भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 44, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 44

१ प्रपाठके ७ अनुवाकः । ३६

सप्तमोऽनुवाकः ।

(१)आ॒रो॒गो भ्राजः॑ पट॒रः प॑त॒ङ्गः । स्व॑र्ण॒रो ज्योति॑षीमा॒न् विभा॑सः । ते अ॒स्मै सर्वे॑ दि॒वमा॑त॒पन्ति॑ । ऊर्जं॑ दु- हा॑ना अ॒नप॑स्फुरन्तः॑(१)॒ इति॑ । (२)क॒श्यपो॑ऽष्ट॒मः । सम-


कल्पः । आरोग इत्यष्टौ पदशोयन्ते शिल्पमिति चेत्या- रोगादीनि विभासान्तानि । तत्र ब्राह्मणभाग इत्यादिपद- प्रतिपादिकामृचमुदाहरति । (१)“आरोगोभ्राजः ० अनप- स्फुरन्तः”(१) इति । आरोगादीनि विभासान्तानि सप्त पदानि सप्तानां सूर्यविशेषाणां नामधेयानि ते सप्तापि सूर्याः 'अस्मै' लो- कार्थं, 'दिवं' आकाशं, 'आतपन्ति' सर्वतः प्रकाशयन्ति । किं कुर्वन्तः, 'ऊर्जं दुहानाः' वृष्टिद्वारेण क्षीरादिरसं सम्पादय- न्तः । 'अनपस्फुरन्तः' प्राणिनां प्रातिकूल्येन प्रकाशनमप- स्फुरणं तदकुर्वन्तः, अनुकूलमेव प्रकाशनं सर्वदाकुर्वन्तीत्यर्थः । श्रौत 'इति'शब्द उपधानप्रदर्शनार्थः । उदाहृतायामस्यामृच्यु- क्तैरारोगादिनामभिः सप्तभिरिष्टका उपदध्यादित्यर्थः । आ- रोगस्तया देवतयांगिरस्वद्द्वाधोदेत्येवमुपधानमन्त्रा उन्नेयाः॥

अथाष्टमं नामधेयं दर्शयति । (२)“कश्यपोऽष्टमः ० तस्यैषा भवति”(२) इति । पूर्वोक्तारोगादिसप्तसूर्यापेक्षया योयं 'अष्ट- मः', सूर्यः तस्य 'कश्यपः' इति नामधेयं । तेन नाम्नेष्टका उप-