तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
प्रारंभिक पृष्ठ व विषय-सूची
The uploaded image is completely blank and contains no text. Please upload a clear image containing the text you would like transcribed.
The provided image is completely blank and contains no text to transcribe.
The provided image is completely blank and contains no text to transcribe.
तैत्तिरीयारण्यकम्
सायणाचार्य्यविरचितभाष्यसहितम् ।
श्रीराजेन्द्रलाल-मित्रेण परिशोधितम् ।
कलिकाता-नगर्य्यां
बाप्टिष्ट-मिशन्-यन्त्रे मुद्रितमभूत् ॥
शकाब्दाः १७९२ ॥ ई० १८७१ ॥
The provided image is completely blank and contains no text to transcribe.
तैत्तिरीये आरण्यके
प्रथमप्रपाठके प्रथमोऽनुवाकः।
हरिः ॐ।
भद्रं॒ कर्णे॑भिः शृणुया॒म दे॑वाः। भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः। स्थि॒रैरङ्गै॑स्तुष्टु॒वाꣳस॑स्त॒नूभिः॑। व्यशे॑म दे॒वहि॑तं॒ यदायुः॑। स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः। स्व॒स्ति नः॑
श्रीगणेशाय नमः।
माधवीये वेदार्थप्रकाशे
तैत्तिरीयारण्यकभाष्यम्।
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
तत्कटाक्षेण तद्रूपं दधद्बुक्कमहीपतिः।
आदिशन्माधवाचार्यं वेदार्थस्य प्रकाशने ॥
ये पूर्वोत्तरमीमांसे ते व्याख्यायातिसङ्ग्रहात्।
कृपालुः सायनाचार्यो वेदार्थं वक्तुमुद्यतः ॥
व्याख्याता सुखबोधार्थं तैत्तिरीयकसंहिता।
B
२ तैत्तिरीये आरण्यके
पू॒षा वि॒श्ववे॑दाः। स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः। स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु। ॐ शान्ति॒ः शान्ति॒ः शान्ति॑ः।
तद्ब्राह्मणञ्च व्याख्यातं शिष्टमारण्यकं ततः ॥
अरण्याध्ययनादेतदारण्यकमितीर्यते ।
अरण्ये तदधीयीतेत्येवं वाक्यं प्रवक्ष्यते ॥
काण्डमारण्यकं सर्वं व्याख्यातव्यं प्रयत्नतः ।
आरण्यकविशेषांस्तु पूर्वाचार्यैरुदीरिताः ॥
हौत्रं प्रवर्ग्यकाण्डञ्च याश्चोपनिषदो विदुः ।
अरुणीयविधिश्चैव काठके परिकीर्त्तितः ॥
रुद्रो नारायणश्चैव मेधो यश्चैव पिञ्चियः ।
एतदारण्यकं सर्वं नाव्रतो श्रोतुमर्हति ॥
कठेन मुनिना दृष्टं काठकं परिकीर्त्यते ।
सावित्रो नाचिकेतश्च चातुर्होत्रस्तृतीयकः ॥
तुर्यो वैश्वसृजस्तद्वज्जिरारुणकेतुकः ।
स्वाध्यायब्राह्मणञ्चेति सर्वं काठकमीरितम् ॥
नारण्याधीतिनियमः सावित्रादिचतुष्टये ।
अतस्तद्ब्राह्मणग्रन्थे श्रुतं व्याख्यातमप्यदः ॥
वज्रिरारुणकेत्वाख्यः काठके पञ्चमश्रुतः ।
आरण्यकादावाम्नातस्तद्व्याख्याद्य प्रतन्यते ॥
अत्र बोधायने कल्पे तत्प्रकारोऽभिहितः । 'एतेनारुण-
केतुको व्याख्यातो यावन्मन्त्रमभीष्टकाः । लोकं पृणात् च स्वय-
१ प्रपाठके १ अनुवाकः । ३
*(१) ॐ भ॒द्रं कर्णे॑भिः शृणुया॒म दे॑वाः । भ॒द्रं प॑श्येमा॒- क्षभि॑र्यजत्राः । स्थि॒रैरङ्गै॑स्तुष्टुवाꣳस॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ यदायुः॑।(१)। (२)स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः। स्व॒स्ति
मातृत्वात् चाप एवेति' । पूर्वत्र सावित्रादिचयनानामभि- हितत्वादेतेनेति तत्परामर्शः । अनूपा इष्टका अबीष्टकाः । नात्रेष्टका मृदादिना निष्पादनीयाः । किन्तु आप एवेष्टकाः, बुद्ध्योपधेया इत्यर्थः । उपधानेऽस्मिन् कल्प एवमभिहितः । 'उत्तरवेद्यावपनकाले तूष्णीं जानुदघ्नं खात्वान्यत्र मृदं निव- पति विदेरग्निरित्यादिर्लुप्यते । ध्रुवासीति प्रतिपद्यते । हस्त- ग्राहमबीष्टका उपदध्यात् । भद्रं कर्णेभिरिति द्वाभ्यां शान्तिं कृत्वा ताभ्यामुपदधातीति' । हस्तग्राहं हस्तेन गृहीत्वा जल- मित्यर्थः । तत्र शान्त्यर्थां प्रथमामृचमाह । “(१)भद्रं कर्णेभिः ० देवहितं यदायुः(२)” इति । हे 'देवाः' इन्द्रादयः, 'भद्रं' कल्याणं, श्रुतिस्मृतिवाक्यरूपं, 'कर्णेभिः' आचार्यान्तेवासि रूपाणामृत्विग्यजमानरूपाणां वाऽस्माकं बहूनां कर्णैः 'शृणु- याम' युष्मत्प्रसादात् सर्वदा श्रोतुं समर्थाः स्याम । अथा च 'यजत्राः' यागक्षमाः, वयं 'भद्रं' कल्याणं, यज्ञादिकं कर्म, 'अक्षभिः' चक्षुरिन्द्रियैः, साक्षात् 'पश्येम' । 'स्थिरैः' अविकलैः, 'अङ्गैः' चक्षुरादिभिर्हस्तादिभिश्चावयवैः, 'तनूभिः' तथाविध-
* एकजात्यङ्कचिह्नद्वयक्रोडीकृत एको मन्त्रो बोद्धव्यः ।
B 2
४ तैत्तिरीय आरण्यके
नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु^(२) । [^(३)आप॑मापामपः सर्वाः॑ । अ॒स्माद॒स्मादितो॒मुतः॑ ॥ १ ॥
शरीरैः, युक्ता वयं 'तुष्टुवांसः' युष्मदीयां स्तुतिं कुर्वाणाः, 'यत्' यस्मात् कारणात्, 'देवहितं' देवेन प्रजापतिना सम- र्पितं, सर्वमपि 'आयुः', 'व्यशेम' विशेषेण प्राप्नुवाम । तस्मादप- मृत्योरभावाच्चिरं भद्रं शृणुयामेति पूर्वत्रान्वयः ॥
अथ द्वितीयमाह । “^(२)स्वस्ति न इन्द्रः ० बृहस्पतिर्दधा- तु^(२)” इति । वृद्धैर्महात्मभिः सदा पुराणादिषु श्रूयत इति 'वृद्धश्रवाः', तादृशः 'इन्द्रः', 'नः' अस्माकं, 'स्वस्ति दधातु' अध्ययनश्रवणानुष्ठानार्थं क्षेमं सम्पादयतु । विश्वं वेत्ति जानाती- ति 'विश्ववेदाः', तादृशः 'पूषा', अपि 'नः', 'स्वस्ति दधातु' । 'अरिष्टम्' अहिंसा, तस्य 'नेमि'स्थानीयः, यथा लोहमयी नेमिः काष्ठमयस्य चक्रस्य भङ्गाभावाय पालयति एवमयं 'तार्क्ष्यः' गरुडोऽपि, सर्पादिकृतां हिंसां निवार्य तत्पालकत्वात् 'अरि- ष्टनेमिः', तादृशः तार्क्ष्यः 'नः', 'स्वस्ति दधातु' । 'बृह- स्पतिः', च ब्रह्मवर्चसं परिपाल्य 'नः स्वस्ति दधातु' । एत- न्मन्त्रद्वयं शान्त्यर्थमादौ पठित्वा प्रणवद्वयेनाबीष्टकाद्वयमुप- दध्यात् ॥
कल्पः । 'आपमापामिति पञ्चभिर्महानाम्नीभिरुष्णोदक- मिति'। उपदधाति इत्यनुवर्त्तते । तत्र प्रथमामाह । “^(३)आप-
१ प्रपाठके १ अनुवाकः । ५
अ॒ग्निर्वा॒युश्च॑ सू॒र्य॑श्च । स॒ह सं॑चस्क॒रर्द्धिया॑⁽३⁾ । ⁽४⁾वा॒व्यश्वा॑ रश्मिप॑तयः । मरी॑च्यात्मानो॒ अद्रु॑हः । दे॒वीर्भुव॑नस्र॒वरीः॑ । पु॒त्रव॒त्वाय॑ मे सुत⁽४⁾ । ⁽५⁾महानाम्नीर्म॑हामानाः॑ ।
मापामपः ० सह संचस्करर्द्धिया⁽३⁾" इति । अहं 'सर्वा अपः' सर्वदेशवर्त्तीनि जलानि, 'आपमापां' पुनः पुनः प्राप्तवानस्मि । आपमित्यस्य वीप्सया पौनः पुन्यं लभ्यते । दीर्घस्य छान्दसत्वाद्वितीयोऽप्यापमित्येव शब्दः । जललाभाय स्थानविशेषा निर्दिश्यन्ते । 'अस्मादस्मात्' इदंशब्देन वीप्सायुक्तेन सर्वनाम्ना-जलस्थानानि गङ्गासरस्वतीयमुनागोदावरीकावेर्यादीनि विद्यन्ते तस्मात् सर्वस्माज्जलस्थानात्, प्राप्तवानस्मीति पूर्वत्रान्वयः । 'इतोऽमुतः' इत्याभ्यां शब्दाभ्यां भूलोकस्वर्गलोकावभिधीयेते । तस्मादप्युभयस्माज्जलं प्राप्तवानित्यन्वयः । तामेतां सर्वजलप्राप्तिम् 'अग्निवायुसूर्याः', सम्पादयन्त्विति शेषः । अहं तैर्देवैः 'सह', 'ऋद्ध्या' समृद्धिनिमित्तं, 'संचस्कर' ता आपः संस्करोमि ॥
अथ द्वितीयामाह । "⁽४⁾वाव्यश्वा रश्मिपतयः ० पुत्रवत्वाय मे सुत⁽४⁾" इति । वायव एवाश्वस्थानीया वोढारो यासामपां ताः 'वाव्यश्वाः', आदित्यरश्मय एव पातारो यासामपां ताः 'रश्मिपतयः', मरीचय एवात्मा शरीरमाधारभूतं यासामपां ताः 'मरीच्यात्मानः', 'अद्रुहः' कस्यचिदपि द्रोहमकुर्वाणाः, 'देवीः' स्वच्छत्वेन द्योतमानाः, 'भुवनस्रवरीः' भूतजातस्य
६ तैत्तिरीये आरण्यके
म॒हसो॒ मह॑स्ख॑ः । दे॒वोः प॑र्जन्य॑स्त्वरीः । पु॒त्र॒व॒त्वाय॑ मे सुत^{(४)} ॥ २ ॥
^{(६)}अ॒पाश्म्यु॑ष्णिमपा रक्ष॑ः । अ॒पाश्म्यु॑ष्णिमपार॒घं । अ-
सवित्र्यः, ईदृग्भ्य आपो याः सन्ति तथाविधा हे आपः, यूयं 'मे' मम, 'पुत्रवलाय' बहुपुत्रयुक्ताय, 'सुत' अनुजानीत ॥
अथ तृतीयामाह । "^{(४)}महात्नाम्नीर्महामानाः ० पुत्रवत्वाय मे सुत^{(५)}" इति । महदधिकं नाम यासामपां ताः 'महानाम्न्यः', आप्नोति धातोरुत्पन्नस्याप्शब्दस्य सर्वफलप्राप्तिवाचकत्वान्महानामत्वं । 'महामानाः' अधिकपूजायुक्ताः, सर्वकर्मसु शुद्धिहेतुत्वेनाधिकपूज्यत्वं । 'महसो महसः' तत्तद्देवताविषयपूजायाः, 'खः' सवित्र्यः, प्रवर्त्तका इत्यर्थः । सति ह्युदकेऽर्घ्यपाद्यादिना देवाः पूज्यन्ते । 'देवीः' स्वच्छत्वेन द्योतमानाः, 'पर्जन्यस्त्वरीः' मेघेन प्रेरिताः, तादृश्या या आपः सन्ति, तथाविधा हे आपः 'मे' मम, 'पुत्रवत्वाय' बहुपुत्रसम्पत्तये, 'सुत' प्रेरयत ॥
अथ चतुर्थीमाह । "^{(१)}अपाश्म्युष्णिमपारक्षः ० अप देवीरितो हित^{(६)}" इति । अश्नाति भुङ्क्त इति 'अश्मिः' भोक्ता, उशति दहतीति 'उष्णिः' दाहकोऽग्निः, अश्मीनां भोक्तॄणामुष्णिर्दाहको योऽग्निः सोऽयम् 'अश्म्युष्णिः' योऽग्निर्दहन् दहति सोऽयं भोग्यवस्तुविनाशकत्वाद्भोक्तृदाहको भवति तादृशमग्निं 'इतः' अस्मत्पार्श्वात्, हे आपः यूयं 'अपहित' अपहिनुत,
१ प्रपाठके १ अनुवाकः । ७
पा॒पामप॑ चाव॑र्त्तिम्। अप॑ दे॒वीरितो॑ हि॒त^(६)। ^(७)वज्रं॑ दे॒वी- रजी॑ताꣳश्च । भुव॑नं दे॒वसूव॑रीः। आ॒दि॒त्यानदि॑तिं दे॒वीम्। योनि॑नो॒र्ध्वमुदी॑षत^(७)। ^(८)शि॒वा नः॒ शन्त॑मा भ-
वियोजयतेत्यर्थः । तथा ‘रक्षः’ बाधकं राक्षसम्, ‘अपहित’ । तथा ‘अश्युषिणं’ भोक्तृणां शरीरदाहकं ज्वरादिरूपमग्निम्, ‘अपहित’ । ज्वरदाहकृतं शरीरशोषणं तद्धेतुभूतं पापञ्च ‘अप- हित’ । ‘अक्षां’ प्राणादिज्ञानशक्त्यभावम् ‘अपहित’ । ‘अवत्तिं’ वृत्तिर्जीवनं तद्विरोधि दारिद्र्यम् ‘अपहित’ । ‘देवीः’ स्वच्छ- त्वेन द्योतमानाः, हे आपः अन्यदपि प्रतिकूलं सर्वम् ‘इतः’ अस्मत्समीपात्, ‘अपहित’ ॥
अथ पञ्चमीमाह । “^(७)वज्रं देवीरजीताꣳश्च ॰ योनिनो- र्ध्वमुदीषत^(७)” इति । हे आपो यूयं ‘देवीः’ द्योतनात्मिकाः सत्यः, ‘वज्रम्’ इन्द्रायुधम्, ‘ऊर्द्धं’ उपरिदेशे द्युलोके, ‘उदी- षत’ अस्मद्रक्षार्थमुन्नयत, उपरि हि वज्रे दृश्यमाने शत्रूणां भीतत्वादस्माकं रक्षा भवतीत्यर्थः । ‘अजीतान्’ शत्रुभिरजि- तान्, अस्मानपि, उपरिदेशे रक्षार्थं ‘वज्रम्’, उन्नयत । ‘भुवनं’ भूतजातं, गवादिकं च, ‘उदीषत’, ‘देवसूवरीः’ देवाना मपि सवित्र्यः प्रेरयित्र्यः, यूयम् ‘आदित्यान्’ अदितेः पुत्रान्, सर्वान् देवान्, ‘अदितिं’, ‘देवीं’, च ‘योनिना’ कारणत्वेन, ‘उदीषत’ । सर्वेऽपि देवा अस्मद्रक्षायाः कारणा भवन्त्वित्यर्थः ॥
८ तैत्तिरीये आरण्यके
वन्तु॑ । दि॒व्या आप॒ ओष॑धयः॑ । $^{(८)}$ । $^{(९)}$सुमृ॒डी॒का सर॑स्व- ति । मा ते॒ व्योम॑ स॒न्दृशि॑$^{(९)}$ ॥ ३ ॥ अ॒मृत॑: सु॒तौष॑धयो॒ दे च॑ ॥ अनु० १ ॥
कल्पः । 'शिवा नः शन्तमेति सौषध्योऽपोऽध्वर्यवे ददाति । स ताः प्रतिगृह्य शिवा न इत्युपदधाति' इति । पाठस्तु । "$^{(८)}$[शिवा नः शन्तमाः ० आप ओषधयः$^{(८)}$]" इति । दिवि- भवा याः 'आपः', याश्च 'ओषधयः', विद्यन्ते ताः सर्वाः 'नः' अस्माकं, 'शिवाः' सुखहेतवः, 'शन्तमाः' अतिशयेन दुःखशा- न्तिहेतवश्च 'भवन्तु' ॥
कल्पः । 'सुमृडीकेति भूमिवतीमुपदध्यादेताः पुरस्तात्' इति । पाठस्तु । "$^{(९)}$[सुमृडीका ० व्योम सन्दृशि$^{(९)}$]" इति । हे 'सरस्वति', सरोयुक्तभूमिरूपे इष्टके, त्वं 'सुमृडीका' सुष्ठु सुखहेतुर्भव । 'ते' तव सम्बन्धि, 'व्योम' छिद्रं, ओषधिभिराच्छ- न्नत्वात् 'मादृशि' दृष्टं माभूत् ॥
इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजु- रारण्यके प्रथमप्रपाठके प्रथमोऽनुवाकः ॥ * ॥
१ प्रपाठके २ अनुवाकः ९
द्वितीयानुवाकः ।
(१)स्मृतिः प्रत्यक्ष॒मैति॑ह्यम् । अ॒नु॒मान॑श्चतु॒ष्टय॑म् । ए॒तै- रा॑दि॒त्यम॒ण्डलं॑ । सर्वै॑रे॒व वि॒धास्य॑ते(१) । (२)सूर्यो॑ म- री॒चिमाद॑त्ते । सर्व॑स्मा॒द्भुव॑ना॒दधि॑ । तस्याः पाकवि-
कल्पः । 'स्मृतिः प्रत्यक्षमैतिह्यमित्यष्टौ मध्ये शुक्लं ते अ- न्यदिति च' इति उपदध्यादित्यनुवर्त्तते । तत्र प्रथमामाह । (१)“स्मृतिः प्रत्यक्षमैतिह्यं ० सर्वैरेव विधास्यते”(१) इति । 'स्मृतिः', अनुमेयश्रुतिमूलं मन्वादिशास्त्रं । 'प्रत्यक्षं' सर्वपुरुषाणां श्रो- त्रेण* ग्राह्यं, वेदवाक्यञ्च । 'ऐतिह्यं' इतिहासपुराणमहा- भारतब्राह्मणादिकं । 'अनुमानः' शिष्टाचारः, तेन हि मूलभूतं श्रुतिस्मृतिलक्षणं प्रमाणमनुमीयते । तदेतत् स्मृत्यादिचतुष्टय- मवगतिकारणभूतं प्रमाणं । 'एतैः' स्मृत्यादिभिः, 'सर्वैरेव' प्रमाणैः, 'आदित्यमण्डलं', 'विधास्यते' प्रमीयते । यादृशमिदं मण्डलं भवति यथा च प्रवर्त्तते, यथा चामन्वन्तरादिभेदभिन्नं कालं प्रवर्त्तयति । यथा चोदकसृष्ट्यादिना विश्वमुत्पादयति तत्सर्वं स्मृत्यादिप्रमाणसिद्धं हे अग्निष्टके त्वं तथाविधमण्डल- रूपासीति स्तुतिः ॥
अथ द्वितीयामाह । (२)“सूर्यो मरीचिमादत्ते ० ऋतं कालविशेषणं”(२) इति । अयं 'सूर्यः', जगदादौ 'मरीचिं' सर्वव्यवहारहेतुभूतं कञ्चिद्रश्मिं, 'आदत्ते' । कुत्रादत्त इति
* श्रोत्रियेण इति A. B. पुस्तकपाठः।
१० तैत्तिरीये आरण्यके
शे॒षे॒ण । स्मृतं कालवि॒शेष॑णम्^(२) । ^(३)न॒दीव॒ प्रभ॑वात् का-
चित् । अक्ष॑य्यात् स्यन्द॒ते यथा॑ ॥ १ ॥
तां नद्यो॑ऽभिस॒माय॑न्ति । सो॒रुः सती॑ न निव॑र्तते^(३) ।
तदुच्यते, ‘सर्वस्माद्भुवनादधि’ सर्वस्य भूतजातस्योपरि, रस-
वीर्यविकारादिभिः सर्वभूतजातमनुग्रहीतुमित्यर्थः । ‘तस्याः’
मरीचेः, ‘पाकविशेषेण’ तत्कृतेन पदार्थपरिपाकतारतम्येन,
‘कालविशेषणं’, अस्माभिः ‘स्मृतं’, भवति । प्रथमं तावद्बीजं
मरीचिकृतेन केनचित्पाकेनाङ्कुरीभवति, सचाङ्कुरः पाकान्तरेण
काण्डीभवति, तच्च काण्डं पाकान्तरेण पत्रपुष्पाण्युत्पादयति,
तच्च पुष्पं पाकान्तरेण फलि भवति, एवं कालकृततत्तत्पदा-
र्थावस्था दृष्ट्वा । तदुचिताः क्षणमुहूर्त्तदिवसपक्षमासादिरूपाः
कालविशेषा अस्माभिर्निश्चीयन्ते । ईदृशकालरूपा त्वमसीति
दृष्टका स्तुतिः । एवं सर्वं सर्वत्र द्रष्टव्यं ॥
अथ तृतीयामाह । ^(३)‘‘नदीव प्रभवात् काचित् ० सोरुः
सती न निवर्त्तते’’^(३) इति । अत्र कालस्य दृष्टान्तोऽभिधीयते ।
प्रभवत्युत्पद्यते जलमस्मादिति गोदावर्याद्युत्पत्तिप्रदेशः प्रभवः
स च निरन्तरजलोत्पत्तिदर्शनादक्षय्यः, तस्मात् ‘अक्षय्यात् प्रभ-
वात्’, उत्पन्ना महा‘नदी’ ‘स्यन्दते’ प्रवहति । सा नदी यादृशी
तादृशोऽयं संवत्सरः। ‘यथा’, च ‘तां’ महानदीम्, अन्याः क्षुद्राः
‘नद्यः’, ‘अभिसमायन्ति’ आभिमुख्येन संयोगं प्राप्नुवन्ति, ‘सा’
च महानदी, बहुक्षुद्रनदीमेलनात् ‘उरुः’ विस्तीर्णा, ‘सती’,
१ प्रपाठके २ अनुवाकः । ११
⁽⁴⁾ए॒वं ना॒नास॑मुत्था॒नाः । का॒लाः सं॑वत्स॒र ँ श्रि॑ताः । अ॒णुश॑श्च म॑ह॒शश्च॑ । सर्वे॑ समव॒यन्वि॑तं⁽⁴⁾ । ⁽⁵⁾स तैः सर्वैः सं॒मावि॑ष्टः । उ॒रुः सं॒न् निव॑र्त्तते । अधि॑ संवत्स॒रं वि॒- द्यात् । तदे॒व॑ लक्ष॒णे⁽⁵⁾ ॥ २ ॥
‘न निवर्त्तते’ कदाचिदपि न शुष्यति, किन्तु निरन्तरं प्रवहति ॥
अथ चतुर्थीमाह । ⁽⁴⁾“एवं नानासमुत्थानाः ॰ सर्वे सम- वयन्वितं”⁽⁴⁾ इति । अत्र दार्ष्टान्तिकोऽभिधीयते । यथा- दृष्टान्ते क्षुद्रा नद्यः सर्वा महानदीमेकामभिसमायन्ति । एवमेव नानासमुत्थाना नानासमाकाराः ‘अणुशः’ ‘महशश्च’ क्षणमुहूर्त्तादिरूपाः क्षुद्रकालाश्च, दिवसपक्षादिरूपा महा- कालाश्च, ‘संवत्सरं श्रिताः’ । ते क्षुद्रा महान्तश्च ‘सर्वे’, ‘सम- वयन्वितं’ रेफस्य छान्दसत्वात् प्राप्नुवन्तीत्यर्थः ॥
अथ पञ्चमीमाह । ⁽⁵⁾“स तैः सर्वैः समाविष्टः ॰ तदेव लक्षणे”⁽⁵⁾ इति । संवत्सरः ‘तैः’ अणुभिर्महद्भिश्च कालावयवैः, ‘सर्वैः’, ‘सम्यगाविष्टः’, ‘उरुः’ विस्तीर्णः, ‘सन् निवर्त्तते’ । कदाचिदपि न विच्छिद्यते किन्तु प्रभवविभवादिरूपेणानुवर्त्तत एव । तस्मात् ‘अधिसंवत्सरं’ संवत्सरस्यापरि सर्वं कालाधीनं जगदाश्रितमिति ‘विद्यात्’ । ‘लक्षणे’ काललक्षणे निरूप्यमाणे सति, ‘तदेव’ संवत्सररूपमेव, व्यावहारिककालस्य तत्त्वमवगम्यत इति शेषः ॥
१२ तैत्तिरीये आरण्यके
(६)अ॒णुभि॑श्च म॒हद्भि॑श्च । स॒मारू॑ढः प्र॒दृश्य॑ते । सं॑व॒त्सरः प्र॒त्यक्षे॑ण । नाधि॑सत्त्वः प्र॒दृश्य॑ते^(६) । (७)प॒टरो॑ वि॒क्लिधः॑ पि॒ङ्गः । ए॒तद॑रुणलक्षणं॑ । यच्चै॒तदुप॑दृश्यते ।
अथ षष्ठीमाह। (६)“अणुभिश्च महद्भिश्च ० नाधिसत्त्वः प्रदृश्यते”(१) इति। ‘अणुभिश्’ स्वल्पैः क्षणमुहूर्त्तादिभिरपि, ‘महद्भिश्च’ दिवसपक्षादिभिरप्यवयवैः, ‘समारूढः’ सम्यक् प्राप्तः, ‘संवत्सरः प्रत्यक्षेण दृश्यते’। आविपालगोपालं हि सार्वजनोनेनानुभवेन व्यवह्रियमाणत्वात् ‘अधिसत्त्वं’ सत्त्वात् सर्वप्राणिनां अस्तित्वेन प्रतीयमानात् संवत्सररूपात् कालादधिको नित्यो निरवयवः परमात्मरूपो व्यावहारिककालस्याप्युत्पादकः कालात्मा ‘अधिसत्त्वः’। योऽयं शास्त्रदृष्टिमन्तरेण ‘न दृश्यते’ ॥
अथ सप्तमीमाह। (७)पटरो विक्ग्लिधः पिङ्गः ० सहस्रं तत्र नीयते”(७) इति। योऽयमधिसत्त्वनामको व्यावहारिककालस्याप्युत्पादकः परमात्मरूपश्चैतन्यात्मकः, कालोऽस्ति। यः कालकाल इति श्रुत्यन्तरात्। तस्य कालस्य शास्त्रदृष्टिवर्जितैरदर्शने कारणमुच्यते। पटो वस्त्रसदृशश्चर्मविशेषोऽस्यास्तीति ‘पटरः’, ‘विक्लिधः’ विविधक्लेदनयुक्तः, ‘पिङ्गः’ पिङ्गलवर्णः, ‘एतत्’ शुक्लकृष्णादेरुपलक्षणं, एतैः सर्वैर्विशेषणैर्मांसमयोऽस्थिगोलकविशेषो विभज्यते। अस्ति हि तस्य पश्चात्पटलाख्य-
ः पटसदृशः विक्लेदनमप्यस्ति यदा तदा चक्षुषि जल-
१ प्रपाठके २ अनुवाकः । १३
स॒हस्रं॑ तच्च॒ नीय॑ते⁽७⁾ । ⁽८⁾एक॑ᳵ हि शिरो नाना॒ मुखे॑ ।
कृ॒त्स्नं त॑हृ॒तुलक्ष॑णम् ॥ ३ ॥
उभयतः स॒प्तेन्द्रि॑याणि । ज॒ल्पित॑न्त्वे॒व दि॒ह्यते॑⁽८⁾ ।
श्रवणात् पिङ्गलः। शुक्लादिवर्णः स्पष्ट एव। एतादृशं यद-
क्षिगोलकं 'एतत्', एव 'वरुणस्य' पारमार्थिककालतत्त्वावर-
कस्य, 'लक्षणं' स्वरूपं। 'वरुणलक्षणं' मांसदृष्टिरेव तत्त्वविषयां
शास्त्रदृष्टिमावृणोतीत्यर्थः। 'यत्र' यस्यां मांसदृष्टौ, 'एतत्'
जगत्, प्रतीयते। 'तत्र', क्षणे मुहूर्त्तो दिवस इत्यादिरूप-
भेदेन कालभेदानां 'सहस्रं', 'नीयते' व्यवह्रियतेऽवगम्यत
इत्यर्थः ॥
अथाष्टमीमाह। ⁽८⁾"एकᳵ हि शिरो ० लेव दिह्यते"⁽८⁾
इति। 'एकं', एवास्य व्यावहारिककालस्य 'शिरः' संवत्सर एव
शिरोवदुत्तमावयवस्थानीयः, 'मुखे' तु 'नाना'मुखस्थानीये
दक्षिणोत्तरायणे द्विविधे। यच्छिरस्थानीयस्य संवत्सरस्यैकत्वं,
यच्च मुखस्थानीययोर्दक्षिणोत्तरायणयोर्द्वित्वं, 'तत्' कृत्स्नमपि,
'ऋतुलक्षणं' ऋतूनां ज्ञापनं। सति हि संवत्सरे ततश्च तदं-
शयोर्र्दक्षिणोत्तरायणयोः पश्चात् तदंगत्वेन ऋतवो ज्ञातुं
शक्यन्ते। 'उभयतः' तयोरुभयोर्मुखस्थानीययोरयनयोः, 'सप्तेन्द्रि-
याणि' सप्तसङ्ख्याकेन्द्रियाधारशीर्षण्यच्छिद्रयुक्तानि शरीराण्यु-
त्पद्यन्ते। तदेवं शास्त्रदृष्टिवर्जितानामेकः संवत्सरो द्वे अयने
१४ तैत्तिरीये आरण्यके
(९)शु॒क्लकृ॒ष्णे सं॑वत्स॒रस्य॑ । दक्षि॑णवा॒मयोः॒ पार्श्व॑योः । तस्यै॒षा भ॑वति(९) । (१०)शु॒क्रं ते॑ अ॒न्यद्य॑ज॒तं ते॑ अ॒न्यत् । विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि । विश्वा॒ हि मा॒या अव॑सि
तदवयवा ऋतवः तेषु च सर्वेषु कालेषु प्राणिशरीराप्युत्पद्यन्ते इत्येवं भ्रान्तो व्यवहारः प्रवर्त्तते। परमार्थतस्तु शास्त्रदृष्ट्या पर्यालोच्यमानो 'जल्पितमेव', 'दिह्यते' संवत्सरायनादिनाममात्रमुपचीयते न त्वभिधेयः कश्चिदर्थोऽस्ति। अत एवोपनिषत्सु वाचारम्भणविकारो नामधेयं । नेह नानास्ति किञ्चन मायामात्रमिदं द्वैतमिति व्यवहारस्य मिथ्यात्वं बहुशस्त्वाम्नायते। एवमष्टौ मन्त्रा अभिहिताः॥
अथ ब्राह्मणमुच्यते। (९)“शुक्लकृष्णे ॰ तस्यैषा भवति”(९) इति। संवत्सरस्य व्यावहारिकस्य मुख्यस्य कालस्य दक्षिणवामपार्श्वस्थानीययोरुभयोः ‘शुक्लकृष्णे’ तथाविधवर्णयुक्ते अहोरात्रे, विद्येते ‘तस्य’ एतस्यार्थस्य प्रतिपादिका काचिदृग्विद्यते॥
अथ तामृचमाह। (१०)“शुक्रं ते अन्यद्यजतं ॰ पूषन्निह रातिरस्तु”(१०) इति। हे ‘पूषन्’ जगतः पोषक संवत्सर, ‘ते’ तव, अंशरूपं ‘शुक्रं’ श्वेतवर्णं, ‘अन्यत्’ अहराख्यं वस्तु पृथगेवास्ति, तथा ‘ते’ तव, ‘यजतं’ यजनीयं, निशितायां निर्वपेदित्यादियागोपलक्षितं रात्रिम्, ‘अन्यत्’ पृथगेवास्ति, तदेवं ‘विषुरूपे’ परस्परविलक्षणरूपे, ‘अहनी’ अहोरात्रे, वर्त्तेते तयोर्मध्ये ‘द्यौः’,
१ प्रपाठके २ अनुवाकः। १५
स्वधावः । भ॒द्रा ते॑ पूषन्नि॒ह रा॒तिर॒स्त्विति॑^(१०) । ^(११)नात्र॑ भुव॑नं । न पू॒षा । न प॒शवः॑ । नादि॒त्यः सं॑वत्स॒र ए॒व प्रत्य॒क्षेण॑ प्रियत॑मं विद्यात् । ए॒तद्वै सं॑वत्स॒रस्य॑ प्रियत॑-
‘इव’, त्वम् ‘असि’ तयोः प्रवर्त्तयिता वर्त्तसे । हे ‘स्वधावः’ अन्नवत्संवत्सर, ‘विश्वा मायाः’ सर्वाः पक्षमासादिकल्पितकाला- वयवाकृतीः, ‘अवसि’ पालयसे । हे ‘पूषन्’, ‘इह’ कर्मणि, ‘ते’ तव, ‘रातिर्भद्रास्तु’ फलप्रदानं समीचीनमस्तु । ‘इति’ अनेन मन्त्रेण । पूर्वमन्त्रवदुपधानं कल्प एवोदाहृतं ॥
अथ ब्राह्मणमुच्यते । ^(११)“नात्र भुवनं ० तमाहरणं द- द्यात्”^(११) इति । अस्मिन् ब्राह्मणे पारमार्थिकतत्वं व्याव- हारिककालञ्च विविच्य प्रदर्श्यते । ‘अत्र’ पारमार्थिकतत्वे, ‘भुवनं’ भूतजातं, ‘न’, अस्ति । तथा सति सर्वस्माद्भुवनादधीति यदुक्तं तन्नोपपन्नम् । ‘न’, वा ‘पूषा’ कश्चिद्देवोऽस्ति । तेन भद्रा ते पूषन्नित्येतदयुक्तं । ‘न’, च ‘पशवः’ द्विपदश्च चतुष्पदो वा सन्ति । तेनोभयतः सप्तेन्द्रियाणीत्येतदयुक्तं । ‘न’, अपि ‘आ- दित्यः’, कश्चिदस्ति । तस्मादेतैरादित्यमण्डलमित्येतन्न युक्तं किन्तर्हि विद्यत इति चेत् उच्यते । ‘संवत्सर एव’ निरस्त- समस्तक्षणमुहूर्त्ताद्यवयवविशेषो खण्ड एकाकारः कालतत्त्व- मेव, विद्यते तर्हि यथाविध एव नित्यो निरवयवः संवत्सर एव परमार्थभूतः प्राणिभिरवबुद्ध्यतामिति चेत् । मैवं, ‘प्रत्य-