भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 381, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 381

३७६ तैत्तिरीये आरण्यके

'तस्य' यज्ञपुरुषस्य, 'शिरः', 'उदवर्त्तयत्' किलोर्ध्वं प्रावर्त्तयत् । 'तत्' चापि शिरः, ऊर्ध्वं द्युलोकपर्य्यन्तं गत्वा ततो भारेण भूमावधः पतितं, तस्मादिदं शिरः 'द्यावापृथिवी', उभे अपि अनुक्रमेण 'प्रावर्त्तत' । तस्मादनयैव व्युत्पत्त्या तस्य यज्ञशिरसः प्रवर्ग्यनाम सम्पन्नं । भूमौ पतनवेलायामुत्पन्नस्य ध्वनेरनुकरणे यः 'घ्रां', इति शब्दः, तथाविधशब्दोपेतत्वात् अस्य शिरसो घर्मनाम सम्पन्नं । 'महतः' यज्ञपुरुषस्य सकाशात्, 'वीर्य्यमपत्यत्' सारभूतं शिरः पतितं, ततोऽनयैव व्युत्पत्त्या 'महावीर'नाम सम्पन्नं । 'यत्' यस्मात् कारणात्, 'अस्याः' पृथिव्याः, सकाशात् 'समभरन्', देवास्तच्छिरःसमादाय प्रोषितवन्तः तस्मात् सम्य- ग्राजमानत्वात् सम्राडिति नाम सम्पन्नम् ॥

एवं यज्ञशिरसो नामचतुष्टयनिर्वचनमुक्त्वाऽवशिष्टस्य यज्ञ- शरीरस्य फलप्रयोजनकथनेन तच्छिरः प्रशंसति । “तᳵ स्तृतं देवतास्त्रेधा व्यगृह्णत । अग्निः प्रातःसवनं । इन्द्रो माध्य- न्दिनᳵ सवनं । विश्वे देवास्तृतीयसवनं । तेनापशीर्ष्णा यज्ञेन यजमानाः । नाशिषोऽवारुन्धत । न सुवर्गं लोकमभ्यजयन् ।” (५ प्र०।२ अ०।५ म०) इति । 'तं स्तृतं' शिरोराहित्येन हिंसितं तं यज्ञपुरुषदेहं, अग्न्यादयो देवाः 'त्रेधा', गृहीतवन्तः । तत्र 'अग्निः', 'प्रातःसवनं', जग्राह । 'इन्द्रः', तु 'माध्यन्दिनं सवनं', गृहीतवान् । 'विश्वे देवाः', 'तृतीयसवनं', जगृहूः । 'अपशीर्ष्णा' प्रवर्ग्याख्यशिरोरहितेन पूर्वोक्तसवनत्रययुक्तेन, 'तेन यज्ञेन', 'यजमानाः' अग्न्यादयो देवाः, 'आशिषः' स्वापेक्षि-

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद) · पृष्ठ 381, कुल 940 में से · BharatKosha