भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 14, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 14

१ प्रपाठके २ अनुवाकः ९

द्वितीयानुवाकः ।

(१)स्मृतिः प्रत्यक्ष॒मैति॑ह्यम् । अ॒नु॒मान॑श्चतु॒ष्टय॑म् । ए॒तै- रा॑दि॒त्यम॒ण्डलं॑ । सर्वै॑रे॒व वि॒धास्य॑ते(१) । (२)सूर्यो॑ म- री॒चिमाद॑त्ते । सर्व॑स्मा॒द्भुव॑ना॒दधि॑ । तस्याः पाकवि-


कल्पः । 'स्मृतिः प्रत्यक्षमैतिह्यमित्यष्टौ मध्ये शुक्लं ते अ- न्यदिति च' इति उपदध्यादित्यनुवर्त्तते । तत्र प्रथमामाह । (१)“स्मृतिः प्रत्यक्षमैतिह्यं ० सर्वैरेव विधास्यते”(१) इति । 'स्मृतिः', अनुमेयश्रुतिमूलं मन्वादिशास्त्रं । 'प्रत्यक्षं' सर्वपुरुषाणां श्रो- त्रेण* ग्राह्यं, वेदवाक्यञ्च । 'ऐतिह्यं' इतिहासपुराणमहा- भारतब्राह्मणादिकं । 'अनुमानः' शिष्टाचारः, तेन हि मूलभूतं श्रुतिस्मृतिलक्षणं प्रमाणमनुमीयते । तदेतत् स्मृत्यादिचतुष्टय- मवगतिकारणभूतं प्रमाणं । 'एतैः' स्मृत्यादिभिः, 'सर्वैरेव' प्रमाणैः, 'आदित्यमण्डलं', 'विधास्यते' प्रमीयते । यादृशमिदं मण्डलं भवति यथा च प्रवर्त्तते, यथा चामन्वन्तरादिभेदभिन्नं कालं प्रवर्त्तयति । यथा चोदकसृष्ट्यादिना विश्वमुत्पादयति तत्सर्वं स्मृत्यादिप्रमाणसिद्धं हे अग्निष्टके त्वं तथाविधमण्डल- रूपासीति स्तुतिः ॥

अथ द्वितीयामाह । (२)“सूर्यो मरीचिमादत्ते ० ऋतं कालविशेषणं”(२) इति । अयं 'सूर्यः', जगदादौ 'मरीचिं' सर्वव्यवहारहेतुभूतं कञ्चिद्रश्मिं, 'आदत्ते' । कुत्रादत्त इति


* श्रोत्रियेण इति A. B. पुस्तकपाठः।