तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 483, कुल 940 में से
संदर्भ में पढ़ें४७८ तैत्तिरीयारण्यके
(२)विश्वान्देवान॑याडि॒ह(३) । (४)स्वाहा॑ ऋ॒तस्य॒ धर्म॑स्य ।
मन्त्रोऽपि व्याख्येयः, तत्तेन मन्त्रद्वयेन स्वर्गलोकात्* ‘परस्तात्’ उपरिभागे, अहर्द्देवतया सहितं ‘आदित्यं’ धारयति । ‘अवस्तात्’ अधोभागे, रात्रिदेवतया सहितं ‘आदित्यं’ धारयति । यस्मादेवं ‘तस्मात्’ स्वर्गे, ‘असावादित्यः’ देवताद्वयेन ‘धृतः’ वर्त्तते ॥
मनुष्यनामानि, पञ्चः, सीददित्याह, इन्द्रायेत्याह, अङ्कयति, घ्नन्ति, गृह्णाति, अहिꣳसायै, पञ्चाह, आदित्यवते स्वाहेत्याह, पितृमन्, एति, चत्वारि च ॥
इति पञ्चमप्रपाठके सप्तमोऽनुवाकः ॥ ७ ॥
कल्पः । अपरेणाहवनीयं दक्षिणाभिक्रामन् विश्वा आशा दक्षिणसदिति ब्राह्मणमीक्षत इति । (२ मन्त्रः) । दक्षिणदेशे सीदतीति ‘दक्षिणसद्’ ब्रह्मा, सोऽयं ‘विश्वा आशाः’ सर्व्वदिग्वर्त्तिनो देवान् प्रीणात्विति शेषः ॥
उक्तार्थपरत्वं मन्त्रस्य दर्शयति । “विश्वा आशा दक्षिणसदित्याह । विश्वानेव देवान् प्रीणाति । अथो दुरिष्ट्या एवैनं पाति” इति । (५ प्र० । ८ अनु० । १८ म०) । अनेन मन्त्रेण देवप्रीतिर्भवति । यागे सम्भावितदोषाच्च यजमानं पालयति ॥
कल्पः । विश्वान् देवानयाडिहेति होतारमिति । ईक्षत इत्यनुवर्त्तते । (३ मन्त्रः) । ‘इह’ कर्म्मणि, होता ‘विश्वान् देवान्’ ‘अयाट्’ इष्टवान् ॥
* स्वर्गलोके परस्तात् इति तै० पुस्तकपाठः ।