तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 836, कुल 940 में से
संदर्भ में पढ़ें१० प्रपाठके ११ अनुवाकः। ८९५
न॑न्त॒मव्य॑यं क॒विꣳ स॑मु॒द्रेऽन्तं॑ वि॒श्वश॑म्भुवं । प॒द्म॒को॒श- प्र॑तीका॒श॒ꣳ हृद॑यं चाप्य॒धोमु॑खं^(६) । ^(७)अ॒धो नि॒ष्ट्या॑ वि॑तस्त्या॑ तु ना॒भ्यामु॒परि॑ तिष्ठति । ज्वा॒ल॒मा॒लाकु॑लं
षष्ठीमृचमाह । ^(६)"अनन्तमव्ययं ० चाप्यधोमुखं"^(६) इति । अत्र पूर्वार्द्धेन नारायणस्य वास्तवस्वरूपं सङ्क्षेप्योपन्यस्यते । 'अन- न्तं' देशपरिच्छेदरहितं, 'अव्ययं' विनाशरहितं, 'कविं' चिद्रूपेण सर्वज्ञं, 'समुद्रे' अतिबहुलत्वेन समुद्रसदृशे संसारे, 'अन्तं' अवसान- रूपं । यदा नारायणस्य स्वरूपं जानाति तदा संसारः क्षीयते* इत्यर्थः । 'विश्वशम्भुवं' सर्वस्य संसारसुखस्य उत्पत्तिकारणरूपं, "एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति" इति श्रुत्यन्त- रात् । ईदृशं नारायणस्वरूपं उपासीतेति शेषः । उत्तरार्द्धेनो- पासनस्थानमुच्यते । 'पद्मकोशप्रतीकाशं' यथा लोके अष्टदलकमलस्य कोशो मध्यच्छिद्रं तत्सदृशं, तच्च 'हृदय'शब्दवाच्यं, लौकिकं पद्मं ऊर्द्धाभिमुखं, हृदयपद्मं तु, 'अधोमुखं', इति विशेषः ॥
सप्तमीमृचमाह । ^(७)"अधो निष्ट्या ० आयतनं महत्"^(७) इति । 'निष्टिः' ग्रीवाबन्धः, तस्याः, 'अधस्ताद्वर्त्तते तत्रापि 'नाभ्या- मुपरि' नाभिदेशस्योर्ध्वदेशभागे, 'वितस्त्यां' द्वादशाङ्गुलिपरिमिला वितस्तिः, तस्यां अतीतायां, उपरि 'तिष्ठति' । तदेतन्निष्टिनाभ्यो- र्मध्यदेशवर्त्तिकमलं 'हृदयं', इति 'विजानीयात्', 'तत्' च हृदयं,
* जीयते इति F चिङ्कितपुस्तकपाठः ।