तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 854, कुल 940 में से
संदर्भ में पढ़ें१० प्रपाठके २२ अनुवाकः। ८४३
डापो॑ वि॒राडाप॑: स्व॒राडाप॒श्छन्दा॒ꣳ॒स्यापो॒ ज्योती॒ꣳ॒-
ष्यापो॒ यजूं॒ष्याप॑: स॒त्यमाप॒: सर्वा॑ दे॒वता॒ आपो॒ भूर्भुव॒: सुव॒राप॒ ओम्^{(१)}} ॥ अनु० २२ ॥
पानेन प्राणानामाप्यायनात् । अत एव छन्दोगा आमनन्ति । “आपोमयः प्राणो नापिबतो विच्छेत्स्यते” इति । ‘पशवः’ गवादयोऽपि, ‘आपः’, क्षीरस्वरूपेण तत्र परिणतत्वात् । ‘अन्नं’ व्रीहियवादिकं, ‘आपः’, जलस्यान्नहेतुत्वं प्रसिद्धं । ‘अमृतं’ देवैरुपजीव्यं वस्तु, ‘आपः’, तद्रूपेणापि परिणतत्वात् । सम्यक् राजत इति सूत्रात्मा हिरण्यगर्भः ‘सम्राट्’ । विश्वं राजत इति ब्रह्माण्डदेहः पुरुषः ‘विराट्’ । इन्द्रियादिनिरपेक्ष्येण स्वयमेव राजत इत्यव्याकृताभिमानी ईश्वरः ‘स्वराट्’ । ‘छन्दांसि’ गायत्र्यादीनि । ‘ज्योतींषि’ आदित्यादीनि । ‘यजूंषि’ अनियताक्षरा मन्त्राः । ‘सत्यं’ यथार्थकथनं । ‘सर्वा देवताः’ इन्द्रादयः । ‘भूर्भुवः स्वः’ त्रयो लोकाः । सम्राडादिलोकत्रयान्तपदार्थरूपेण ‘आपः’, स्तूयन्ते । एताश्च ‘आपः’, मूलकारणं, परमात्मरूपेण प्रणवप्रतिपाद्या इति वक्तुं ‘ओङ्कारः पठितः ॥
इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि द्वाविंशोऽनुवाकः ॥