भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 853, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 853

८४२ तैत्तिरीये आरण्यके

त्मा काया सा स॒त्येत्य॒मृतेति॑ वसि॒ष्ठः॑॥(१)॥ अनु० २१ ॥


अथ द्वाविंशोऽनुवाकः ।

(१)आपो॒ वा इ॒दꣳ सर्वं॒ विश्वा॑ भू॒तान्यापः॑ प्रा॒णा वा आपः॑ प॒शव॒ आपोऽन्न॒मापो॒ऽमृत॒मापः॑ सम्रा-


व्यवहारदशायां बाधरहिता। ‘इति’ एवं, ‘वशिष्ठः’ महामुनिः, आह। तथैव ‘अमृता’ मरणरहिता चतुर्युगपर्यावर्त्तनेऽप्यवस्थिता, ‘इति’ एतमप्यर्थं, ‘वसिष्ठः’, एवाह। अतोऽस्य मन्त्रस्य वसिष्ठ- ऋषिः इत्यर्थः॥

इति सायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा- रण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्या- मुपनिषदि एकविंशोऽनुवाकः॥


अथ द्वाविंशोऽनुवाकः ।

वृष्ट्यभावकृतोपद्रवपरिहारेणोपहारिणमबदेवताकं मन्त्रमाह। (१)“आपो वा ० सुवराप ओम्”(१) इति। यत् ‘इदं’ जगत्, अस्ति तत् ‘सर्वं’, ‘आपो वै’ जलमेव। कथमिति तदेव प्रपञ्च्यते। ‘विश्वा भूतानि’ सर्वाणि प्राणि शरीराणि, ‘आप.’ जलं, रेतोरूपेण तदु- त्पादकत्वात्। ‘प्राणा वै’ शरीरवर्त्तिवायवोऽपि, ‘आपः’, उदक-