भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 449, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 449
४४४तैत्तिरीये आरण्यके

प्राणो वै गोपाः। प्राणमेव प्रजासु विघातयति" इति। (५प्र०।६अ०।१०म०)। 'प्राणः' हि खावस्थानेन* शरीराणि गोपायतीति 'गोपाः' मन्त्रे च प्राणेन स्तुतिमभिप्रेत्य महावीरे गोपाशब्दः प्रयुक्तः, अतो गोपामपश्यमित्युक्ते सति सर्व्वासु 'प्रजासु' 'प्राणमेव' प्रसारितवान् भवति ॥

आदित्यरूपेण स्तुतिमभिप्रेत्य पुनरपि व्याचष्टे । “अपश्यं गोपामित्याह । असौ वा आदित्यो गोपाः । स हीमाः प्रजा गोपायति । तमेव प्रजानां गोप्तारं कुरुते” इति । (५प्र०। ६अ०।११म०) । ‘आदित्यः' ह्युदयेन प्रकाशं कृत्वा, सर्व्वाः ‘प्रजाः’ गोपायतीति 'गोपाः', तद्रूपत्वेन स्तुतत्वात् महावीरः 'गोपाः' । एतत्पाठेन यजमानमेव 'प्रजानां' 'गोप्तारं' करोति ॥

प्रथमपादस्योत्तरभागोक्तादित्यरूपेणावस्थितस्य महावीरस्य भूमौ पतनाभावः प्रसिद्ध इति दर्शयति । “अनिपद्यमानमित्याह ॥ ४ ॥ न ह्येष निपद्यते” इति । (५प्र०।६अ०। १२म०) ॥

द्वितीयपादोक्तं नानामार्गैरादित्यस्यागमनं परागमनञ्च प्रसिद्धमिति दर्शयति । “आ च परा च पथिभिश्चरन्तमित्याह । आ च ह्येष परा च पथिभिश्चरति” इति। (५प्र०। ६अ०।१३म०) ॥

यदायमादित्य उदयं प्राप्तः सर्व्वाः प्रजा अभितो विशेषेण

* खावयवस्थानि इति तै० पु० पाठः ।