तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 381, कुल 940 में से
संदर्भ में पढ़ें३७६ तैत्तिरीये आरण्यके
'तस्य' यज्ञपुरुषस्य, 'शिरः', 'उदवर्त्तयत्' किलोर्ध्वं प्रावर्त्तयत् । 'तत्' चापि शिरः, ऊर्ध्वं द्युलोकपर्य्यन्तं गत्वा ततो भारेण भूमावधः पतितं, तस्मादिदं शिरः 'द्यावापृथिवी', उभे अपि अनुक्रमेण 'प्रावर्त्तत' । तस्मादनयैव व्युत्पत्त्या तस्य यज्ञशिरसः प्रवर्ग्यनाम सम्पन्नं । भूमौ पतनवेलायामुत्पन्नस्य ध्वनेरनुकरणे यः 'घ्रां', इति शब्दः, तथाविधशब्दोपेतत्वात् अस्य शिरसो घर्मनाम सम्पन्नं । 'महतः' यज्ञपुरुषस्य सकाशात्, 'वीर्य्यमपत्यत्' सारभूतं शिरः पतितं, ततोऽनयैव व्युत्पत्त्या 'महावीर'नाम सम्पन्नं । 'यत्' यस्मात् कारणात्, 'अस्याः' पृथिव्याः, सकाशात् 'समभरन्', देवास्तच्छिरःसमादाय प्रोषितवन्तः तस्मात् सम्य- ग्राजमानत्वात् सम्राडिति नाम सम्पन्नम् ॥
एवं यज्ञशिरसो नामचतुष्टयनिर्वचनमुक्त्वाऽवशिष्टस्य यज्ञ- शरीरस्य फलप्रयोजनकथनेन तच्छिरः प्रशंसति । “तᳵ स्तृतं देवतास्त्रेधा व्यगृह्णत । अग्निः प्रातःसवनं । इन्द्रो माध्य- न्दिनᳵ सवनं । विश्वे देवास्तृतीयसवनं । तेनापशीर्ष्णा यज्ञेन यजमानाः । नाशिषोऽवारुन्धत । न सुवर्गं लोकमभ्यजयन् ।” (५ प्र०।२ अ०।५ म०) इति । 'तं स्तृतं' शिरोराहित्येन हिंसितं तं यज्ञपुरुषदेहं, अग्न्यादयो देवाः 'त्रेधा', गृहीतवन्तः । तत्र 'अग्निः', 'प्रातःसवनं', जग्राह । 'इन्द्रः', तु 'माध्यन्दिनं सवनं', गृहीतवान् । 'विश्वे देवाः', 'तृतीयसवनं', जगृहूः । 'अपशीर्ष्णा' प्रवर्ग्याख्यशिरोरहितेन पूर्वोक्तसवनत्रययुक्तेन, 'तेन यज्ञेन', 'यजमानाः' अग्न्यादयो देवाः, 'आशिषः' स्वापेक्षि-