचित् ‘आचार्याः’, प्रचक्षते॥
अस्मिन्नर्थे काञ्चिदृचमवतारयति। ^{(११)}“तेषामेषा भवति”^{(११)} इति। ‘तेषाम्’ ऋत्विग्रूपाणां सप्तसूर्याणां, प्रतिपादनार्था इयमृग्विद्यते॥
तामेतामृचं दर्शयति। ^{(१२)}“सप्त दिशो नानासूर्याः ० तेभिः सोमाभीरक्षण इति”^{(१२)} इति। अष्टसु दिक्षु मध्ये या प्राची सा सूर्यवतीति सर्वेषां प्राणिनां प्रसिद्धा। यास्त्वन्या आग्नेय्याद्याः ‘सप्त दिशः’, ता अपि नानाविधसूर्योपेताः, ते च सप्तसु दिक्षु
४६ तैत्तिरीये आरण्यके
भिः सोमाभीरक्ष॑ण॒ इति॑⁽१२⁾ । ⁽१३⁾तद॑प्याम्ना॒यः । दिग्- भाज ऋ॒तून् करो॑ति⁽१३⁾ । ⁽१४⁾ए॒तयै॒वावृता स॒हस्रसू- र्य॑ताया॒ इति॑ वैशम्पाय॒नः⁽१४⁾ । ⁽१५⁾तस्यै॒षा भव॑ति ।
अवस्थिताः । तत्स्वामिनः सूर्या इह कर्मणि होत्रादयः 'ऋ- त्विजः', भूत्वा चरन्ति । होता प्रशास्ता ब्राह्मणाच्छंसी पोता नेष्टा अच्छावाका आग्नीध्र इत्येते 'सप्त होतारः', य एतेऽत्र होत्रादयः 'ऋत्विजः', देवा भूत्वा सप्तादित्या इत्युच्यन्ते, हे सोमयागाधिपते 'तेभिः' होतृरूपैरादित्यैः, नोस्मान् 'अभि- रक्ष' । इत्यनयापीष्टकामुपदध्यात् ॥
ननु सूर्या ऋत्विग्रूपा इत्यस्मिन्नर्थे इयमृगाहृता । तत्र दिशो नानासूर्या इत्येतदप्रस्तुताभिधानमित्याशङ्क्योत्तरमाह । (१३)“तदप्याम्नायः • करोति”⁽१३⁾ इति । यदुक्तं दिशां नाना- सूर्योपत्वं 'तदप्याम्नायः', शाखान्तरे कश्चिन् मन्त्रो ब्रूते, अतो वेदान्तरसिद्धत्वादेतदपि वक्तव्यमेव । नाप्रस्तुतं किञ्चित् तस्मिन्नर्थे युक्तिरप्यस्ति 'दिग्भाजः' तां तां दिशं प्राप्यावस्थिताः सूर्याः, 'ऋतून्' वसन्तादिसूचितानृतुधर्मान्, 'करोति' तस्यां तस्यां दिशि कुर्वन्ति, न हि ऋतुनिष्पादकसूर्यव्यतिरेकेण त- त्तदृतुधर्माः सम्भवन्ति तस्मात् सन्त्येव दिक्षु विभिन्नाः सूर्याः ॥
अथ कैमुतिकन्यायेन दिशां बहुसूर्यत्वं दृढीकरोति । (१४)“एतयैवावृताः • वैशम्पायनः”⁽१४⁾ इति । 'एतयैवावृताः'
१ प्रपाठके ७ अनुवाकः । 89
यद्याव॑ इन्द्र ते श॒तꣳ श॒तन्त॒ भूमी॑: । उ॒त स्युः । न त्वा॑व- जिन् स॒हस्रꣳ॒ सूर्या॑: ॥ ५ ॥ अनु॑ न जातमष्ट॒ रोद॑सी इति॑⁽१५⁾ । ⁽१६⁾नानालिङ्ग-
अनेनैव प्रकारेण ऋतुधर्मा यत्र सन्ति तत्र तत्सम्पादकः सूर्यो- स्तीतिन्यायेन, 'सहस्रसूर्यतायाः', सहस्रसङ्ख्याकसूर्योपेतत्वपर्यन्तं दिक्षु सूर्यभेदाः कल्पनीयाः, तत्र सप्तसूर्यत्वे किमाश्चर्यमिति 'वैशम्पायनः', आचार्यो मन्यते। आसहस्रमित्युपलक्षणं, अनन्ताः सूर्या इत्यर्थः ॥
अनन्तसूर्यप्रतिपादिकामृचमवतारयति । ⁽१५⁾"तस्यैषा भ- वति * अनुनजातमष्ट रोदसी इति"⁽१५⁾ इति । 'यत्' यदि, हे 'इन्द्र', 'ते' तव, 'शतं द्यावः स्युः' बह्वभिः शतसङ्ख्याभिर्युक्ताः द्युलोकाः सम्भवेयुः, 'उत' अपि च, 'शतं भूमी स्युः' बह्वीभिः शतसङ्ख्याकाभिर्युक्ता भूमयोऽपि यदि सम्भवेयुः, हे 'वज्रिन्', तदानीमपि रोदसीजातं द्यावापृथिव्योर्मध्ये समुत्पन्नं त्वां 'सह- स्रसूर्याः' सहस्रोपलक्षिता अनन्ताः सूर्याः, 'नान्वष्ट' नान्व- श्नुवते, त्वामनु न व्याप्नुवन्ति, एतावत्सु द्युलोकेषु भूलोकेषु च सत्स्वपि तत्र तत्र स्थितं त्वामनु सूर्याव्याप्तेरपर्याप्ता देशाः, सूर्याणामनन्तत्वादित्यर्थः । इत्यनयापीष्टका उपदध्यात् ॥
मन्त्रोक्तमनन्तसूर्यत्वं युक्त्योपपादयति । ⁽१६⁾"नानालिङ्ग- त्वात् * नानासूर्यत्वं"⁽१६⁾ इति । यद्येक एव सूर्यः स्यात्
४८ तैत्तिरीये आरण्यके
त्वादृतूनां नानो॒सूर्य॑त्वं^(१६)। ।^(१७)अ॒ष्टौ तु व्यवसिता इति॑^(१७)। ।^(१८)सूर्य॑मण्ड॒लान्य॒ष्टात् ऊ॒र्ध्वम्। तेषा॑मे॒षा भव॑ति^(१८)।(१९)चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं। चक्षु॑र्मि॒त्रस्य॑
तदानीं वसन्ताद्यृतूनां नानालिङ्गत्वं न स्यात् न हि कारण- भेदमन्तरेण कार्यभेदः सम्भवति । तस्मादृतुधर्मवैलक्षण्यसि- द्धये बहुसूर्यत्वमभ्युपेयं ॥
कथन्तर्हि पूर्वत्रकश्यपोऽष्टम इत्येवं सूर्याणामष्टसङ्ख्या स्वी- कृतेत्याशङ्क्य तदभिप्रायं दर्शयति। (१७)“अष्टौ तु व्यवसिता इति”(१७) इति । बाढं । सन्त्येव तत्तल्लिङ्गकल्पा अनन्ताः सूर्याः किन्तु तत्रास्ति कश्चिद्विशेषः, ‘व्यवसिताः’ निश्चिताः, सूर्याः ‘अष्टौ’ इत्येवंविधः पञ्चकर्णसप्तकर्णाभ्यां सप्तानां सूर्याणां प्रत्य- क्षेण दृष्टत्वात् प्राणवातेनाष्टमस्यापि दृष्टत्वात् ॥
अष्टसङ्ख्यां निगमयति । (१८)“सूर्य्यमण्डलान्यष्टात ॰ तेषा- मेषा भवति”(१८) इति । ‘तेषां’ अनेकसूर्य्यमण्डलानां, प्रतिपा- दिकेयमृग्विच्यते ॥
तामेतामृचं दर्शयति। (१९)“चित्रं देवानामुदगादनीकं ॰ सूर्य्य आत्माजगतस्तस्थुषश्चेति”(१९) इति । ‘चित्रं’ बहुमण्डल- रूपत्वेन विचित्रं, ‘देवानामकनीकं’ अन्धकाररूपवृत्रशरीरा- त्मकस्य शत्रोर्विनाशकत्वेन देवसैन्यरूपमादित्यमण्डलमुदगात् पूर्व्वस्यां दिश्युदेति तच्च मण्डलजातं मित्रादीनां चक्षूरूपं ।
१ प्रपाठके ८ अनुवाकः । ४६
वरु॑णस्याग्ने । आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षम् । सूर्य्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्चेति॑^(१६) ॥ ६ ॥ सा॒कं जा॒क्षिर॒स्तन्नि॑तपा॒ नाना॑सूर्य्याः सूर्य्यो नव॑ च ॥ अनु० ॥ ७ ॥
अष्टमोऽनुवाकः ॥
^(१)क्केदमभ्रं॑ निवि॑शते । कायँ् सं॑वत्स॒रो मि॑थः । क्काहः॒ केयं दे॑व रा॒त्री । क्व मासा॑ ऋ॒तवः॑ श्रिताः^(१) ।
अन्धकार-निवारणेन चक्षुषोऽनुग्राहकत्वात् तादृशं सैन्यं ‘द्यावा- पृथिवी’, ‘अन्तरिक्षं’, च ‘आप्रा’ लोकत्रयं स्वकीयप्रकाशेनापूर्य वर्त्तते, तथाविधमण्डलसमूहस्वामी ‘सूर्य्यः’, ‘जगतः’ जङ्गमस्य, ‘तस्थुषः’ स्थावरस्य, ‘च’, ‘आत्मा’ स्वरूपं। इत्यनेनेष्टकामुपदध्यात्॥
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा- रण्यके प्रथमप्रपाठके सप्तमोऽनुवाकः ॥ ७ ॥
अथाष्टमोऽनुवाकः ।
कल्पः । पुरस्तात् क्वेदमभ्रमित्येकामिति । पाठस्तु । ^(१)“क्के- दमभ्रं निविशते ० क्व मासा ऋतवः श्रिताः”^(१) इति । आपो बिभ्रतीति ‘अभ्रं’ मेघस्वरूपं, तच्चाकाशे निरालम्बत्वेनास्माभिर्दृ-
H