भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 383, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 383

३७८ तैत्तिरीये आरण्यके

देवा वै सत्रमासतेत्यारभ्यैतावता महता प्रबन्धेन प्रव- र्ग्याख्यं कर्म प्रसाध्य* तदेव कर्म विधत्ते । “यत् प्रवर्ग्यः । तेन स शीर्ष्णा यज्ञेन यजमानः । अवाशिषो रुन्धत । अभि सुवर्गं लोकमभजयन् ॥ यत् प्रवर्ग्यं प्रवृणक्ति । यज्ञस्यैव तच्छिरः प्रतिदधाति । तेन स शीर्ष्णा यज्ञेन यजमानः । अवाशिषो रुन्धे । अभि सुवर्गं लोकं जयति । तस्मादेष आ- श्विनप्रवया इव । यत् प्रवर्ग्यः ॥ ७ ॥” (५ प्र० । १ अ० । ७ म० ) इति । यदि प्रवर्ग्याख्यं कर्मानुतिष्ठेत् । तत्तर्हि यज्ञस्य शिर एव प्रतिसमाहितवान् भवति । ततः ‘सशीर्ष्णा’ शिरःसहितेन, ‘यज्ञेन’, ‘यजमानः’ पुमान्, आशामनीयानि अन्यान्यफलानि† प्राप्नोति स्वर्गं वाभिजयति । यस्मादश्विभ्यां समाधानं कृतं ‘तस्मात्’ कारणात्, यः प्रवर्ग्याख्यः कर्मविशेषोऽस्ति, स ‘एषः’, आश्विनप्रवया इति आश्विनमन्त्राः प्रवचसः प्रवृद्धा अस्मिन् प्रवर्गे सोऽयं ‘आश्विनप्रवयाः’ । ‘इव’शब्द एवकारार्थः ॥

एतदेव ब्राह्मणरूपे प्रपाठके प्रथमानुवाके प्रवर्ग्याख्यं कर्म विधाय द्वितीयानुवाकादौ युञ्जते मन इत्येतन्मन्त्र- साध्यं होमं विधत्ते । “सावित्रं जुहोति प्रसृत्यै । चतुर्गृही- तेन जुहोति । चतुष्पादः पशवः । पशूनेवावरुन्धे । चतस्रो दिशः दिक्ष्वेव प्रतितिष्ठति” । (५ प्र० । २ अ० । १ म०) इति । मन्त्रे देवस्य त्वा सवितुः परिष्टुतिरित्युक्तत्वान्मन्त्रः ‘सावित्रः,’तद्धोमः


* प्रशंस्थेति तै० पाठः ।
† यानि फलानि तानि इति तै० पाठः ।