तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 482, कुल 940 में से
संदर्भ में पढ़ें४ प्रपाठके. ६ अनुवाकः। १७७
अनुष्ठेयमन्त्रसङ्ख्यां प्रशंसति । “दश सम्पद्यन्ते । दशाक्षरा विराट् । अन्नं विराट् । विराजैवान्नाद्यमवरुन्धे” इति । (५ प्र० । ७ अ० । ४० म०) । त्रयोदशेषु* त्रयाणां विकल्प्यार्थत्वेन पूर्व्वपञ्चकमुत्तरपञ्चकञ्चेत्येवमनुष्ठेयमन्त्राणां ‘दश’-त्वसम्पत्तिः, अतो विराड्-द्वारान्नलप्राप्तिः ॥
अथ रौहिणपुरोडाशौ विधत्ते । “रौहिणाभ्यां वै देवाः सुवर्गं लोकमायन् । तद्रौहिण्यो रौहिणत्वं । यद्रौहिणौ भवतः । रौहिणाभ्यामेव तद्यजमानः सुवर्गं लोकमेति” इति । (५ प्र० । ७ अ० । ४१ म०) । स्वर्गारोहत्याभ्यां पुरोडाशाभ्यामिति ‘रौहिणौ’ ताभ्यां स्वर्गप्राप्तिः ॥
रौहिणपुरोडाशयोर्दक्षिणोत्तरयोरपि होममन्त्रावुत्त- रानुवाके आम्नास्यमानावपि पुरोडाशविधिप्रसङ्गादिहैवा- पकृष्य व्याख्यायेते । “अहर्ज्योतिः केतुना जुषताꣳ सुज्योति- र्ज्योतिषाꣳ स्वाहा रात्रिर्ज्योतिः केतुना जुषताꣳ सुज्योतिर्ज्यो- तिषाꣳ स्वाहेत्याह । आदित्यमेव तदमुष्मिँल्लोकेऽह्नापरस्ता- द्दाधार । रात्रिया अवस्तात् । तस्मादसावादित्योऽमुष्मिँल्लो- केऽहोरात्राभ्यां धृतः” ॥ १२ ॥ इति । (५ प्र० । ७ अ० । ४२ म०) । अहर्देवता ‘केतुना’ अध्यक्षरूपेणादित्यमण्डलेन सह, ‘ज्योतिः’ ‘जुषतां’ प्रकाशं सेवतां । ‘ज्योतिषां’ मध्ये, ‘सुज्योतिः’ शोभन- ज्योतीरूपमहरुद्दिश्य, स्वाहुतमिदमस्तु । एवं रात्रिदेवता-
* त्रयोदशमन्त्रेषु इति तै० पुस्तकपाठः ।