भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 379, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 379

३७४ तैत्तिरीये आरण्यके

क्रामत्' गर्वेण प्रयत्ने शिथिले सति सामर्थ्यमपगतं । पुनरपि कथञ्चित् तत् स्वीकरिष्यतीति मत्वा ते 'देवाः', 'तत्' तेजः, अन्यत्र नीत्वा तेन यथा न ज्ञायते तथा गूढं कर्त्तुं कासु- चित् 'ओषधीषु', निमृष्टवन्तः । 'ते' चैाषधिविशेषाः यज्ञ- सम्बन्धिना तेजसा युक्ताः, 'श्यामाकाभिधाः' धान्यविशेषाः, 'स्याकाः', इत्येतादृशं 'नाम', अर्हन्ति । यस्मादेतस्य नाम्ना योग्याः 'तस्मात्', 'स्याकानां' स्यायादुत्पन्नानां धान्यानां 'स्याकत्वं' स्याकनामाभिज्ञव्यवहारेण प्रसिद्धं, यस्मादत्र स्मयं कुर्व्वतो यज्ञपुरुषात् तेजोपक्रान्तं 'तस्मात्' कारणात्, 'तेजसः', स्वस्मिन्नेवावधारणार्थं मुखमपिधाय दीक्षितेन 'स्मेतव्यं' । यद्यपि दीक्षाप्रकरणे कृष्णविषाणया कण्डूयतेऽपि 'गृह्य', स्मयत इति विधिरस्ति तथापि प्रसङ्गादत्र स एवा- नूद्यत इत्यवगन्तव्यम् ॥

अथ प्रवर्ग्यघर्ममहावीरसम्राट्शब्दानां निर्वचनानि प्रस्तो- ष्यमाणहविःप्रशंसार्थं दर्शयति । "स धनुः प्रतिष्कभ्यातिष्ठत् । ता उपदीका अब्रुवन् वरं वृणामहै। अथ व इमँ् रन्धया- म । यत्र क च खनाम । तदपोऽभितृन्दामेति । तस्मादुप- दीका यत्र क च खनन्ति । तदपोऽभितृन्दन्ति ॥ ४ ॥ वारे वृतँ् ह्यासां । तस्य ज्यामप्यादन् । तस्य धनुर्विप्रवमाणँ् शिर उदवर्त्तयत् । तद् द्यावापृथिवी अनुप्रावर्त्तत । यत् प्रावर्त्तत । तत् प्रवर्ग्यस्य प्रवर्ग्यत्वं । यह्रां इत्यपतत् । तद्धर्मस्य घर्मत्वं । महतो वीर्यमपप्रदिति । तन्महावीरस्य महावीरत्वं ॥ ५ ॥