तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 382, कुल 940 में से
संदर्भ में पढ़ें४ प्रपाठके २ अनुवाकः। ३७७
तानि कर्मफलानि, 'अवारुन्धत' 'न', प्राप्तवन्तः, 'स्वर्गलोकं', अपि 'नाभ्यजयन्' ॥
अथ प्रवर्ग्यरहितस्य यज्ञस्य फलहेतुत्वं दर्शयति । “ते देवा अश्विनारब्रुवन् ॥ ६ ॥ भिषजौ वै स्थः । इदं यज्ञस्य शिरः प्रतिधत्तमिति । तावब्रूतां वरं वृणावहै । ग्रह एव नावत्रापि गृह्यतामिति । ताभ्यामेतमाश्विनमगृह्णन् । तावेत- द्यज्ञस्य शिरः प्रत्यधत्तां”। (५ प्र० । १ अ० । ६ म०) इति । प्रवर्ग्य- रहितेन यज्ञेन फलमलभमानाः 'ते देवाः', 'अश्विनौ', प्रत्येतत् 'अब्रुवन्', हे अश्विनौ युवामस्माकं मध्ये चिकित्सको 'स्थः', तस्मात् 'इदं यज्ञस्य शिरः', 'प्रतिधत्तं' पुनरपि यज्ञशरीरे प्रवर्त्तयतं,* 'इति', 'तौ' अश्विनौ, प्रत्यर्पणार्थं 'वरं' उत्कोच- रूपं लाभविशेषं, 'वृणावहै'। इत्युक्ता कोऽसौ वर इत्याशङ्क्य तं वरमुक्तवन्तौ । 'अत्र' अस्मिन् सोमयागे, 'नावपि' कित्स- कयोरावयोरपि, युष्मत्साम्येन 'ग्रह एव', 'गृह्यतां', न तु यत्किञ्चित्तुच्छं लेशादिकं,† 'इति' । ततः 'ताभ्यां' अश्विभ्यां, 'एतं' आश्विनं ग्रहं, 'अगृह्णन्', 'तौ' चाश्विनौ, चिकित्सया 'यज्ञस्य शिरः', प्रत्यर्पयतां‡ । प्रतिधानं नाम शरीरे पुनः सन्धानं । प्रवर्ग्य इत्येतन्नामकं यत् कर्म तदेव यज्ञशरीरे प्रति- ष्ठितं शिरः । तेन तादृशेन शीर्ष्णा प्रवर्ग्याख्यशिरोयुक्तेन यज्ञेन यजमाना देवाः स्वापेक्षितान्यन्यफलानि स्वर्गञ्च प्राप्नुवन् ॥
* प्रत्यर्पयतमिति तै० पाठः ।
† तल्लेषादिकमिति तै० पाठः ।
‡ प्रत्यधत्तामिति तै० पाठः।
3 A 2