भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 380, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 380

४ प्रपाठके २ अनुवाकः । ३७५

यदस्याः समभरन् । तत् सम्राजः सम्राट्त्वं ।" (५ प्र० । १ अ० । ४ म०) इति । 'सः' यज्ञपुरुषः, युयुत्सून् देवानितस्ततः प्रतीक्षमाणः 'धनुः' प्रविष्ठभ्य स्वकीयस्य धनुष ऊर्ध्वकोटिं चिबुकस्याधस्तात् कण्ठसमीपे दृढमवष्टभ्य तथैव स्थितवान् । तदानीमेतस्य प्रतीकारमन्विष्यतः* देवान् प्रति 'ताः' प्रसि- द्धाः, 'उपदीकाः' पिपीलिकासमानाः क्षुद्रजन्तवो वल्मीकस्य निर्मातारः, इदं 'अब्रुवन्', हे देवाः प्रथमं तावद्वयमिममेकं 'वरं', प्रार्थयामहे । 'अथ' अनन्तरं, 'वः' युष्मदर्थं, 'इमं' यज्ञपुरुषं, 'रम्भ्यामः' साधयामः । कोऽसौ वर इति सोऽभि- धीयते । भूमौ 'यत्र', क्वापि वयं मुखेन 'खनाम', तत्र 'अपः', अभिप्राय 'तृन्दाम' द्रवीकरवाम, 'इति' । 'तस्मात्' कारणात्, 'उपदीकाः' वल्मीकनिष्पादका जीवाः† 'यत्र', क्वापि 'खन- न्ति', 'तत्' क्षेत्रं, 'अपः', अभिप्राय 'तृन्दन्ति' द्रवीकुर्वन्ति । 'हि' यस्मात् कारणात्, 'आसां' उपदीकानां, तद्द्रवीकरण- सामर्थ्यं 'वारे वृतं' वरेण सम्पादितं, तस्मात् तद्युक्तं, ततो लब्ध- वरा उपदीकाः शनैर्भूमौ तत्समीपे समागत्य 'तस्य' धनुषः, अधः क्वापि लग्नां 'ज्यामपि' गुणञ्च, 'अदन्' भक्षितवत्यः‡ ततस्तद्धनुः च 'विप्रवमाणं' विस्तारेणोर्ध्वं प्रवर्त्तमानं, 'धनुः',


* अन्विच्छत इति तै० पाठः ।
† जन्तव इति तै० पाठः ।
‡ अपिशब्दो धनुषः कोटिमपि शिथिलीकृतवत्यः । तथारुण-
केतुके यस्मिनिन्द्रो वम्रीरूपेण धनुर्ज्यामच्छिनत् स्वयमित्युक्तं । तत्रो-
पदीकाभिः खादितत्वात् ज्यायां त्रुटितायां विप्रवमाणं विक्षेपेणोर्ध्वं
प्रवर्त्तमानं धनुरिति तै० पाठः ।
3 A