तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 366, कुल 940 में से
संदर्भ में पढ़ें३ प्रपाठके २१ अनुवाकः । ३६१
अथ एकविंशोऽनुवाकः ।
$^{(२)}$चित्तँ॒ सन्ता॑नेन॒ भवं॑ य॒क्ना रु॒द्रन्त॑र्न्नि॒म्ना प॒शुप॒तिँ॑ स्थूलहृदयेना॒ग्निँ॑ हृद॑येन रु॒द्रं लोहि॑तेन॒ शर्वँ॑
अथ एकविंशोऽनुवाकः ।
अथ राजगवीयो होमार्थोऽयमनुवाक उच्यते । तत्र नवमन्त्रानाह । (१)“चित्तँ सन्तानेन ॰ शिङ्गीनिकोशाभ्यां”(१) इति। अत्र द्वितीयान्ताश्चित्तादिशब्दा देवताविशेषवाचिनः, तृतीयान्ताः सन्तानादिशब्दाः पशोर्मांसविशेषवाचिनः, सन्तानाख्येन मांसविशेषेण चित्ताख्यं देवताविशेषं परितोषयाम इति वाक्यशेषः । एवं सर्वत्र योजनीयं । तदेवमस्मिन् प्रपाठके ब्रह्मचितिब्रह्ममेधयोरङ्गभूता मन्त्रा उक्ताः । चातुर्होत्रीयचितिर्ब्रह्मचितिः । ब्रह्म वै चतुर्होतार इत्याम्नातत्वात् । तस्यां ब्रह्मचितौ चित्तिस्स्रुगित्यादयः सुवर्शं घर्ममित्येवमन्ता अनुवाका विनियुक्ताः । ब्रह्ममेधे तु कृत्स्नोऽपि प्रपाठको विनियुक्तः । आहिताग्नेर्यो दहनादिसंस्कारः सोऽयं पितृमेधः । आहिताग्नित्वे सति यो ब्रह्मतत्त्वं जानाति तस्य दहनादिसंस्कारो ब्रह्ममेध इत्युच्यते । तस्मिन् ब्रह्ममेधेऽस्य प्रपाठकस्य विनियोगं भरद्वाज आह, अथात उत्तरं पितृमेधं व्याख्या-
2 x 2