तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 379, कुल 940 में से
संदर्भ में पढ़ें३७४ तैत्तिरीये आरण्यके
क्रामत्' गर्वेण प्रयत्ने शिथिले सति सामर्थ्यमपगतं । पुनरपि कथञ्चित् तत् स्वीकरिष्यतीति मत्वा ते 'देवाः', 'तत्' तेजः, अन्यत्र नीत्वा तेन यथा न ज्ञायते तथा गूढं कर्त्तुं कासु- चित् 'ओषधीषु', निमृष्टवन्तः । 'ते' चैाषधिविशेषाः यज्ञ- सम्बन्धिना तेजसा युक्ताः, 'श्यामाकाभिधाः' धान्यविशेषाः, 'स्याकाः', इत्येतादृशं 'नाम', अर्हन्ति । यस्मादेतस्य नाम्ना योग्याः 'तस्मात्', 'स्याकानां' स्यायादुत्पन्नानां धान्यानां 'स्याकत्वं' स्याकनामाभिज्ञव्यवहारेण प्रसिद्धं, यस्मादत्र स्मयं कुर्व्वतो यज्ञपुरुषात् तेजोपक्रान्तं 'तस्मात्' कारणात्, 'तेजसः', स्वस्मिन्नेवावधारणार्थं मुखमपिधाय दीक्षितेन 'स्मेतव्यं' । यद्यपि दीक्षाप्रकरणे कृष्णविषाणया कण्डूयतेऽपि 'गृह्य', स्मयत इति विधिरस्ति तथापि प्रसङ्गादत्र स एवा- नूद्यत इत्यवगन्तव्यम् ॥
अथ प्रवर्ग्यघर्ममहावीरसम्राट्शब्दानां निर्वचनानि प्रस्तो- ष्यमाणहविःप्रशंसार्थं दर्शयति । "स धनुः प्रतिष्कभ्यातिष्ठत् । ता उपदीका अब्रुवन् वरं वृणामहै। अथ व इमँ् रन्धया- म । यत्र क च खनाम । तदपोऽभितृन्दामेति । तस्मादुप- दीका यत्र क च खनन्ति । तदपोऽभितृन्दन्ति ॥ ४ ॥ वारे वृतँ् ह्यासां । तस्य ज्यामप्यादन् । तस्य धनुर्विप्रवमाणँ् शिर उदवर्त्तयत् । तद् द्यावापृथिवी अनुप्रावर्त्तत । यत् प्रावर्त्तत । तत् प्रवर्ग्यस्य प्रवर्ग्यत्वं । यह्रां इत्यपतत् । तद्धर्मस्य घर्मत्वं । महतो वीर्यमपप्रदिति । तन्महावीरस्य महावीरत्वं ॥ ५ ॥