भारतकोश
संग्रह पर लौटें

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

१० तैत्तिरीये आरण्यके

शे॒षे॒ण । स्मृतं कालवि॒शेष॑णम्^(२) । ^(३)न॒दीव॒ प्रभ॑वात् का-
चित् । अक्ष॑य्यात् स्यन्द॒ते यथा॑ ॥ १ ॥
तां नद्यो॑ऽभिस॒माय॑न्ति । सो॒रुः सती॑ न निव॑र्तते^(३) ।

तदुच्यते, ‘सर्वस्माद्भुवनादधि’ सर्वस्य भूतजातस्योपरि, रस-
वीर्यविकारादिभिः सर्वभूतजातमनुग्रहीतुमित्यर्थः । ‘तस्याः’
मरीचेः, ‘पाकविशेषेण’ तत्कृतेन पदार्थपरिपाकतारतम्येन,
‘कालविशेषणं’, अस्माभिः ‘स्मृतं’, भवति । प्रथमं तावद्बीजं
मरीचिकृतेन केनचित्पाकेनाङ्कुरीभवति, सचाङ्कुरः पाकान्तरेण
काण्डीभवति, तच्च काण्डं पाकान्तरेण पत्रपुष्पाण्युत्पादयति,
तच्च पुष्पं पाकान्तरेण फलि भवति, एवं कालकृततत्तत्पदा-
र्थावस्था दृष्ट्वा । तदुचिताः क्षणमुहूर्त्तदिवसपक्षमासादिरूपाः
कालविशेषा अस्माभिर्निश्चीयन्ते । ईदृशकालरूपा त्वमसीति
दृष्टका स्तुतिः । एवं सर्वं सर्वत्र द्रष्टव्यं ॥

अथ तृतीयामाह । ^(३)‘‘नदीव प्रभवात् काचित् ० सोरुः
सती न निवर्त्तते’’^(३) इति । अत्र कालस्य दृष्टान्तोऽभिधीयते ।
प्रभवत्युत्पद्यते जलमस्मादिति गोदावर्याद्युत्पत्तिप्रदेशः प्रभवः
स च निरन्तरजलोत्पत्तिदर्शनादक्षय्यः, तस्मात् ‘अक्षय्यात् प्रभ-
वात्’, उत्पन्ना महा‘नदी’ ‘स्यन्दते’ प्रवहति । सा नदी यादृशी
तादृशोऽयं संवत्सरः। ‘यथा’, च ‘तां’ महानदीम्, अन्याः क्षुद्राः
‘नद्यः’, ‘अभिसमायन्ति’ आभिमुख्येन संयोगं प्राप्नुवन्ति, ‘सा’
च महानदी, बहुक्षुद्रनदीमेलनात् ‘उरुः’ विस्तीर्णा, ‘सती’,

१ प्रपाठके २ अनुवाकः । ११

⁽⁴⁾ए॒वं ना॒नास॑मुत्था॒नाः । का॒लाः सं॑वत्स॒र ँ श्रि॑ताः । अ॒णुश॑श्च म॑ह॒शश्च॑ । सर्वे॑ समव॒यन्वि॑तं⁽⁴⁾ । ⁽⁵⁾स तैः सर्वैः सं॒मावि॑ष्टः । उ॒रुः सं॒न् निव॑र्त्तते । अधि॑ संवत्स॒रं वि॒- द्यात् । तदे॒व॑ लक्ष॒णे⁽⁵⁾ ॥ २ ॥

‘न निवर्त्तते’ कदाचिदपि न शुष्यति, किन्तु निरन्तरं प्रवहति ॥

अथ चतुर्थीमाह । ⁽⁴⁾“एवं नानासमुत्थानाः ॰ सर्वे सम- वयन्वितं”⁽⁴⁾ इति । अत्र दार्ष्टान्तिकोऽभिधीयते । यथा- दृष्टान्ते क्षुद्रा नद्यः सर्वा महानदीमेकामभिसमायन्ति । एवमेव नानासमुत्थाना नानासमाकाराः ‘अणुशः’ ‘महशश्च’ क्षणमुहूर्त्तादिरूपाः क्षुद्रकालाश्च, दिवसपक्षादिरूपा महा- कालाश्च, ‘संवत्सरं श्रिताः’ । ते क्षुद्रा महान्तश्च ‘सर्वे’, ‘सम- वयन्वितं’ रेफस्य छान्दसत्वात् प्राप्नुवन्तीत्यर्थः ॥

अथ पञ्चमीमाह । ⁽⁵⁾“स तैः सर्वैः समाविष्टः ॰ तदेव लक्षणे”⁽⁵⁾ इति । संवत्सरः ‘तैः’ अणुभिर्महद्भिश्च कालावयवैः, ‘सर्वैः’, ‘सम्यगाविष्टः’, ‘उरुः’ विस्तीर्णः, ‘सन् निवर्त्तते’ । कदाचिदपि न विच्छिद्यते किन्तु प्रभवविभवादिरूपेणानुवर्त्तत एव । तस्मात् ‘अधिसंवत्सरं’ संवत्सरस्यापरि सर्वं कालाधीनं जगदाश्रितमिति ‘विद्यात्’ । ‘लक्षणे’ काललक्षणे निरूप्यमाणे सति, ‘तदेव’ संवत्सररूपमेव, व्यावहारिककालस्य तत्त्वमवगम्यत इति शेषः ॥

१२ तैत्तिरीये आरण्यके

(६)अ॒णुभि॑श्च म॒हद्भि॑श्च । स॒मारू॑ढः प्र॒दृश्य॑ते । सं॑व॒त्सरः प्र॒त्यक्षे॑ण । नाधि॑सत्त्वः प्र॒दृश्य॑ते^(६) । (७)प॒टरो॑ वि॒क्लिधः॑ पि॒ङ्गः । ए॒तद॑रुणलक्षणं॑ । यच्चै॒तदुप॑दृश्यते ।


अथ षष्ठीमाह। (६)“अणुभिश्च महद्भिश्च ० नाधिसत्त्वः प्रदृश्यते”(१) इति। ‘अणुभिश्’ स्वल्पैः क्षणमुहूर्त्तादिभिरपि, ‘महद्भिश्च’ दिवसपक्षादिभिरप्यवयवैः, ‘समारूढः’ सम्यक् प्राप्तः, ‘संवत्सरः प्रत्यक्षेण दृश्यते’। आविपालगोपालं हि सार्वजनोनेनानुभवेन व्यवह्रियमाणत्वात् ‘अधिसत्त्वं’ सत्त्वात् सर्वप्राणिनां अस्तित्वेन प्रतीयमानात् संवत्सररूपात् कालादधिको नित्यो निरवयवः परमात्मरूपो व्यावहारिककालस्याप्युत्पादकः कालात्मा ‘अधिसत्त्वः’। योऽयं शास्त्रदृष्टिमन्तरेण ‘न दृश्यते’ ॥

अथ सप्तमीमाह। (७)पटरो विक्ग्लिधः पिङ्गः ० सहस्रं तत्र नीयते”(७) इति। योऽयमधिसत्त्वनामको व्यावहारिककालस्याप्युत्पादकः परमात्मरूपश्चैतन्यात्मकः, कालोऽस्ति। यः कालकाल इति श्रुत्यन्तरात्। तस्य कालस्य शास्त्रदृष्टिवर्जितैरदर्शने कारणमुच्यते। पटो वस्त्रसदृशश्चर्मविशेषोऽस्यास्तीति ‘पटरः’, ‘विक्लिधः’ विविधक्लेदनयुक्तः, ‘पिङ्गः’ पिङ्गलवर्णः, ‘एतत्’ शुक्लकृष्णादेरुपलक्षणं, एतैः सर्वैर्विशेषणैर्मांसमयोऽस्थिगोलकविशेषो विभज्यते। अस्ति हि तस्य पश्चात्पटलाख्य-

ः पटसदृशः विक्लेदनमप्यस्ति यदा तदा चक्षुषि जल-

१ प्रपाठके २ अनुवाकः । १३

स॒हस्रं॑ तच्च॒ नीय॑ते⁽७⁾ । ⁽८⁾एक॑ᳵ हि शिरो नाना॒ मुखे॑ ।
कृ॒त्स्नं त॑हृ॒तुलक्ष॑णम् ॥ ३ ॥
उभयतः स॒प्तेन्द्रि॑याणि । ज॒ल्पित॑न्त्वे॒व दि॒ह्यते॑⁽८⁾ ।


श्रवणात् पिङ्गलः। शुक्लादिवर्णः स्पष्ट एव। एतादृशं यद-
क्षिगोलकं 'एतत्', एव 'वरुणस्य' पारमार्थिककालतत्त्वावर-
कस्य, 'लक्षणं' स्वरूपं। 'वरुणलक्षणं' मांसदृष्टिरेव तत्त्वविषयां
शास्त्रदृष्टिमावृणोतीत्यर्थः। 'यत्र' यस्यां मांसदृष्टौ, 'एतत्'
जगत्, प्रतीयते। 'तत्र', क्षणे मुहूर्त्तो दिवस इत्यादिरूप-
भेदेन कालभेदानां 'सहस्रं', 'नीयते' व्यवह्रियतेऽवगम्यत
इत्यर्थः ॥

अथाष्टमीमाह। ⁽८⁾"एकᳵ हि शिरो ० लेव दिह्यते"⁽८⁾
इति। 'एकं', एवास्य व्यावहारिककालस्य 'शिरः' संवत्सर एव
शिरोवदुत्तमावयवस्थानीयः, 'मुखे' तु 'नाना'मुखस्थानीये
दक्षिणोत्तरायणे द्विविधे। यच्छिरस्थानीयस्य संवत्सरस्यैकत्वं,
यच्च मुखस्थानीययोर्दक्षिणोत्तरायणयोर्द्वित्वं, 'तत्' कृत्स्नमपि,
'ऋतुलक्षणं' ऋतूनां ज्ञापनं। सति हि संवत्सरे ततश्च तदं-
शयोर्र्दक्षिणोत्तरायणयोः पश्चात् तदंगत्वेन ऋतवो ज्ञातुं
शक्यन्ते। 'उभयतः' तयोरुभयोर्मुखस्थानीययोरयनयोः, 'सप्तेन्द्रि-
याणि' सप्तसङ्ख्याकेन्द्रियाधारशीर्षण्यच्छिद्रयुक्तानि शरीराण्यु-
त्पद्यन्ते। तदेवं शास्त्रदृष्टिवर्जितानामेकः संवत्सरो द्वे अयने

१४ तैत्तिरीये आरण्यके

(९)शु॒क्लकृ॒ष्णे सं॑वत्स॒रस्य॑ । दक्षि॑णवा॒मयोः॒ पार्श्व॑योः । तस्यै॒षा भ॑वति(९) । (१०)शु॒क्रं ते॑ अ॒न्यद्य॑ज॒तं ते॑ अ॒न्यत् । विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि । विश्वा॒ हि मा॒या अव॑सि


तदवयवा ऋतवः तेषु च सर्वेषु कालेषु प्राणिशरीराप्युत्पद्यन्ते इत्येवं भ्रान्तो व्यवहारः प्रवर्त्तते। परमार्थतस्तु शास्त्रदृष्ट्या पर्यालोच्यमानो 'जल्पितमेव', 'दिह्यते' संवत्सरायनादिनाममात्रमुपचीयते न त्वभिधेयः कश्चिदर्थोऽस्ति। अत एवोपनिषत्सु वाचारम्भणविकारो नामधेयं । नेह नानास्ति किञ्चन मायामात्रमिदं द्वैतमिति व्यवहारस्य मिथ्यात्वं बहुशस्त्वाम्नायते। एवमष्टौ मन्त्रा अभिहिताः॥

अथ ब्राह्मणमुच्यते। (९)“शुक्लकृष्णे ॰ तस्यैषा भवति”(९) इति। संवत्सरस्य व्यावहारिकस्य मुख्यस्य कालस्य दक्षिणवामपार्श्वस्थानीययोरुभयोः ‘शुक्लकृष्णे’ तथाविधवर्णयुक्ते अहोरात्रे, विद्येते ‘तस्य’ एतस्यार्थस्य प्रतिपादिका काचिदृग्विद्यते॥

अथ तामृचमाह। (१०)“शुक्रं ते अन्यद्यजतं ॰ पूषन्निह रातिरस्तु”(१०) इति। हे ‘पूषन्’ जगतः पोषक संवत्सर, ‘ते’ तव, अंशरूपं ‘शुक्रं’ श्वेतवर्णं, ‘अन्यत्’ अहराख्यं वस्तु पृथगेवास्ति, तथा ‘ते’ तव, ‘यजतं’ यजनीयं, निशितायां निर्वपेदित्यादियागोपलक्षितं रात्रिम्, ‘अन्यत्’ पृथगेवास्ति, तदेवं ‘विषुरूपे’ परस्परविलक्षणरूपे, ‘अहनी’ अहोरात्रे, वर्त्तेते तयोर्मध्ये ‘द्यौः’,

१ प्रपाठके २ अनुवाकः। १५

स्वधावः । भ॒द्रा ते॑ पूषन्नि॒ह रा॒तिर॒स्त्विति॑^(१०) । ^(११)नात्र॑ भुव॑नं । न पू॒षा । न प॒शवः॑ । नादि॒त्यः सं॑वत्स॒र ए॒व प्रत्य॒क्षेण॑ प्रियत॑मं विद्यात् । ए॒तद्वै सं॑वत्स॒रस्य॑ प्रियत॑-


‘इव’, त्वम् ‘असि’ तयोः प्रवर्त्तयिता वर्त्तसे । हे ‘स्वधावः’ अन्नवत्संवत्सर, ‘विश्वा मायाः’ सर्वाः पक्षमासादिकल्पितकाला- वयवाकृतीः, ‘अवसि’ पालयसे । हे ‘पूषन्’, ‘इह’ कर्मणि, ‘ते’ तव, ‘रातिर्भद्रास्तु’ फलप्रदानं समीचीनमस्तु । ‘इति’ अनेन मन्त्रेण । पूर्वमन्त्रवदुपधानं कल्प एवोदाहृतं ॥

अथ ब्राह्मणमुच्यते । ^(११)“नात्र भुवनं ० तमाहरणं द- द्यात्”^(११) इति । अस्मिन् ब्राह्मणे पारमार्थिकतत्वं व्याव- हारिककालञ्च विविच्य प्रदर्श्यते । ‘अत्र’ पारमार्थिकतत्वे, ‘भुवनं’ भूतजातं, ‘न’, अस्ति । तथा सति सर्वस्माद्भुवनादधीति यदुक्तं तन्नोपपन्नम् । ‘न’, वा ‘पूषा’ कश्चिद्देवोऽस्ति । तेन भद्रा ते पूषन्नित्येतदयुक्तं । ‘न’, च ‘पशवः’ द्विपदश्च चतुष्पदो वा सन्ति । तेनोभयतः सप्तेन्द्रियाणीत्येतदयुक्तं । ‘न’, अपि ‘आ- दित्यः’, कश्चिदस्ति । तस्मादेतैरादित्यमण्डलमित्येतन्न युक्तं किन्तर्हि विद्यत इति चेत् उच्यते । ‘संवत्सर एव’ निरस्त- समस्तक्षणमुहूर्त्ताद्यवयवविशेषो खण्ड एकाकारः कालतत्त्व- मेव, विद्यते तर्हि यथाविध एव नित्यो निरवयवः संवत्सर एव परमार्थभूतः प्राणिभिरवबुद्ध्यतामिति चेत् । मैवं, ‘प्रत्य-

१६तैत्तिरीये आरण्यके

म॑ रूपं॑ । योऽस्य॑ म॒हानर्थ॑ उत्पत्स्यमा॑नो भ॒वति॑ ।
इ॒दं पु॒ण्यं कु॑रु॒ष्वेति॑ । तमाहर॑णं द॒द्यात्^(१२) ॥ ४ ॥
य॒थाल॒क्षण॒मृ॑तुल॒क्षणं॒ भुव॑नग्ँ स॒प्त च॑ ॥ अनु० २ ॥


षेण’ हि लोकसिद्धेन, सर्वो जन्तुः ‘प्रियतमम्’, एव रूपं विन्देत् न तु वस्तुतत्त्वं । किं तर्हि प्रियमिति चेत् तदुच्यते, क्षणमुहूर्त्तदिवसपक्षाद्यात्मकं काल्पनिकं संवत्सरे यद्रूपं एतदेव शास्त्रदृष्टिरहितानां ‘प्रियतमं’ । ‘अस्य’ यजमानस्य, ‘यः’ अयमिष्टकोपधानपूर्वकः क्रतुः ‘उत्पत्स्यमानः’, ‘महान्’ अधिकः, ‘अर्थः’ फलहेतुत्वेन पुरुषार्थो भवति, ‘तं’ एव ‘आहरणम्’ आहर्त्तव्यम्, अनुष्ठेयम्, इष्टकोपाधानपूर्वकं क्रतुं ‘दद्यात्’ शिष्येभ्य उपदिशेत् । उपदेशप्रकार एव ‘इदं पुण्यं कुरुष्वेति’, वाक्येन स्पष्टं क्रियते, नात्र भुवन इत्यादिपरमार्थतत्त्वं नोपदिशेत् । यद्यपि तत्त्वमेवोत्तमं तथापि विवेकाभावान्नासावुपदेशार्ह इत्यभिप्रायः ॥

इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके प्रथमप्रपाठके द्वितीयोऽनुवाकः ॥ ॐ ॥

तृतीयोऽनुवाकः ।

१ प्रपाठके ३ अनुवाकः । १७

तृतीयोऽनुवाकः ।

^(१)सा॒क॒ञ्जानां॑ स॒प्तथ॑माहुरेक॒जम् । षडु॑द्य॒मा ऋष॑यो दे॒वजा इति॑ । तेषा॑मि॒ष्टानि॒ विहि॑तानि धाम॒शः । स्था॒त्रे रे॑जन्ते॒ विकृ॑तानि रूप॒शः^(१) । ^(२)को नु॑ मर्या॒ अ॒मिथ॑ितः । सखा॒ सखा॑यमब्रवीत् । जहा॑को अ॒स्मदी॑-


कल्पः । साकञ्जानामित्येकादश पुरस्तादिति उपदधातीत्यनुवर्त्तते । तत्र प्रथममाह । ^(१)“साकञ्जानां ॰ विकृतानि रूपशः”^(१) इति । ‘साकञ्जानां’ सहोत्पन्नानां आदित्यरश्मीनां मध्ये, ‘सप्तमं’ यः “स सप्तमो रश्मिः सूर्य्यो मरीचिमादत्त .” इति पूर्व्वत्रोक्तः तं सप्तमं रश्मिम्, ‘एकजमाहुः’ इतररश्मिभ्यः पूर्व्वं एकमेवोत्तरं न इति अभिज्ञाः कथयन्ति, ‘देवजाः’ आदित्यदेवात् उत्पन्नाः, इतरे ‘षड्’ रश्मयः, ‘उद्यमाः’ शिक्यस्योद्यमा इव, सप्तमरश्मेरुपसर्जनभूता इत्याहुः । ते च रश्मयः प्रकाशवत्त्वादृषिसमाः ‘तेषां’ षष्णां रश्मीनां, ‘इष्टानि’ अभिप्रेतानि, ‘धामशः’ स्थानानि, ‘विहितानि’ प्रजापतिना निर्मितानि, ते च रश्मयः ऋत्वात्मका अत एकस्य वसन्तत्वेन प्राथम्यं । अन्यस्य तदनन्तरभावित्वं । ततोऽप्यूर्द्ध्वभावित्वमन्यस्येत्येवं स्थानविकल्पितानि ‘स्थात्रे’ जगतः स्थित्यर्थं, ‘विकृतानि’ शीतोष्णादिरूपेण विलक्षणानि ‘रूपशः’ स्वरूपाणि, ‘रेजन्ते’ कम्पन्ते, प्रवर्त्तन्त इत्यर्थः ॥

अथ द्वितीयमाह । ^(२)“को नु मर्या ॰ अस्मदीषते”^(२)

१८तैत्तिरीये आरण्यके

षते^(२) । ^(३)यस्तित्याज॑ स॒खिविद॒ᳵ सखा॑यं । न तस्य॑ वा॒च्यपि॑ भा॒गो अ॑स्ति । यदि॑ᳵ शृ॒णोत्यल॒कंᳵ शृ॒णोति ॥ ॥ १ ॥

इति । हे ‘मर्याः’ मरणधर्म्माणो मनुष्याः, इदमेकं वचनं ब्रूतेति शेषः । ‘को नु’ युष्माकं मध्ये कः खलु, ‘अभिशितः’ इतरेणा- बाधितः, ‘सखा’, तमबाधकं ‘सखायमब्रवीत्’ । किमब्रवीदिति तदुच्यते । ‘जहाकः’ हानशीलोऽयं, अतः ‘अस्मत्’ सकाशात् ‘ईषते’ भीतः पलायत इति । अयमर्थः । द्वयोः सख्योः पर- स्परविरोधे सतीत्येकेन बाधित इतरः स्वयमपि तं बाधं बाधितुमिच्छन्निदं ब्रूते, अयं परित्यागशीलो मत्तः पलायत इति । न चेतद्वचनं सख्योर्युक्तं, ततो मनुष्या भवतां मध्ये सखा खलु सखायमन्यमेवं ब्रूते न कश्चिदप्येवं वक्तीति ॥

अथ तृतीयमाह । ^(३)“यस्तित्याजसखिविदᳵ ० सुकृतस्य पन्थामिति”^(२) इति । ‘यः’ पुमान्, स्वयं क्रूरहृदयः सन् स्व- विषये ‘सखिविदं’ मदीयोऽयं सखेति ज्ञातारं, अन्यं ‘सखायं’, ‘तित्याज’ परित्यजति । अयमर्थः द्वयोः सख्योर्मध्ये सात्त्विक एकः पुमान् इतरं प्रति मदीय आप्तः सखा असाविति एवं विश्वासमेवातिष्ठते इतरस्तु दुरात्मा तं परित्यजति । ‘तस्य’ सखिद्रोहिणः, ‘वाच्यपि’ वेदशास्त्राध्ययनेऽपि, ‘भागः’ भाग्यं, ‘नास्ति’ कापि विश्वासाभावात् किमु वक्तव्यमर्थज्ञानतदनुष्ठा- नयोर्नास्ति भाग्यमिति, ‘यदि’, अपि ‘अयं’ सखिद्रोही, ‘ईं’ इदं, वेदे वाक्यं ‘शृणोति’, तथापि ‘अलकं’ अलीकं मिथ्यैव,

१ प्रपाठके ३ अनुवाकः । १६

न हि प्र॒वेद॑ सु॒कृत॑स्य॒ पन्था॒मिति॑॑^(३) । <sup>(४)</sup>ऋ॒तुर्ऋतु॑- ना नु॒द्यमा॑नः । वि॒नना॒दा॒भिधा॑वः । ष॒ष्टिश्च॑ त्रि॒ꣳशका॑ व॒ल्गाः । शु॒क्ल॒कृ॒ष्णौ च॒ पाषि॑कौ^(४) । <sup>(५)</sup>सा॒रा॒ग॒व॒स्त्रैर्ज॑र-

'शृणोति', सखिद्रोहिणस्तस्योपकारके वेदेऽपि प्रामाण्यबुद्ध्य- भावात् । तस्मादयं वेदद्रोही 'सुकृतस्य पन्थां' पुण्यमार्गं, 'न हि प्रवेद' सर्वथा न जानाति, ततो बुद्धिमान् पुरुषः सख्यौ वेदेऽति विश्वासाभावरूपं द्रोहं परित्यज्यास्तिकः सन् आरुण- केतुकचयनमनुतिष्ठेदित्यभिप्रायः । 'इति' शब्दः शाखान्तर- प्रदर्शनार्थः । 'इति', एष शब्दः शाखान्तरे पठ्यते अतः सखिद्रो- हस्यान्याय्यत्वादेकः सखाऽन्यस्मिन् सखावुपालम्भं वक्तुं नार्ह- तीति पूर्वमन्त्रस्याभिप्रायः ॥

चतुर्थमाह । <sup>(४)</sup>"ऋतुर्ऋतुना नुद्यमानः • शुक्लकृष्णौ च षाष्टिकौ"^(४) इति । अथ संवत्सरगर्भाणामृतूनां स्वभावोऽभि- धीयते । 'ऋतुना', एकेनान्यः 'ऋतुः', 'नुद्यमानः' प्रेर्यमाणः, 'अभिधावः' आभिमुख्येन धावन्, 'विननाद' विशिष्टशब्दं चकार । अयमर्थः । वसन्तर्त्तौ अनन्तरमेव ग्रीष्मर्त्तुः प्रवर्त्तते, न त्वीषदपि व्यवधानमस्ति, तदेतत्पूर्वेणोत्तरस्य प्रेर्यमाणत्वं, स चावच्छिन्नाभिस्तिथिभिरभिनिष्पद्यते, तदेतदभिधावनमित्यु- च्यते । उपरिष्टादेव ता वाचः प्रयुज्यन्ते इति तत्तदृतुनुसारेण प्राणिनां वाच उदाहरिष्यन्ते । तदेतदृतुर्विननादेत्यनेन वि- वक्षितमिति मुहूर्त्तानां त्रिंशत्सङ्ख्या यस्मिन्नहोरात्रे विद्यते सोयं

D 2

२० तैत्तिरीये आरण्यके

द॑क्षः । व॒सन्तो॒ वसु॑भिः स॒ह । सं॒व॒त्स॒रस्य॑ सवि॒तुः । प्रै॒ष॒कृत् प्रथ॒मः स्मृ॑तः^{(५)} । ^{(६)}अ॒मून॒ादय॑ते॒त्यन्यान्॑ ॥ ॥ २ ॥

त्रिंशकः तादृशा बहवः ‘त्रिंशकाः’ अहोरात्राः, ‘बन्ताः’ वर्गाः स- मूहरूपा भूत्वा, ऋतावेकस्मिन् ‘षष्टिः’, सम्पद्यन्ते षष्टिसङ्ख्याका- होरात्रात्मक ऋतुरित्यर्थः । ‘च’कारः पूर्वोक्तनुद्यमानत्वादि- स्वभावेन समुच्चयार्थः । तस्याश्च षष्टिसङ्ख्याया द्वौ भागौ तौ च ‘शुक्लकृष्णा’त्मकौ, एकैकस्मिन्मासि शुक्लकृष्णतिथयः पञ्चदश मासे मिलित्वा त्रिंशत् । एवं कृष्णपक्षे तिथयोऽपि । ‘च’कारः पूर्ववत् । सोयमृतूनां स्वभाव इति मन्त्राभिप्रायः ॥

अथ पञ्चममाह । ^{(५)}“सारागवस्त्रैर्जरदक्षः ॰ प्रथमः

स्मृतः”^{(५)} इति । समन्ताद्रागमारागः तेन सहितानि सारा- गाणि तादृशानि च वस्त्राणि येषां ते ‘सारागवस्त्राः’, तैः, ‘वसुभिः’ प्रजानां निवासहेतुभिर्देवताविशेषैः, ‘सह’, अयं ‘व- सन्तः’, ऋतुः ‘जरदक्षः’ जरे जले दक्षः कुशलः सन्, ‘सवितुः’ ऋतूनां प्रेरकस्य, ‘संवत्सरस्य’, देवस्य ‘प्रैषकृत्’ आज्ञाकारी, ‘प्रथमः’ ऋतूनां मध्ये मुख्यः, इत्यभिज्ञैः ‘स्मृतः’ । ऋतूनां स्वामी संवत्सरो देवस्तस्याज्ञां सर्वे ऋतवः कुर्वन्ति, तेषां मध्ये मुख्योयं वसन्तः, तदा वृष्टिकालवत्, पङ्ककालुष्याभावेन जलं निर्मलं, देवतानां वस्त्राणि च शृङ्गारार्थं हरिद्रादिद्रव्यर- ञ्जितानि भवन्ति, सोयं वसन्तस्य विशेषस्वभाव इत्यर्थः ॥

१ प्रपाठके ३ अनुवाकः। २१

अ॒मूंश्च॑ परिरक्षतः । ए॒ता वाचः॑ प्रयुज्य॒न्ते । यत्रै॒तदुप॑दृश्यते ६ । ⁽७⁾ए॒तदे॒व वि॑जानीयात् । प्रमा॒णं का॑लपर्यये । वि॒शे॒ष॒णन्तु॑ वक्ष्यामः । ऋ॒तूनां तन्नि॒बो-


अथ षष्ठमाह । ⁽६⁾“अमूनादयतेत्यन्यान् ० तदुपदृश्यते”⁽६⁾ इति । वसन्तप्रवृत्तौ ब्राह्मणानां यज्ञोपनयनादिप्रवृत्तेः तत्र प्राणिभिः ‘एता वाचः प्रयुज्यन्ते’ । काः पुनर्वाच इति ता उच्यन्ते । ‘अमून’ बन्धून, ‘आदयत’ यथोचितं भोजयत, इत्येव ‘अन्यान्’ स्वगृहवासिनः पुरुषान् प्रति, यज्ञोपनयनादिकर्त्तारो वदन्ति ‘अमूंश्च’ एतानप्यागतान् वैदेशिकान् ब्राह्मणान्, ‘परिरक्षत’ हे गृहवर्त्तिपुरुषाः धनादिदानेन परितो रक्षां कुरुत इत्येतद्वचनजातं यस्मिन्नृतौ ‘दृश्यते’, सोऽयं वसन्त इत्यर्थः ॥

अथ सप्तममाह । ⁽७⁾“एतदेव विजानीयात् ० ऋतूनां तं निबोधत”⁽७⁾ इति । सारागवस्त्रैरित्यादि मन्त्रद्वयेन वसन्तचौरसाधारणस्वरूपं यदुक्तं ‘एतदेव’, ‘कालपर्ययं’ ग्रीष्माद्यृतुभेदे, ‘प्रमाणं विजानीयात्’ । एतद्दृष्टान्तेनानुमातुं शक्यत्वात् । विमिता ग्रीष्माद्यृतवोऽसाधारणस्वभावोपेताः ऋतुत्वादसन्तवदित्यनुमानं । तेन च सामान्याकारेणास्ति कश्चिदसाधारणस्वभाव इत्यवगतं । ‘ऋतूनां’ ग्रीष्मादीनां, ‘विशेषणं तु’, तत्तत्स्वभावविशेषमन्त्रमुत्तरेषु मन्त्रेषु वयं ‘वक्ष्यामहे’ बुभुत्सवः, ‘तं निबोधत’ ॥

८२ तैत्तिरीये आरण्यके

ध॑त्^(७) । ^(८)शु॒क्लवा॑सा रुद्रग॒णः । ग्री॒ष्मेणाव॑र्त्तते॒ सह॑ । नि॒दह॑न् पृथि॒वीᳲ सर्वां॑ ॥ ३ ॥ ज्योति॑षा प्रति॒ख्येने॑ सः^(८) । ^(९)वि॒श्वरू॑पाणि वा- साग्॑सि । आ॒दि॒त्यानां॑ निबो॑धत । सं॒व॒त्स॒रीणं॑ कर्म॑- फलं । व॒र्षाभि॒र्दद॑ताग् सह^(९) । ^(१०)अदुःखों दुःख-


अथाष्टममाह । ^(८)“शुक्लवासा रुद्रगणः ॰ ज्योतिषाप्र- तित्येन सः”^(८) इति । योऽयमेकादशानां ‘रुद्राणां गणः’, सोऽयं शुक्लवस्त्रोपेतः सन् ‘ग्रीष्मेण’, ऋतुना ‘सह वर्त्तते’ । ‘सः’ ग्रीष्मः, ‘अतिप्रख्येन’ निरुपमेनात्यधिकेन ‘ज्योतिषा’तापेन, ‘सर्वां पृथिवीं’, ‘निदहन्’ नितरां धक्षन्वर्तते, यच्चैतल्लक्षणं तं ग्रीष्मं विद्यादित्यर्थः ॥

अथ नवममाह । ^(९)“विश्वरूपाणि वासाग्ंसि ॰ वर्षा- भिर्ददताग् सह”^(९) इति । इत आरभ्य वर्षर्त्तोरसाधारणः स्वभाव उच्यते । ‘संवत्सरीणं’ एकस्मिन् संवत्सरे सर्वस्मिन्नपि भोगयोग्यं, ‘कर्मफलं’ व्रीह्यादिरूपं कृष्यादिफलं, यदस्ति तत् सर्वं ‘वर्षाभिः’ वर्षर्तुना, ‘सह’, अवस्थाय ‘ददतां’ प्रयच्छताम्, ‘आदित्यानां’, ‘वासांसि’ वस्त्राणि, ‘विश्वरूपाणि’ विचित्रवर्णो- पेतानि, ‘निबोधत’ वर्षर्तौ यत् कृष्यादिकर्म क्रियते तत् फलं आगामिवर्षर्तुपर्य्यन्तं प्राणिभिर्भोक्तुं पर्याप्तं भवति । तच्च फलं वर्षर्तुस्वामिभिरादित्यैर्दीयते । ते च विचित्रवर्णवस्त्रोपेता इत्यर्थः॥

अथ दशममाह । ^(१०)“अदुःखो दुःखचक्षुरिव ॰ रुरुदच्च

१ प्रपाठके ३ अनुवाकः । २३

च॑क्षु॒रिव॑ । तथा॑पीत इ॒व दृ॑श्यते । शी॒तेना॑व्यथय॒न्नि- व॑ । रु॒रुद॑क्ष इ॒व दृ॒श्य॑ते^(१०) । ^(११)ह्ला॒दय॑ते ज्वलत॒श्चैव॑ । शा॒म्यत॑श्चास्य॒ च॑क्षु॑षी । या वै प्र॒जा भ्रँ॑श्य॒न्ते । सं॒व॑-

इव दृश्यते”^(१०) इति । अयं वर्षर्तुः ‘अदुःखः’ स्वयं दुःख- रहितोऽपि, ‘दुःखचक्षुरिव’, ‘दृश्यते’ । तस्मिन् काले प्राणिनां चक्षुरोगोत्पत्तेः । तस्मिन् काले, प्राणिनां कामिलादिरोगो- पेतत्वात् । अयमृतुः स्वयमपि ‘तथा’ ‘पीत इव’ प्राणिद्वारा तद्रोगवानिव ‘दृश्यते’ । कामिलरोगग्रस्तस्य पीतलावभासात् । किञ्च ‘शीतेन’ वृष्ट्या, वायुना च, अर्दिने यच्छीतं तेन ‘शीतेन’, अयमृतुः ‘अव्यथयन्निव’ पीडामप्राप्नुवन्निव, ‘दृश्यते’ । सत्यपि तदा शीते प्रावरणाग्निसेवादिना शान्तस्य शीतस्य प्राणिभिः परिच्छिद्यमानत्वान्नास्ति व्यथा । किञ्च ‘रुरुदक्ष इव’ रुरवो मृगविशेषाः तैर्दक्षः समृद्ध इव, अयमृतुः, ‘दृश्यते’ । अरण्येषु तृणसमृद्ध्या तस्मिन्नृतौ पुष्टानां मृगयूथानां बहुलमुपलम्भात् ॥

अथैकादशमाह । ^(११)“ह्लादयते ज्वलतश्चैव ० संवत्सरात् ता भ्रूश्यन्ते”^(११) इति । अयं वर्षर्त्तुः सर्वान् प्राणिनः ‘ह्लाद- यते’ सन्तोषयते । अहो सुवृष्ट्या देवः सम्पत्स्यन्तेऽस्माकं शस्या- नि इत्येवं सर्वस्य लोकस्य परितोषः । तस्मिन्नृतौ बीजवाप- मकृत्वा ‘भ्रंश्यन्ते’, ताः ‘प्रजाः’, न केवलं तस्मादृतोरेव भ्रष्टाः किन्तु कृत्स्नादपि ‘संवत्सरात्’, भ्रष्टाः । आगामिवर्षपर्यन्तमन्नस्य दुर्लभ- त्वात् । ‘याः’ तु प्रजाः, तस्मिन्नृतौ क्षेत्रेषु बीजावापं कृत्वा प्रतिष्ठिता

२४ तैत्तिरीये आरण्यके

त्सरात्ता भ्र॑श्यन्ते^{(११)} । ^{(१२)}या॒ः प्रति॑तिष्ठन्ति । सं॑व- त्स॒रे ताः प्रति॑तिष्ठन्ति । वर्षा॑भ्य इत्यर्थः^{(१२)} ॥ ४ ॥

सृ॒णोत्य॒न्यान् सर्वा॑मे॒व षट् च॑ ॥ अनु० ३ ॥

भवन्ति ताः प्रजा अन्नस्य सुलभत्वात् समृद्धा दृश्यन्ते । ‘अस्य’ एवंविधस्य वर्षर्तौः, ‘चक्षुषी’, ‘ज्वलतश्चैव’, ‘शाम्यतश्च’, अनेन हि ऋतुना दृष्टाः पदार्थाः शक्तिविशेषलाभेनौज्वल्यं भजन्ते । अत- स्तदीये चक्षुषी सर्वान् पदार्थान् उज्ज्वलयतः । तथा तस्मिन्नृतौ सर्वे पदार्थाः शान्ता उपद्रवरहिता भवन्ति । अतस्तदीये च- क्षुषी सर्वान् पदार्थानुपशमयतः । ईदृशेन लक्षणेन वर्षर्तुरव- गन्तव्य इत्यर्थः । तैरतैरेकादशभिर्मन्त्रैरिष्टका उपधेयाः ॥

अथ ब्राह्मणमुच्यते । ^{(१२)}“याः प्रतितिष्ठन्ति ० वर्षाभ्य इत्यर्थः”^{(१२)} इति । याः काश्चित् प्रजाः तस्मिन्नृतौ क्षेत्रेषु बी- जावापमकृत्वा भ्रश्यन्ते ताः प्रजाः न केवलं तस्मादृताेरेव भ्रष्टाः किन्तु कृत्स्नादपि संवत्सराद्भ्रष्टाः । आगामिवर्षर्तुपर्यन्त- मन्नस्य दुर्लभत्वात् । ‘याः’ तु प्रजाः, तस्मिन्नृतौ क्षेत्रेषु बीजावापं कृत्वा प्रतिष्ठिता भवन्ति ‘ताः’ प्रजाः, अन्नस्य सुलभत्वात् कृत्स्नेऽपि ‘संवत्सरे’, प्रतिष्ठिता भवन्ति । यद्यपि ता भ्रश्यन्तामिवेत्येतस्मिन् पूर्ववाक्ये भ्रंशस्यापादानवाचकं पञ्चम्यन्तं पदं किमपि नास्ति, तथापि वर्षर्तुप्रकरणबलेन तल्लाभाद्वर्षाभ्यो भ्रश्यन्ते ‘इति’, तस्य वाक्यस्य ‘अर्थः’, सम्पद्यते ॥

इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजु- रारण्यके प्रथमप्रपाठके तृतीयोऽनुवाकः ॥ * ॥

१ प्रपाठके ४ अनुवाकः। २५

चतुर्थोऽनुवाकः ।

(१)अ॒क्षिदुःखोत्थितस्यै॑व। विप्रस॑न्ने क॒नोनि॑के। आङ्के॑ चाऽङ्ग्रह॑णं॒ नास्ति॑। ऋ॒भूणां॒ तन्नि॑बोधत।(१)। (२)कन॑का॒भानि॒ वासा॑ꣳसि। अह॑तानि नि॒बोध॑त। अन्न॑मश्नी॒त


कल्पः। अक्षिदुःखोत्थितस्यैवेतिषडिहेह व खतपम इति चेति। अथ प्रथममाह। (१)“अ॒क्षिदुःखोत्थितस्यैव ० ऋभूणान्तन्निबोधत”(१) इति। अत्र शरदृतुर्वर्ण्यते। ‘अक्षिदुःखं’ नेत्ररोगः, तस्य हि ‘कनीनिके’ अक्षिमध्यवर्त्तिन्यौ तारके, ‘विप्रसन्ने’ नेत्रमलस्यापगतत्वाद्विशेषेण प्रसन्ने भवतः। वर्षर्त्तौ उत्पन्ना नेत्रपीडा शाम्यति यथा कनीनिके प्रसन्ने एवं सर्वं जगदपि मेघपङ्कादिमालिन्याभावात् प्रसन्नं भवति ततः ‘अक्षिदुःखोत्थितस्यैव’, इत्ययम् ‘एव’कारः उपमार्थः। किञ्च अक्षिरोगाभावात् सर्वो जन ‘आङ्के च’ अञ्जनेन चक्षुषी संस्करोत्यपि, तस्मिन् ऋतौ ‘अङ्ग्रहणं’ दृष्टिविरोधि नीहारादिकं ‘नास्ति’, ‘तत्’ सर्वं, ऋतुदेवानां ‘ऋभूणां’, सामर्थ्यमिति ‘निबोधत’ ॥

अथ द्वितीयमाह। (२)“कनकाभानि वासांसि ० अहं वो जीवनप्रदः”(२)इति। तेषामृभूणां देवानां ‘वासांसि’ वस्त्राणि, ‘कनकाभानि’ सुवर्णसदृशानि, ‘अहतानि’, नूतनत्वात् न क्वापि तेषु छिद्रं दृश्यते, हे बुभुत्सवः एवं ‘निबोधत’। किञ्च शरत्काले वाच एतादृश्यः प्रवर्त्तन्ते, हे जनाः ‘अन्नमश्नीत’ अस्मि-

E

२६ तैत्तिरीये आरण्यके

मृ॒ज्मी॒त । अ॒हं वो॑ जीव॒नप्र॑दः^(२) । ^(३)ए॒ता वा॒चः प्र॑- यु॒ज्यन्ते॑ । शर॒द्य॑चोपदृ॒श्यते॑ ॥ १ ॥ अ॒भि॒धू॒न्वन्तो॑ऽभि॒घ्नन्त॑ इव । वात॑वन्तो म॒रुद्ग॑णाः^(३) । ^(४)अ॒मुतो जेतु॑मिषुमु॒खमिव॑ । सन्न॑द्धाः स॒ह द॑दृशे॒ ह ।

ऋतौ शरीरपुष्टिहेतुत्वाद्भक्ष्यं भोज्यं च पुष्कलं भक्षयत । ततो ‘मृज्मीत’ लेपान् शोधयत । ‘अहं’ शरदाख्य ऋतुः, ‘वः’ युष्माकं, ‘जीवनप्रदः’ सुखभोजनेन युक्तं जीवनं प्रयच्छामि ॥ अथ तृतीयमाह । ^(२)“एता वाचः प्रयुज्यन्ते ० वातव- न्तो मरुद्गणाः”^(३) इति । ‘यत्र’ यदा, ‘शरदाख्यः’ ऋतुः, ‘उप- दृश्यते’, तदानीमन्नमश्नोतेति ‘एता वाचः’, प्राणिभिः ‘प्रयु- ज्यन्ते’, अनेन लक्षणेन शरदाख्यमृतुं जानीयादित्यर्थः । अथ हेमन्त ऋतुर्वर्ण्यते । तस्मिन्नृतौ ‘मरुद्गणाः’ देवविशेषसङ्घाः, ‘अ- भिधून्वन्तः’ सर्वतः कम्पयन्तः, ‘अभिघ्नन्तः’ आभिमुख्येन हननं कुर्वन्तः, ‘इव’, ‘वातवन्तः’ तीव्रेण वायुना युक्ताः, भवन्ति ॥ अथ चतुर्थमाह । ^(४)“अमुतो जेतुमिषुमुखमिव ० वि- शिखासः कपर्दिनः”^(४) इति । ‘अमुतः’ वायुलोकात्, आगताः वायवः, ‘इषुमुखं’ योद्धृभिः शत्रुभिः प्रेरितं बाणाग्रं, ‘जेतुमिव’, ‘सन्नद्धाः’ कवचादिभृतः, ‘सह ददृशे ह’ सङ्घीभूता दृश्यन्त एव, हेमन्तेऽतिप्रबला वायवो युद्धार्थं सन्नद्धा इव सर्वतः प्रच- रन्ति । अत एव प्राणिनोपि युद्धार्थिन इव शीतवातोपद्रव-

१ प्रपाठके ६ अनुवाकः । २७

अप॒ध्व॒स्तैर्वस्ति॑व॒र्णैरिव॑ । वि॒शि॒खासः॑ कप॒र्द्दिनः॑^(४) । ^(५)अक्रु॑द्धस्य यो॒त्स्यमा॑नस्य । क्रु॒द्धस्ये॑व लो॒हिनी॑ । हे॒मन्तश्चक्षु॑षी वि॒द्यात् । अ॒क्ष्णयोः॑ क्षिप॒णोरि॑व^(५) ॥ २ ॥ ^(६)दुर्भिक्षं॑ दे॒वलो॒केषु॑ । मं॒नू॒नामु॒दकं॑ गृ॒हे । ए॒ता वाचः॑ प्र॑व॒दन्तीः॑ । वैद्यु॒तो या॑न्ति शैशि॒रीः^(६) । ^(७)ता


परिहाराय कञ्चुकाद्यावृता दृश्यन्ते । ‘अपध्वस्तैः’ तिरस्कृतैर्मलिनैः, ‘वस्तिवर्णैरिव’ वस्त्याकारैः कवचैरिव युक्ताः, ‘विशिखासः’, विविधशिखायुक्ताः, ‘कपर्दिनः’ केशबन्धयुक्ताश्च, प्राणिनो दृश्यन्ते । रजकैर्धौतानां घटितानां लिप्तानां वस्त्राणां अतिशैत्येन परित्यज्य नूतनाः स्थूलतन्तवो मलिनाश्च पटाः द्विचिगुणाः प्राव्रियन्ते, उष्णीषादिभिश्च शिरांसि वेष्ट्यन्त इत्यर्थः ॥

अथ पञ्चममाह । ^(५)“अक्रुद्धस्य योत्स्यमानस्य ० अक्ष्णयाः क्षिपणोरिवेति”^(५) इति । ‘अक्रुद्धस्य’ क्रोधरहितस्यैव ‘हेमतः’ हेमन्तर्त्तोः, ‘चक्षुषी’, ‘लोहिनी’ रक्ताकारे, ‘विद्यात्’ । तत्र दृष्टान्तः । ‘क्रुद्धस्य’ क्रोधाविष्टस्य, परान् हन्तुं पुरुषं प्रेरयतः अक्षिणी रक्ते तद्वत् । न चात्र क्रुद्धस्य ‘योत्स्यमानस्य’, इत्यनेन पुनरुक्तिः, उभयोरेकवाक्यत्वाङ्गीकारात् । क्रोधाविष्टपुरुषसाम्यं वक्तुं एक ‘इव’कारः । अक्षिसाम्यं वक्तुमपर ‘इव’कारः ॥

अथ षष्ठमाह । ^(६)“दुर्भिक्षं देवलोकेषु ० वैद्युतो यान्ति शैशिरोरिति”^(६) इति । पूर्वत्र यथा वाताभिघातादिकं हेम-

E 2

२८ तैत्तिरीये आरण्यक

अ॒ग्निः प॑वमा॒ना अन्वै॑क्षत । इ॒ह जी॑वि॒काम॑परि॒पश्य॑-
न् । तस्यै॒षा भव॑ति⁽७⁾ । ⁽८⁾इ॒हेह॑ वः स्वतपसः । मरु॑तः-

न्तस्य लक्षणमुक्तं । एवमत्र शिशिरस्य लक्षणमुच्यते । ‘देवलो-
केषु’ अन्तरिक्षभागेषु, ‘उदकं’, ‘दुर्भिचं’ भित्तितुमपि दुर्लभं,
तस्मिन्नृतौ वृष्टेरभावात् । ‘मनूनां’ मनुष्याणां, ‘गृहे’, कूपादि-
सद्भावात् ‘उदकं’, अल्पं विद्यते । तस्मादुदकार्थिभिर्गृहेषु गत्वा
जलं ग्राह्यं न तु मार्गेषु । तदस्मिन् ‘एताः’ एवंरूपाः, ‘वाचः’,
‘प्रवदन्तोः’ उच्चारयन्त्यः प्रजाः, ‘शैशिरोः’ शिशिरर्त्तौ विद्य-
मानाः, ‘वैद्युतः’ विद्युतसम्बन्धिन्यः, विद्युदुपलक्षितसन्तापयुक्ताः,
‘यान्ति’ मार्गे गच्छन्ति, तदिदं शिशिरर्त्तौर्लक्षणं । एभिः
षड्भिर्मन्त्रैरिष्टका उपदध्यात् ॥

अतःपरं ब्राह्मणमुच्यते । ⁽७⁾“ता अग्निः पवमाना ० तस्यै-
षा भवति”⁽७⁾ इति । ‘अग्निः’, देवः ‘इह’, लोके प्राणिनां ‘जीवि-
कां’ जीवनहेतुमुदकम्, ‘अपरिपश्यन्’, ‘पवमानाः’ शोधयन्तीः,
निरुदकत्वं प्रकाशयन्तीः, मार्गे गच्छन्तीः, ‘ताः’ प्रजाः, ‘अन्ववैक्षत’
अनुसृत्यैवं विचारितवान्, एताः प्रजा एवं वदन्ति इह चोदकं
न पश्यामः किं वा प्राणिनां भविष्यतीतिचिन्तितवानित्यर्थः ।
‘तस्य’ अग्निविचारस्य, प्रतिपादिका ‘एषा’, ऋग्विद्यते ॥

तामृचमाह । ⁽८⁾“इहेह व स्वतपसः ० शर्म सप्रथा आवृणे”
⁽८⁾ इति । ‘स्वतपसः’ स्वायत्ततपसः, सन्तापोदकयोः स्वत-
न्त्रा इत्यर्थः, ‘सूर्य्यत्वचः’ सूर्य्यसमानदीप्तयः, तादृशा हे

पञ्चमोऽनुवाकः ।

१ प्रपाठके ५ अनुवाकः। २६

सूर्य॑त्वचः । शर्म॑ स॒प्रथा॒ आर्वृ॑णी॒(८) ॥ ३ ॥ दृश्यत इ॒वार॑णे ॥ अनु० ४ ॥

पञ्चमोऽनुवाकः । ⁽१⁾अतिताम्राणि वासा॑ꣳसि । षष्टिश्चत्रिꣳश॒तश्च च ।

‘मरुतः’, ‘वः’ युष्मत्सकाशात्, सप्रथाः’ विस्तारयुक्तं, ‘शर्म’ सुखकारणमुदकं, ‘इहेह’ एतेषु सर्वेषु जलरहितप्रदेशेषु, ‘आवृणे’ प्राणिजीवनार्थं अहमग्निः सर्वतः प्रार्थये, अनेनापि मन्त्रेण काञ्चिदिष्टिकामुपदध्यात् ॥

इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके प्रथमप्रपाठके चतुर्थोऽनुवाकः ॥ * ॥


अथ पञ्चमोऽनुवाकः ।

कल्पः । अतिताम्राणीति चतस्रो मदन्तीस्त्वान्याप्रवर्ग्यवदाद्यन्तयोः शान्तिं कृत्वेति यथा प्रवर्ग्यस्यादौ नमो वाच इति शान्तिः पठ्यते अन्ते शं नो वात इति शान्तिः पठ्यते, एवमत्रापि चतसृणामिष्टकानादादावन्ते च तच्छान्तिद्वयं पठेत् । इष्टका अपि पूर्वेष्टकावत् अन्या आपो न भवन्ति किन्तु मदन्तिकाङ्कास्तप्ता आपस्तास्ततसृभिरुपदध्यात् । तत्र प्रथमामाह ।

(१)“अतिताम्राणि वासाꣳसि • अग्निशिखा असस्रुत”(१) इति ।