भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 433, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 433

४२८ तैत्तिरीये आरण्यके

^(१५)आ॒भिर्गी॒र्भिर्यदतो॑ न ऊ॒नं । आप्या॑यय हरिवो॒ वर्द्ध॑-
मानः । य॒दा स्तो॒तृभ्यो॒ महि॑गोचा रु॒जासि॑ । भूयि॑ष्ठ-
भाजो॒ अध॑ ते स्याम^(१५) । ^(१६)शु॒क्रन्ते॑ अ॒न्यद्य॑ज॒तन्ते॑
अ॒न्यत् । ई ॥
विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि । विश्वा॒ हि मा॒या


भवति । अपि चोर्द्धाधोगताभ्यां रुक्माभ्यां ‘एनं’ महावीरं,
‘उभयतः’ दृढं ‘परिगृह्णाति’ ॥

कल्पः । आभिर्गीर्भिरिति तिसृभिरभिमन्त्र्येत । तत्र प्रथ-
मामाह । ^(१५)“आभिर्गीर्भैर्यदतो न ऊनं ॰ अध ते स्याम”^(१५)
इति । हे ‘हरिवः*’ अश्वयुक्तेन्द्रत्वेन स्तूयमान महावीर
‘आभिर्गीर्भिः’ अस्मदीयस्तुतिभिः, ‘वर्द्धमानः’ त्वं ‘अतः’ अस्मात्
कर्मणः, ‘ऊनं’ अङ्गं, ‘नः’ अस्मदर्थं, ‘आप्यायय’ अभिवर्द्धय ।
‘यदा’ यस्मिन् काले, ‘स्तोतृभ्यः’ स्तोत्रानुग्रहार्थं, ‘महिगोचा’
महतो मेघान्, ‘रुजासि’ भग्नान् करोषि, ‘अध’ तदा, वयं
‘ते’ तवानुग्रहात्, ‘भूयिष्ठभाजः’ ‘स्याम’ प्रभूतधनानां
लब्धारो भूयास्म

अथ द्वितीयामाह । ^(१६)“शुक्रन्ते ॰ पूषन्निह रातिर-
स्तु”^(१६) इति । हे ‘पूषन्’ पोषक महावीर आदित्यत्वेन स्तूय-
मान, ‘ते’ तव, ‘शुक्रं’ शुद्धं स्वरूपं, ‘अन्यत्’ अनेकप्रकारं,

* हरिवन् इति तै० पुस्तकपाठः ।