भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 22, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 22

१ प्रपाठके ३ अनुवाकः । १७

तृतीयोऽनुवाकः ।

^(१)सा॒क॒ञ्जानां॑ स॒प्तथ॑माहुरेक॒जम् । षडु॑द्य॒मा ऋष॑यो दे॒वजा इति॑ । तेषा॑मि॒ष्टानि॒ विहि॑तानि धाम॒शः । स्था॒त्रे रे॑जन्ते॒ विकृ॑तानि रूप॒शः^(१) । ^(२)को नु॑ मर्या॒ अ॒मिथ॑ितः । सखा॒ सखा॑यमब्रवीत् । जहा॑को अ॒स्मदी॑-


कल्पः । साकञ्जानामित्येकादश पुरस्तादिति उपदधातीत्यनुवर्त्तते । तत्र प्रथममाह । ^(१)“साकञ्जानां ॰ विकृतानि रूपशः”^(१) इति । ‘साकञ्जानां’ सहोत्पन्नानां आदित्यरश्मीनां मध्ये, ‘सप्तमं’ यः “स सप्तमो रश्मिः सूर्य्यो मरीचिमादत्त .” इति पूर्व्वत्रोक्तः तं सप्तमं रश्मिम्, ‘एकजमाहुः’ इतररश्मिभ्यः पूर्व्वं एकमेवोत्तरं न इति अभिज्ञाः कथयन्ति, ‘देवजाः’ आदित्यदेवात् उत्पन्नाः, इतरे ‘षड्’ रश्मयः, ‘उद्यमाः’ शिक्यस्योद्यमा इव, सप्तमरश्मेरुपसर्जनभूता इत्याहुः । ते च रश्मयः प्रकाशवत्त्वादृषिसमाः ‘तेषां’ षष्णां रश्मीनां, ‘इष्टानि’ अभिप्रेतानि, ‘धामशः’ स्थानानि, ‘विहितानि’ प्रजापतिना निर्मितानि, ते च रश्मयः ऋत्वात्मका अत एकस्य वसन्तत्वेन प्राथम्यं । अन्यस्य तदनन्तरभावित्वं । ततोऽप्यूर्द्ध्वभावित्वमन्यस्येत्येवं स्थानविकल्पितानि ‘स्थात्रे’ जगतः स्थित्यर्थं, ‘विकृतानि’ शीतोष्णादिरूपेण विलक्षणानि ‘रूपशः’ स्वरूपाणि, ‘रेजन्ते’ कम्पन्ते, प्रवर्त्तन्त इत्यर्थः ॥

अथ द्वितीयमाह । ^(२)“को नु मर्या ॰ अस्मदीषते”^(२)