तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 481, कुल 940 में से
संदर्भ में पढ़ें४०६ तैत्तिरीये आरण्यके
इति दर्शयति । "अग्नये त्वा वसुवते स्वाहेत्याह । असौ वा आदित्योऽग्निर्वसुमान् । तस्मा एवैनं जुहोति" इति । (५ प्र० । ७ अ० । ३५ म०) । हविःप्रक्षेपाभावेऽपि स्वाहाशब्दप्रयोगमात्रेण जुहोतीत्युच्यते ॥
द्वितीयमन्त्रादौ सोमादिशब्दैः प्रसिद्धार्थतामेव विवक्षां दर्शयति । "सोमाय त्वा रुद्रवते स्वाहेत्याह । चन्द्रमा वै सोमो रुद्रवान् । तस्मा एवैनं जुहोति । वरुणाय त्वादित्यवते स्वाहेत्याह ॥१०॥ अप्सु वै वरुण आदित्यवान् । तस्मा एवैनं जुहोति । बृहस्पतये त्वा विश्वदेव्यावते स्वाहेत्याह । ब्रह्म वै देवानां बृहस्पतिः । ब्रह्मण एवैनं जुहोति” इति । (५ प्र० । ७ अ० । ३६ म०) ॥
अनन्तरमन्त्रे सवितृशब्देन संवत्सरस्य विवक्षां दर्शयति । “सविचे लर्भुमते विभुमते प्रभुमते वाजवते स्वाहेत्याह । संव- त्सरो वै सवितर्भूमान् विभुमान् प्रभुमान् वाजवान् । तस्मा एवैनं जुहोति” इति । (५ प्र० । ७ अ० । ३७ म०) ॥
अनन्तरमन्त्रे यमशब्देन प्राणस्य विवक्षां दर्शयति । “यमाय त्वाङ्गिरस्वते पितृमते स्वाहेत्याह । प्राणो वै यमोऽङ्गिर- स्वान् पितृमान् ॥११॥ तस्मा एवैनं जुहोति” इति । (५ प्र० । ७ अ० । ३८ म०) ॥
वातानां मन्त्रानुपसंहरति । “एताभ्य एवैनं देवताभ्यो जु- होति” इति । (५ प्र० । ७ अ० । ३९ म०) । समुद्रादिभ्यो यमा- न्तेभ्यस्त्रयोदशमन्त्रोक्ताभ्यः 'देवताभ्यः' होमः कृतो भवति ॥