भारतकोश
संग्रह पर लौटें

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

षष्ठीमृचमाह । ^(६)"अनन्तमव्ययं ० चाप्यधोमुखं"^(६) इति ।

१० प्रपाठके ११ अनुवाकः। ८९५

न॑न्त॒मव्य॑यं क॒विꣳ स॑मु॒द्रेऽन्तं॑ वि॒श्वश॑म्भुवं । प॒द्म॒को॒श- प्र॑तीका॒श॒ꣳ हृद॑यं चाप्य॒धोमु॑खं^(६) । ^(७)अ॒धो नि॒ष्ट्या॑ वि॑तस्त्या॑ तु ना॒भ्यामु॒परि॑ तिष्ठति । ज्वा॒ल॒मा॒लाकु॑लं

षष्ठीमृचमाह । ^(६)"अनन्तमव्ययं ० चाप्यधोमुखं"^(६) इति । अत्र पूर्वार्द्धेन नारायणस्य वास्तवस्वरूपं सङ्क्षेप्योपन्यस्यते । 'अन- न्तं' देशपरिच्छेदरहितं, 'अव्ययं' विनाशरहितं, 'कविं' चिद्रूपेण सर्वज्ञं, 'समुद्रे' अतिबहुलत्वेन समुद्रसदृशे संसारे, 'अन्तं' अवसान- रूपं । यदा नारायणस्य स्वरूपं जानाति तदा संसारः क्षीयते* इत्यर्थः । 'विश्वशम्भुवं' सर्वस्य संसारसुखस्य उत्पत्तिकारणरूपं, "एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति" इति श्रुत्यन्त- रात् । ईदृशं नारायणस्वरूपं उपासीतेति शेषः । उत्तरार्द्धेनो- पासनस्थानमुच्यते । 'पद्मकोशप्रतीकाशं' यथा लोके अष्टदलकमलस्य कोशो मध्यच्छिद्रं तत्सदृशं, तच्च 'हृदय'शब्दवाच्यं, लौकिकं पद्मं ऊर्द्धाभिमुखं, हृदयपद्मं तु, 'अधोमुखं', इति विशेषः ॥

सप्तमीमृचमाह । ^(७)"अधो निष्ट्या ० आयतनं महत्"^(७) इति । 'निष्टिः' ग्रीवाबन्धः, तस्याः, 'अधस्ताद्वर्त्तते तत्रापि 'नाभ्या- मुपरि' नाभिदेशस्योर्ध्वदेशभागे, 'वितस्त्यां' द्वादशाङ्गुलिपरिमिला वितस्तिः, तस्यां अतीतायां, उपरि 'तिष्ठति' । तदेतन्निष्टिनाभ्यो- र्मध्यदेशवर्त्तिकमलं 'हृदयं', इति 'विजानीयात्', 'तत्' च हृदयं,


* जीयते इति F चिङ्कितपुस्तकपाठः ।

८२६ तैत्तिरीये आरण्यके

भा॒ती* विश्वस्या॑य॒तनं॑ म॒हत्^(७) । ^(८)सन्त॑त॒ग्ँ शि॒राभि॑- स्तु॒ लम्ब॑त्याकोश॒सन्नि॑भम् । तस्यान्ते॑ सुषिर॒ग्ँ सूक्ष्मं त- स्मि॑न्स॒र्वं प्रति॑ष्ठितं^(८) । ^(९)तस्य॒ मध्ये॑ म॒हान॒ग्नि॒र्विश्वा॑-

‘विश्वस्य’ सर्वस्य जगतः, ‘महदायतनं’। मनस्तावद्धृदयपुण्डरीके वर्त्तते। “चन्द्रमा मनो भूत्वा हृदयं प्राविशत्” इति श्रुत्य- न्तरात्। तेन च मनसा स्वप्नवत् सर्व्वमिदं जगत् कल्पितं। “मनोमूलमिदं द्वैतं यत्किञ्चित् सचराचरं” इति सम्प्रदायविद्- भिरुक्तत्वात्॥

अष्टमीमृचमाह। ^(८)“सन्ततग्ँ ० सर्वं प्रतिष्ठितं”^(८) इति। ‘आकोशः’ पद्मस्य मुकुलं, तत् ‘सन्निभं’ तत्सदृशं, हृदयकमलं ‘लम्बति’ शरीरमध्येऽधोमुखत्वेनावलम्बते। तच्च ‘शिराभिः’ ना- डीभिः, ‘सन्ततं’ परितः सम्यग् व्याप्तं। “शतं चैका च हृदयस्य नाड्यः” इति श्रुत्यन्तरात्। ‘तस्य’ हृदयस्य, ‘अन्ते’ समीपे, ‘सूक्ष्मं’, ‘सुषिरं’ छिद्रं, सुषुम्णानाडीनालं, तिष्ठति ‘तस्मिन्’ सुषिरे, ‘सर्वं’ इदं जगत्, ‘प्रतिष्ठितं’ आश्रितं। तत्र मनसि प्रविष्टे सति सर्व- जगदाधारस्य ब्रह्मणोऽभिव्यज्यमानत्वात्॥

नवमीमृचमाह। ^(९)“तस्य मध्ये ० अजरः कविः”^(९) इति। ‘तस्य’ सुषुम्णानालस्य, ‘मध्ये’, ‘महान्’ प्रौढः, ‘अग्निः’, वर्त्तते। स च ‘विश्वार्चिः’ बहुज्वालोपेतः, अतएव ज्वालाविशेषैः परि- तोऽवस्थितासु सर्वासु नाडीसु संसरणात् ‘विश्वतोमुखः’ बहुविधे-


हृदयं तद्विजानीयादिति F चिह्नितपुस्तकपाठः।

१० प्रपाठके ११ अनुवाकः। ८२७

र्चिर्विश्वतो॑मु॒खः । सोऽग्र॑भुग्विभ॒जन् तिष्ठ॒न्नाहा॑रम॒जरः॒ क॒विः(९) । ति॒र्य॒गूर्ध्वम॑धःशा॒यी र॒श्मय॑स्तस्य॒ सन्ता॑- ता ॥ $^{(१०)}$सन्ता॒पय॑ति स्वं दे॒हमापा॑दत॒लमस्त॑कं । तस्य॑ म॒ध्ये व॒ह्निशि॑खा अ॒णीयो॑र्ध्वा व्य॒वस्थि॑ता(१०) । $^{(११)}$नील-

स्वरूपः, 'सः' अग्निः, 'अग्रभुक्' स्वस्य पुरतः प्राप्तमन्नं भुङ्क्ते इति 'अग्रभुक्'। स च भुक्तं 'आहारं', शरीरे सर्वावयवेषु 'विभजन्' प्रसारयन्, 'तिष्ठन्' अवस्थित इत्यर्थः । तथा च भगवतोक्तं । "अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधं" इति ॥ तस्माद् भुक्त- मन्नमसौ जरयति न तु स्वयं जीर्यत इति 'अजरः' । अतएव 'कविः' अभिज्ञः, कुशल इत्यर्थः ॥

दशमोमृचमाह । (१०)"सन्तापयति ॰ अणीयोर्ध्वा व्यवस्थि- ता"(१०) इति । पादतलमारभ्य मस्तकपर्यन्तं कृत्स्नमपि स्वकीयं 'देहं', सर्वदा 'सन्तापयति' । सोऽयं शरीरगतः सन्तापः अग्निस- द्भावे लिङ्गं । 'तस्य' ज्वालाविशेषैः कृत्स्नदेहव्यापिनोऽग्नेः, 'मध्ये', 'वह्निशिखा' काचित् ज्वाला, 'अणीया' अत्यन्तसूक्ष्मा, 'ऊर्ध्वा' सुषुम्णानाडीनालेनोर्ध्वब्रह्मरन्ध्रपर्यन्तं प्रसृत्य, 'व्यवस्थिता' विशे- षेणावस्थिता ॥

एकादशोमृचमाह । (११)"नीलतोयदमध्यस्थात् ॰ भास्व- त्यणूपमा"(११) इति । तोयं उदकं ददातीति 'तोयदः' मेघः, स च वर्षितुं जलपूर्णत्वान्नीलवर्णः । तादृशस्य मेघस्य मध्ये स्थिता

८१८ | तैत्तिरीये आरण्यके

तो॒यद॑मध्य॒स्था वि॒द्युल्ले॑खेव॒ भास्व॑रा । नी॒वार॒शूक॑वत्त॒न्वी पी॒ता भा॑स्वत्य॒णूप॑मा^{(११)} । ^{(१२)}तस्या॑: शिखा॒यार्मध्ये॑ प॒रमा॑त्मा व्य॒वस्थि॑तः । स ब्र॒ह्मा॒ स शि॒वः॒ स हरि॒: सेन्द्रः॒ सोऽक्ष॑रः पर॒मः स्व॒राट्^{(१२)} ॥ २ ॥

‘विद्युल्लेखेव’, सेयं पूर्वोक्ताग्निशिखा ‘भास्वरा’ प्रभावती, ‘नीवारबीजस्य ‘शूकं’ दीर्घं पुच्छं, यथा तनु भवति, तद्वदियं शिखा ‘तन्वी’ । बाह्यवह्निज्वालेव ‘पीता भास्वती’ पीतवर्णा दीप्तियुक्ता, भवेत् । सा च ‘अणूपमा’ लौकिकीनां तनूनां सूक्ष्मवस्तूनां उपमा भवितुं योग्या ॥

द्वादशीमृचमाह । ^{(१२)}“तस्याः शिखाया ० परमः स्वराट्”^{(१२)} इति । ‘तस्याः’ पूर्वोक्ताया वह्निशिखायाः, ‘मध्ये,’ जगत्कारणभूतः ‘परमात्मा’, । विशेषेण ‘अवस्थितः’ । तस्योपासनार्थमल्पस्थानत्वेऽपि न स्वयमल्पः, किन्तु सर्वदेवात्मकः ‘ब्रह्मा’ चतुर्मुखः, ‘शिवः’ गौरीपतिः, ‘इन्द्रः’ स्वर्गाधिपतिः, ‘अक्षरः’ जगद्धेतुर्मायाविशिष्टोऽन्तर्यामी ईश्वरः । “क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते” इति भगवतोक्तत्वात् । ‘परमः’ मायारहितः शुद्धः चिद्रूपः । अत एव पारतन्त्र्याभावात् ‘स्वराट्’ स्वयमेव राजा । सहस्रशीर्षमित्यादिवाक्यप्रतिपाद्यं* तत्त्वं पद्मकोशप्रतीकाशमित्यादिवाक्योक्तप्रकारेण ध्यायेदिति तात्पर्यार्थः ॥


* प्रतिपादितमिति ५ चिह्नितपुस्तकपाठः ।

१० प्रपाठके १२ अनुवाकः । ८२६

अपि॑ वा, सन्त॑ता, षट् च ॥ अनु० ११ ॥


अथ द्वादशोऽनुवाकः ।

*(१)ऋतग्ँ॑ स॒त्यं परं॒ ब्रह्म॒ पुरु॑षं कृष्णपि॒ङ्ग॑लम् । ऊ॒र्ध्वरे॑तं वि॑रू॒पाक्षं॑ वि॒श्वरू॑पाय॒ वै नमो॒ नमः॑(१) ॥ अनु० १२ ॥


इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजु- रारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञि- क्यामुपनिषदि एकादशोऽनुवाकः ॥


अथ द्वादशोऽनुवाकः ।

पूर्वोक्तप्रकारेणोपासीनस्य पुरुषस्योपास्यदेवतानमस्कारार्थं ए- कामृचमाह । (१)“ऋतग्ँ सत्यं ॰ वै नमो नमः”(१) इति । यदेतत् ‘परं ब्रह्म’, तत् ‘सत्यं’ अबाध्यं । सत्यञ्च द्विविधं, व्यावहारिकं पारमार्थिकञ्च । हिरण्यगर्भादिकं रूपं व्यावहारिकं सत्यं । तन्निवारणेन पारमार्थिकसत्यं प्रदर्शयितुं ऋतं सत्यं इति विशिष्यते । अत्यन्तसत्यमित्यर्थः । तादृशं ब्रह्म स्वभक्तानुग्र- हाय उमामहेश्वरात्मकं पुरुषरूपं भवति । तत्र दक्षिणे महेश्वर- भागे ‘कृष्ण’वर्णः । उमाभागे वामे ‘पिङ्गल’वर्णः । स च योगेन


* उक्तमन्त्रोऽस्मल्लब्धेषु B, J, N, O चिह्नितपुस्तकेषु नास्ति । परन्तु भाष्ये धृतत्वान् मूले निवेशितः ।

८१० तैत्तिरीये आरण्यके

अथ त्रयोदशोऽनुवाकः ।

(१)आदित्यो॒ वा ए॒ष ए॒तन्म॒ण्डलं॒ तर्प॑ति॒ तत्र॒ ता ऋच॒स्तदृ॒चा म॑ण्ड॒लꣳ स ऋ॒चां लो॒कोऽथ॒ य ए॒ष ए॒त-


स्वकीयं रेतः ब्रह्मरन्ध्रे धृत्वा ‘ऊर्ध्वरेताः,’ भवति । त्रिनेत्रत्वात् ‘विरूपाक्षः’ तादृशं, परमेश्वरं अनुस्मृत्येति शेषः । ‘विश्वरूपाय’ जगत्कारणत्वेन सर्वजगदात्मकाय विरूपाक्षाय पुरुषायैव, ‘नमस्कारः अस्तु ॥

इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामपनिषदि द्वादशोऽनुवाकः ॥


अथ त्रयोदशोऽनुवाकः ।

इदानीमादित्यमण्डले परब्रह्मोपासनमाह । ⁽¹⁾“आदित्यो वा हिरण्मयः पुरुषः”(१) इति । नारायणशब्दवाच्यः यः परमेश्वरः पूर्वानुवाकेऽभिहितः, स ‘एषः’, ‘आदित्यो वै’ सोपाधिकः सन् आदित्यरूपेणैव वर्त्तते । तस्य चादित्यस्य ‘एतत्’ अस्माभिः दृश्यमानं, ‘मण्डलं’ वर्त्तुलाकारमुष्णं तेजः, ‘तपति’ सन्तापं करोति। ‘तत्र’ तस्मिन् मण्डले, ‘ताः’ अध्यापकप्रसिद्धा “अग्निमीले” इत्यादिकाः, ‘ऋचः’, वर्त्तन्ते । ‘तत्’ तस्मात् कारणात्, ‘मण्डलं’, ‘ऋचा’,

१० प्रपाठके १३ अनुवाकः। ८३१

स्मि॑न्मण्डले॒ऽर्चिर्दीप्य॑ते॒ तानि॒ सामानि॒ स साम्नां लो॒-
कोऽथ॒ य ए॒ष ए॒तस्मि॑न्मण्डले॒ऽर्चिषि॒ पुरु॑ष॒स्तानि॒ य-
जूं॑षि॒ स यजु॑षा मण्डलं॒ स यजु॑षां लो॒कः सैषा त्रय्ये॑व
वि॒द्या त॑पति॒ य ए॒षोऽन्त॑रादि॒त्ये हिर॒ण्मयः॒ पुरु॑षः(१)॥
अनु० १३॥

निष्पादितमिति शेषः। मण्डलभाग ऋग्भिर्निष्पादितः। 'ऋचां' ऋगभिमानिदेवतानां, 'लोकः' निवासस्थानं। एवं ऋगात्मकत्वं मण्डलस्य ध्यात्वा 'अथ' अनन्तरं, सामात्मकत्वं तत्र ध्यातव्यं कथमिति तदुच्यते। 'एतस्मिन्मण्डले', 'य एषः' यदेतत्, 'अर्चिर्दीप्यते' भास्वरं तेजः प्रकाशते। 'तानि' अर्चिःस्वरूपाणि, बृहद्रथन्तरादि'सामानि', इति ध्यायेत्। 'सः' अर्चिर्भागः, 'साम्नां' सामाभिमानिदेवतानां, 'लोकः' निवासस्थानं। 'अथ' साम्नोध्यानानन्तरं, यजुरात्मकं ध्यातव्यं कथमिति तदुच्यते। 'य एषः' शास्त्रप्रसिद्धः 'एतस्मिन्' दृश्यमाने, 'मण्डले', तदीये 'अर्चिषि', 'पुरुषः' देवतात्मा, वर्त्तते। 'तानि' देवतास्वरूपाणि, 'यजूंषि' इषे त्वोर्जे त्वा इत्यादीनि, ध्यायेत्। 'सः' यजुरात्मकः पुरुषः, 'यजुषा', निष्पादितं 'मण्डलं', इति ध्यायेत्। 'सः' यजुर्भागः, 'यजुषां' यजुरभिमानिदेवतानां, 'लोकः' निवासस्थानं। 'सैषा' मण्डलतदर्चिस्तत्स्थपुरुषरूपा, 'त्रयी एव' ऋग्यजुःसामात्मिकैव, 'विद्या', 'तपति' प्रकाशते। 'यः' पुरुषोऽत्राभिहितः, 'एषः', 'अन्तरादित्ये' आदित्यमण्डलमध्ये, 'हिरण्मयः', वर्त्तते।

५१

८३२ तैत्तिरीये आरण्यके

अथ चतुर्द्दशोऽनुवाकः ।

$^{(१)}$आ॒दि॒त्यो वै तेज॒ ओजो॒ बलं॒ यश॒श्चक्षुः॒श्रोत्र॑- मा॒त्मा मनो॑ म॒न्युर्मनु॑र्मृ॒त्युः स॒त्यो मि॒त्रो वा॒युरा॑का॒शः


हिरण्मयत्वञ्च श्रुत्यन्तरे* प्रपञ्चितं। “अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते। हिरण्यश्मश्रुर्हिरण्यकेश आप्रनखात् सर्व- एव सुवर्णः” इति ॥

इति सायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरार- ण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्या- मुपनिषदि त्रयोदशोऽनुवाकः ॥


अथ चतुर्दशोऽनुवाकः।

पूर्वोक्तस्यैवादित्यपुरुषस्य सर्वात्मकत्वलक्षणमवशिष्टमुपास्यगुणं दर्शयति। $^{(१)}$“आदित्यो वै ॰ भूतानामधिपतिः”$^{(१)}$ इति। योऽयं ‘आदित्यः’, उपास्यत्वेनोक्तः, स एव तेजआद्यधिपत्यन्तसर्व- जगदात्मकं, ‘तेजः’ दीप्तिः। ‘ओजः’ बलकारणं। ‘बलं’ शरीर- शक्तिः। ‘यशः’ कीर्त्तिः। ‘चक्षुःश्रोत्रे’ बाह्येन्द्रिये। ‘आत्मा’ देहः। ‘मनः’ अन्तःकरणं। ‘मन्युः’ तद्धर्मः कोपः। ‘मनुः’ स्वायम्भुवादिः।


* शाखान्तरे इति F चिह्नितपुस्तकपाठः।

१० प्रपाठके १४ अनुवाकः । ८१३

प्रा॒णो लो॑क॒पालः॑ कः किं कं तत्स॒त्यमन्न॑मायु॒रमृ॒तौ* जी॒वो विश्वः॑ कत॒मः स्व॑य॒म्भु ब्रह्मैतदमृतं† ए॒ष पुरु॑ष ए॒ष भू॒ताना॒मधि॑पतिः$^{(१)}$ $^{(२)}$ब्रह्म॑णः सायु॒ज्यँ॑ सलो॒क-


'मृत्युः' यमः । 'सत्यादयः सत्यवचनाद्यभिमानिनो देवताविशेषाः । 'कः' प्रजापतिः । 'किं' इत्यनेन वाचा विशेषनिर्देशानर्हं वस्तु- जातं विवक्षितं । 'कं' सुखं । 'तत्' शब्देन परोक्षं वस्तु विवक्षितं । 'सत्यं' अनृतवर्जनं । 'अन्नं' व्रीहियवादिकं । 'आयुः' शतसंवत्सरा- दिकं । 'अमृतः' मरणरहितः । 'जीवः' चिदात्मा । स च 'विश्वः' शरीरभेदेनानेकविधः । 'कतमः' अतिशयेन सुखस्वरूपः । 'स्वयम्भु' कारणान्तरादनुत्पन्नः प्रजापतिः । 'प्रजापतिः' प्रजापालको राजा- दिः । 'इति' शब्दः प्रदर्शनार्थः । इत्यादिकं सर्वमुदाहरणीयमि- त्यर्थः । तत्र संवत्सररूपस्य कालस्यादित्येन निष्पादितत्वात् 'संव- त्सरः', 'आदित्यस्वरूपः । 'य एषः' सर्वात्मकः, 'पुरुषः', सः 'एषः', 'भूतानां' प्राणिनां, 'अधिपतिः' स्वामी ॥

उपास्यगुणानभिधाय फलं दर्शयति । $^{(२)}$"ब्रह्मणः सायुज्यँ ० य एवं वेद"$^{(२)}$ इति । 'यः' पुमान्, 'एवम्' उक्तप्रकारेण, 'वेद' उपास्ते, सः पुमान् 'सायुज्यादिफलमाप्नोति । द्विविधमुपासनं,


* मन्नममृत इति B, J, N, O चिह्नितपुस्तकचतुष्टयपाठः ।
† ब्रह्मैतदमृत इति मूलपुस्तकधृतपाठस्य परिवर्त्ते भाष्यपुस्तकत्रय- गृहीतमूलपाठे 'प्रजापतिः संवत्सर इति संवत्सरोऽसावादित्यो यः' इति पाठो वर्त्तते ।

5 1 2

८३४ | तैत्तिरीये आरण्यके


ता॑मा॒प्नो॒त्ये॒तासा॑मे॒व दे॒वता॑नाꣳ सायु॑ज्यꣳ सार्ष्टि॑ताꣳ स॒मा॒न॒लो॒क॒तामा॑प्नोति॒ य ए॒वं वेद॑^(१) ^(१)इत्युप॑नि॒षत्^(१)॥
अनु० १४ ॥


हिरण्यगर्भोपासनं, तदवयवभूतदेवतोपासनं च द्वेति। तत्र हिरण्यगर्भोपास्तौ भावनाधिक्ये सति 'ब्रह्मणः' हिरण्यगर्भस्य, 'सायुज्यं' सहभावतादात्म्यं, प्राप्नोति'। भावनामान्द्ये 'सलोकतां' हिरण्यगर्भेण सह एकलोकनिवासं, प्राप्नोति'। देवतोपास्तावपि भावनाधिक्ये सति 'एतासामेव' इत्यादीनां, 'देवतानां', 'सायुज्यं', प्राप्नोति'। भावनाया मध्यत्वे सति 'सार्ष्टितां' समानैश्वर्यतां, प्राप्नोति'। मान्द्ये तु 'समानलोकतां', प्राप्नोति' ॥

उत्तरमन्त्रजपविवक्षयोपास्तिप्रकारमुपसंहरति । ^(१)“इत्युपनिषत्”^(१) इति। 'इति' एवं पूर्वैः तैरनुवाकैरुक्ता, 'उपनिषत्' रहस्यभूता विद्या, समाप्तेति शेषः ॥

इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि चतुर्दशोऽनुवाकः ॥

१० प्रपाठके १५ अनुवाकः। ८३५

अथ पञ्चदशोऽनुवाकः ।

(१)घृणिः॒ सूर्य्य॑* आदित्यो न प्रभा॒वात्य॒क्षरं॑ । मधु॑ क्षरन्ति॒ तद्र॑सं । स॒त्यं वै तद्र॒समापो॒ ज्योती॒ रसो॒ऽमृतं॑* ब्रह्म॒ भूर्भुवः॒ सुव॒रोम्(१)† ॥ अनु० १५ ॥


अथ पञ्चदशोऽनुवाकः ।

उपासनायामसमर्थस्यादित्यदेवताविषयं जपं मन्त्रमाह । (१) “घृणिः सूर्य्यः ० भूर्भुवः सुवरोम्”(१) इति । ‘घृणिः’ दीप्तिमान्, ‘सूर्य्यः’ एतन्नामकः, ‘आदित्यः’ अदितिदेवतायाः पुत्रः । एतादृशोऽहमस्मि । ईदृशमादित्यं फलार्थिनः सर्वेऽपि ‘अर्चयन्ति’ । तथा ‘तं’ आदित्यं, उद्दिश्य ‘तपः’, चरन्तीति शेषः । ‘सत्यं’ अनृतवर्जनं, अनुतिष्ठन्तीति शेषः । ‘मधु चरन्ति’ मधुरं क्षीरादिकं नैवेद्यरूपेण समर्पयन्ति । ‘तत्’ आदित्यरूपं, ‘ब्रह्म’ वेदात्मकं, परं ब्रह्म वा । तथा ‘तत्’ आदित्यरूपं, ‘आपः’, ‘आपः’ जलरूपं, वृष्टिनिष्पादकत्वात् । तथा समुद्रादिगता या ‘आपः’, यच्चाग्न्यादिकं


* आदित्यन्तमर्चयन्ति तपः सत्यं मधु क्षरन्ति तद् ब्रह्म तदाप-आपो ज्योती रसोऽमृतमिति F, Q, चिह्नितपुस्तकधृतमूलस्य पाठो भाष्यसम्मतश्च । चतुर्षु मूलपुस्तकेषु उपर्युक्तः पाठो वर्तते ।
† घृणिः सूर्य्य इति पञ्चदशानुवाकादारभ्य नमो हिरण्यबाहवे इत्येकोनविंशानुवाकपर्यन्तः पाठो ऽस्मल्लब्धमूलपुस्तकचतुष्टये स्थानान्तरे वर्त्तते । परन्तु भाष्यपुस्तकत्रयधृतमूलक्रमेणात्र तत्पाठो निवेशितः ।

=३६तैत्तिरीये आरण्यके

अथ षोडशोऽनुवाकः ।

$^{(१)}$सर्वो॒ वै रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु । पुरु॑षो॒ वै रु॒द्रः सन्म॒हो नमो॒ नमः॑ । विश्वं॑ भू॒तं भुव॑नं चि॒त्रं


‘ज्योतिः’, योऽपि मधुरादि ‘रसः’, यच्च देवैः पातव्यं ‘अमृतं’, यदपि ‘ब्रह्म’ मन्त्रजातं, ये च ‘भूर्भुवः सुवः’ त्रयो लोकाः, तत् सर्वं ‘ओम्’ आदित्यरूपं भवतीत्यर्थः ॥

इति सायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि पञ्चदशोऽनुवाकः ॥


अथ षोडशोऽनुवाकः ।

रुद्रदेवताकं मन्त्रमाह । $^{(१)}$“सर्वो वै ० नमो अस्तु”$^{(१)}$ इति । यः ‘रुद्रः’ पार्वतीपतिः पुराणेषु प्रसिद्धः, स एव सर्वजीवरूपेण सर्वशरीरेषु प्रविष्टत्वात् ‘तस्मै’ सर्वात्मकाय, ‘रुद्राय’, ‘नमो अस्तु’ । प्रकृतिपुरुषयोर्मध्ये जडात्मिकां प्रकृतिमपोद्य* चिदात्मकः ‘पुरुषः’, यो विद्यते, स एव भक्तानुग्रहाय रुद्रमूर्त्तिरूपेणावभासते । तस्मात् वस्तुतः सः ‘रुद्रः’, ‘सन् महः’ “सदेव सोम्येदमग्र


* प्रकृतिं विनाश्येति F चिह्नितपुस्तकपाठः ।

१० प्रपाठके १७ अनुवाकः । ८३७

ब॒हुधा जा॒तं जाय॑मानञ्च॒ यत् । सर्वो॒ ह्येष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु^(१) ॥ अनु० १६ ॥


अथ सप्तदशोऽनुवाकः ।

^(१)कद्रु॒द्राय॒ प्रचे॑तसे मी॒ढुष्ट॑माय॒ तव्य॑से । वो॒चेम॑


आसीत्” इत्यादिप्रतिपाद्यमवाधितं सद्रूपं तेजः, तादृशाय रुद्राय पुनःपुनः 'नमस्कारः 'अस्तु' । यज्जडं 'विश्वं', अस्ति, यच्च 'भूतं' चेतनं प्राणिजातं, अस्ति, इत्थं चेतनाचेतनरूपेण विचित्रं यत् 'भुवनं' जगत्, तत्रापि 'यत्' जगत्, 'जातं' पूर्वमेवोत्पन्नं, यत्, 'च', इदानीं 'जायमानं', सः 'सर्वः', अपि प्रपञ्चः, 'एष रुद्रः', 'हि' तद्व्यतिरेकेण वास्तवस्य जगतो निरूपयितुमशक्यत्वात्, तादृशाय सर्वात्मकाय 'रुद्राय', 'नमस्कारः 'अस्तु' ॥

इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि षोडशोऽनुवाकः ॥


अथ सप्तदशोऽनुवाकः ।

रुद्रदेवताकं द्वितीयं मन्त्रमाह । ^(१)“कद्रुद्राय प्रचेतसे ० नमो अस्तु”^(१) इति। कत्थ श्लाघायामितिधातोरुत्पन्नः कच्छब्दः। प्रशंसा-

८३८ तैत्तिरीये आरण्यके

शन्त॑मꣳ हृ॒दे । सर्वो॒ ह्येष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु॑(१) ॥ अनु० १७ ॥


अथाष्टादशोऽनुवाकः ।

(१)नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय

माह । ततः 'कद्रुद्रः' प्रशस्तो रुद्रः, तस्मै । 'प्रचेतसे' प्रकृष्टज्ञानयुक्ताय । 'मीढुष्टमाय' मिह् सेचने इति धातुः, अभीष्टानां कामानां अतिशयेन सेक्त्रे, कामप्रदायेत्यर्थः । 'तव्यसे' अत्रादौ सकारस्य छान्दसो लोपः । स्तव्याय स्तोतुं योग्यायेत्यर्थः । 'हृदे' हृदयवर्त्तिलेन रुद्ररूपत्वेन च, 'शन्तमं' अतिशयेन सुखकरं स्तुतिरूपवाक्यं, 'वोचेम' कथयाम । सर्वो हीति पूर्ववत् ॥

इति सायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि सप्तदशोऽनुवाकः ॥


अथाष्टादशोऽनुवाकः ।

पुनरपि तद्देवताकं मन्त्रान्तरमाह । (१)“नमो हिरण्यबाहवे ० नमो नमः”(१) इति । बाहुशब्दस्य सर्वावयवोपलक्षणत्वात् 'हिरण्यबाहवे' भक्तानुग्रहाय सुवर्णमयकृत्स्नशरीरकाय, 'हि-

१० प्रपाठके १८ अनुवाकः । ८३६

हिर॑ण्यपतये॒ऽम्बिका॑पतय उ॒माप॑तये पशुपत॑ये॒ नमो॒ नमः॑^{(१)} ॥ अनु० १८ ॥


अथ एकोनविंशोऽनुवाकः।

^{(१)}यस्य॒ वैक॑ङ्कत्यग्निहोत्र॒हव॑णी भवति॒* प्रत्ये॒वास्याहु॑तयस्तिष्ठ॒न्त्यथो॒ प्रति॑ष्ठित्यै^{(१)} ॥ अनु० १६ ॥


रण्यपतये’ अस्मदीयहिरण्यपालकाय । ‘अम्बिका’ जगन्माता पार्वती, तस्याः ‘पतये’ भर्त्रे । तस्या एव अम्बिकायाः ब्रह्मविद्यात्मको देह उमाशब्देनोच्यते । तादृश्याः ‘उमा’याः ‘पतये’ स्वामिने रुद्राय, पुनः पुनः नमस्कारो अस्तु । अनेनानुवाकत्रयेणोक्तानां मन्त्राणां त्वरितरुद्राख्या मन्त्रकल्पेषु प्रसिद्धा । तद्विनियोगस्तु रुद्राध्यायजपशेषत्वेन कल्पेषु द्रष्टव्यः ॥

इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि अष्टादशोऽनुवाकः ॥


अथ एकोनविंशोऽनुवाकः ।

अथाग्निहोत्रकर्मणि होमसाधनद्रव्यस्य कारणभूतं वृक्षविशेषं विधत्ते । ^{(१)}“यस्य वैकङ्कती • प्रतिष्ठित्यै”^{(१)} इति । अग्निहोत्रे हविर्हूयते यया दर्ग्या सेयं ‘अग्निहोत्रहवणी’, सा च ‘वैकङ्कती’


* भवति प्रतिष्ठिता इति F चिह्नितपुस्तकपाठः ।

८९० तैत्तिरीये आरण्यके

अथ विंशोऽनुवाकः ।

(१)कृणुष्व.पाज॒ इति॒ पञ्च॑(१) ॥ अनु० २० ॥

विकङ्कताख्येन वृक्षेण निष्पादिता, 'यस्य', अग्निहोत्रिणः,'भवति' । 'अस्य' अग्निहोत्रिणः, 'आहुतयः' 'प्रतिष्ठिताः' । तया अग्निहोत्रहवण्या प्रक्षिप्ताः सत्यः 'प्रतिष्ठन्तेव' फलप्रदा भवन्त्येव । 'अथो' अपि च, 'प्रतिष्ठित्यै' अनुष्ठातुश्चित्तशुद्धिद्वारा तत्त्वज्ञानप्रतिष्ठार्थं, सम्पद्यन्ते । मुमुक्षोश्चित्तशुद्धिद्वारा वेदोक्तानां कृत्स्नकर्मणां मोक्षसाधनत्वं द्योतयितुं उपलक्षणत्वेन कर्माङ्गभूतो विकङ्कतवृक्षोऽत्र विहितः ॥

इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि एकोनविंशोऽनुवाकः ॥


अथ विंशोऽनुवाकः ।

अथ चित्तशुद्धिहेतूनां कर्मणां सङ्ग्रहेणोपयोगमस्मिन् मोक्षप्रकरणे सूचयित्वा प्रतिबन्धकनिवारकान् रक्षोघ्नमन्त्रान् जप्यत्वेन विधत्ते । ^{(१)}“कृणुष्व पाज इति पञ्च”^{(१)} इति । संहितायाः प्रथमकाण्डे द्वितीयप्रपाठकस्यान्तिमानुवाके समाम्नाताः 'कृणुष्व पाजः' इत्याद्या ऋचः, 'पञ्च', जपितव्या इति शेषः ॥

इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि विंशोऽनुवाकः ॥

१० प्रपाठके २१ अनुवादः । ८४१

अथ एकविंशोऽनुवाकः ।

(१)अदि॑तिर्देवा॒ ग॑न्ध॒र्वा म॑नु॒ष्याः॑ पि॒तरोऽसु॑रा॒स्ते- षां॑ सर्वभू॒तानां॑ मा॒ता मे॒दिनी॑ मह॒ती म॒ही सा- वि॒त्री गा॑य॒त्री जग॑त्यु॒र्वी पृ॒थ्वी ब॑हु॒ला विश्वा॑ भू॒ता क॑-


अथ एकविंशोऽनुवाकः ।

जीवनहेतुक्षेत्रलाभद्वारा मुक्तिहेतुं पृथिवीदेवताकं मन्त्रमाह । (१) 'अदितिर्देवाः ० अमृतेति वसिष्ठः'(१) इति । अदितिशब्दोऽखण्डितेति व्युत्पत्त्या भूमिमाचष्टे । अतएव निघण्टुकारेण पृथिवीनामसु पठितः । 'देवादयः पञ्च जातिविशेषा अदितिरूपाः । एते च सर्वप्राणिदेहानामुपलक्षकाः । अतः 'तेषां सर्वभूतानां', देहोपादानत्वादियम् 'अदितिः' । 'माता' जननी । 'मेदिनी' मधुकैटभमेदसा जाता । अथवा मेदस्विनी कठिनेत्यर्थः । 'महती' गुणाधिका, तच्च सर्वप्राणिकृतोपद्रवासहिष्णुत्वेनावगन्तव्यं । 'मही' पूज्या । 'सावित्री' सवितुः प्रेरकस्यान्तर्यामिणः सम्बन्धिनी । 'गायत्री' गायकान् स्वोपासकांस्त्रायते रक्षतीत्यर्थः । 'जगती' जगदाश्रयभूता । 'उर्वी' अनेकसस्याढ्या । 'पृथ्वी' अनेकविस्तारवती । 'बहुला' निविडावयवा । 'विश्वा' सर्वात्मिका । 'भूता' प्राणिदेहोत्पत्तेः पूर्वमेव विद्यमाना । 'कतमा' अतिशयेन सुखरूपा । 'काया' सर्वप्राणिदेहरूपेण परिणता । 'मा' प्रसिद्धा । 'सत्या'

•5 K 2

८४२ तैत्तिरीये आरण्यके

त्मा काया सा स॒त्येत्य॒मृतेति॑ वसि॒ष्ठः॑॥(१)॥ अनु० २१ ॥


अथ द्वाविंशोऽनुवाकः ।

(१)आपो॒ वा इ॒दꣳ सर्वं॒ विश्वा॑ भू॒तान्यापः॑ प्रा॒णा वा आपः॑ प॒शव॒ आपोऽन्न॒मापो॒ऽमृत॒मापः॑ सम्रा-


व्यवहारदशायां बाधरहिता। ‘इति’ एवं, ‘वशिष्ठः’ महामुनिः, आह। तथैव ‘अमृता’ मरणरहिता चतुर्युगपर्यावर्त्तनेऽप्यवस्थिता, ‘इति’ एतमप्यर्थं, ‘वसिष्ठः’, एवाह। अतोऽस्य मन्त्रस्य वसिष्ठ- ऋषिः इत्यर्थः॥

इति सायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा- रण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्या- मुपनिषदि एकविंशोऽनुवाकः॥


अथ द्वाविंशोऽनुवाकः ।

वृष्ट्यभावकृतोपद्रवपरिहारेणोपहारिणमबदेवताकं मन्त्रमाह। (१)“आपो वा ० सुवराप ओम्”(१) इति। यत् ‘इदं’ जगत्, अस्ति तत् ‘सर्वं’, ‘आपो वै’ जलमेव। कथमिति तदेव प्रपञ्च्यते। ‘विश्वा भूतानि’ सर्वाणि प्राणि शरीराणि, ‘आप.’ जलं, रेतोरूपेण तदु- त्पादकत्वात्। ‘प्राणा वै’ शरीरवर्त्तिवायवोऽपि, ‘आपः’, उदक-

१० प्रपाठके २२ अनुवाकः। ८४३

डापो॑ वि॒राडाप॑: स्व॒राडाप॒श्छन्दा॒ꣳ॒स्यापो॒ ज्योती॒ꣳ॒-
ष्यापो॒ यजूं॒ष्याप॑: स॒त्यमाप॒: सर्वा॑ दे॒वता॒ आपो॒ भूर्भुव॒: सुव॒राप॒ ओम्^{(१)}} ॥ अनु० २२ ॥


पानेन प्राणानामाप्यायनात् । अत एव छन्दोगा आमनन्ति । “आपोमयः प्राणो नापिबतो विच्छेत्स्यते” इति । ‘पशवः’ गवादयोऽपि, ‘आपः’, क्षीरस्वरूपेण तत्र परिणतत्वात् । ‘अन्नं’ व्रीहियवादिकं, ‘आपः’, जलस्यान्नहेतुत्वं प्रसिद्धं । ‘अमृतं’ देवैरुपजीव्यं वस्तु, ‘आपः’, तद्रूपेणापि परिणतत्वात् । सम्यक् राजत इति सूत्रात्मा हिरण्यगर्भः ‘सम्राट्’ । विश्वं राजत इति ब्रह्माण्डदेहः पुरुषः ‘विराट्’ । इन्द्रियादिनिरपेक्ष्येण स्वयमेव राजत इत्यव्याकृताभिमानी ईश्वरः ‘स्वराट्’ । ‘छन्दांसि’ गायत्र्यादीनि । ‘ज्योतींषि’ आदित्यादीनि । ‘यजूंषि’ अनियताक्षरा मन्त्राः । ‘सत्यं’ यथार्थकथनं । ‘सर्वा देवताः’ इन्द्रादयः । ‘भूर्भुवः स्वः’ त्रयो लोकाः । सम्राडादिलोकत्रयान्तपदार्थरूपेण ‘आपः’, स्तूयन्ते । एताश्च ‘आपः’, मूलकारणं, परमात्मरूपेण प्रणवप्रतिपाद्या इति वक्तुं ‘ओङ्कारः पठितः ॥

इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि द्वाविंशोऽनुवाकः ॥

८१४तैत्तिरीये आरण्यके

अथ त्रयोविंशोऽनुवाकः ।

(१)आपः॑ पुनन्तु पृथि॒वीं पृ॑थि॒वी पू॒ता पु॑नातु॒ मां।
पु॒नन्तु॒ ब्रह्म॑ण॒स्पति॒र्ब्रह्म॑ पू॒ता पु॑नातु॒ मां। यदुच्छि॑-
ष्ट॒मभो॑ज्यं॒ यद्वा॑ दु॒श्चरि॑तं॒ मम॑ । सर्वं॑ पुनन्तु॒ मामा-
पोऽस॑ताञ्च प्रति॒ग्रहं॒ स्वाहा॑^(१)॥ अनु० २३ ॥


अथ त्रयोविंशोऽनुवाकः ।

माध्याह्निकसन्ध्या‌नुष्ठानेऽभिमन्त्रितजलपानार्थं मन्त्रमाह ।

(१)“आपः पुनन्तु ॰ प्रतिग्रहँ स्वाहा”^(१) इति । याः ‘आपः’, सन्ति ताः ‘पृथिवीं’, ‘पुनन्तु’ प्रक्षालनेन शोधयन्तु । सा च ‘पृथिवी’, ‘पूता’ शुद्धा सती, ‘मां’ अनुष्ठातारं, ‘पुनातु’ शोधयतु । तथा ‘ब्रह्मणः’ वेदस्य, ‘पतिः’ पतिं, प्रतिपालकमाचार्यं एता आपः ‘पुनन्तु’ । तेनाचार्येणोपदिष्टं ‘ब्रह्म’ वेदस्वरूपं, ‘पूता’ स्वयं पूतं सत्, ‘मां पुनातु’ । अन्यभुक्तावशिष्टरूपं ‘उच्छिष्टं’, ‘यत्’, अस्ति यच्च ‘अभोज्यं’ भोक्तुमयोग्यं, तादृशं कदाचिन्मया भुक्तं । ‘यद्वा’, ‘दुश्चरितं’ अन्यदपि प्रतिषिद्धाचरणरूपं, ‘मम’, किञ्चित् सम्पन्नं तत् ‘सर्वं’, परिहृत्येति शेषः । ततो ‘मामापः पुनन्तु’ । तथा ‘असतां’ शूद्रादीनां, ‘प्रतिग्रहञ्च’, मया कृतं पुनन्तु । तदर्थमिदमभिमन्त्रितमुदकं ‘स्वाहा’ मदीयवक्त्राग्नौ स्वाहुतम् अस्तु ॥

इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि त्रयोविंशोऽनुवाकः ॥