तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 476, कुल 940 में से
संदर्भ में पढ़ें४ प्रपाठके ८ अनुवाकः । ४०१
ह॒विर॑सि^{(१७)}। ^{(१८)}सूर्य्य॑स्य॒ तप॑स्तप^{(१८)}। ^{(१९)}द्यावा॑पृथि॒वीभ्यां॑ त्वा परि॑गृह्णामि^{(१९)}॥ ^{(२०)}अन्तरि॑क्षेण त्वोप॑- यच्छामि^{(२०)}। ^{(२१)}दे॒वानां॑ त्वा पितॄणामनु॑मतो॒ भर्त्तुं॑^k
कल्पः । सूर्य्यस्य तपस्तपे*तूष्णीमिति । उद्यन्तमभिमन्त्रयत इत्यनुवर्त्तते । (१८ मन्त्रः) । हे उखन् 'सूर्य्यस्य' 'तपः' सूर्य्य- सम्बन्धिनं तापमपि तापमतिशयेन तप्तं कुरु ॥
मन्त्रस्य स्पष्टार्थतां दर्शयति । "सूर्य्यस्य तपस्तपेत्याह । यथा यजुरेवैतत्" इति । (५ प्र०। ७ अ०। १५ म०) ॥
कल्पः । द्यावापृथिवीभ्यां त्वा परिगृह्णामीति शफाभ्यां महावीरं परिगृह्णाति । (१९ मन्त्रः) । हे महावीर त्वां, द्यावापृथिवीदेवतारूपाभ्यां 'शफाभ्यां' 'परिगृह्णामि' ॥
मन्त्रबलात् द्यावापृथिव्योपरिग्रहः सिध्यतीति दर्शयति । "द्यावापृथिवीभ्यां त्वा परिगृह्णामीत्याह । द्यावापृथिवीभ्या- मेवैनं परिगृह्णाति" ॥७॥ इति । (५ प्र०। ७ अ०। १६ म०) ॥
कल्पः । प्रच्छिन्नाग्रेण वेदेन भस्म प्रमृज्यान्तरिक्षेण त्वोप- यच्छामीत्युपयमनेन प्रतिप्रस्थातोपयच्छतीति । (२० मन्त्रः) । हे महावीर, त्वां, अन्तरिक्षदेवतारूपेण उपयमनाख्यकाष्ठ- पात्रेण, 'उपयच्छामि' शफनामकाभ्यां काष्ठाभ्यामुद्ध्रीयमाणे त्वयि तयोः सहाय्यरूपेणानेनाधस्तादुद्यच्छामि ॥
मन्त्रबलादन्तरिक्षदेवतासाहाय्यं सिध्यतीति दर्शयति ।
* तपेत्युष्माणमनुमन्त्रयते इति तै० पु० पाठः ।
3 N