तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 521, कुल 940 में से
संदर्भ में पढ़ें| ५१६ | तैत्तिरीये आरण्यके |
|---|
नुपा॑गाः(११)। (१२)इ॒दम॒हं मंनु॒ष्यो॑ मनु॒ष्या॑न्। सोम॑पी-
सन्, ‘एतत्’ अस्माकं प्रत्यक्षं यथा भवति तथा, ‘देवान्’, ‘उपागाः’ प्राप्तवानसि ॥
अत्र प्रवर्ग्यस्य देवत्वं सर्व्वदेवप्रापणञ्च* प्रसिद्धमित्येतद्दर्शयति । “एतत्वं देव घर्म देवो देवानुपागा इत्याह । देवो ह्येष सन् देवानुपैति” । इति । (५ प्र० । ६ अ० । ३३ म०) ॥
कल्पः । इदमहं मनुष्यो मनुष्यानिति प्रदक्षिणमावृत्त्येति । पाठस्तु । (१२)“इदमहं मनुष्यो मनुष्यान् । ० सह रायस्पोषेण”(१२) इति । ‘अहं’ यजमानः, ‘मनुष्यः’, सन् ‘इदं’ प्रत्यक्षं यथा भवति तथा, ‘मनुष्यान्’, प्राप्नोमीति शेषः। हे ‘सोमपीथ’ सोमपान, ‘मां’, आभिमुख्येन ‘अन्विहि’ प्राप्नुहि, न केवलं त्वमेव, किन्तु ‘प्रजया रायस्पोषेण’, च ‘सह’, तदुभयमपि मां प्राप्नोतु ॥
यजमानस्य मनुष्यत्वं मनुष्यत्वप्राप्तिश्च प्रसिद्धा इत्येतद्दर्शयति । “इदमहं मनुष्यो मनुष्यानित्याह ॥ १० ॥ मनुष्यो हि । एष सन् मनुष्यानुपैति” । इति । (५ प्र० । ६ अ० । ३४ म०) ॥
सोमपानप्रार्थनायां कारणं दर्शयति । “ईश्वरो वै प्रवर्-र्ग्यमुद्वासयन् । प्रजां पशून्त्सोमपीथमन्वूदासः सोमपीथानुमेहि । सह प्रजया सह रायस्पोषेणेत्याह । प्रजामेव पशून्त्सोमपीथमात्मन्धत्ते” । इति । (५ प्र० । ६ अ० । ३५ म०) । यः
* अत्र प्रवर्ग्यस्य देवप्रापणमिति D चिह्नितपुस्तकपाठः ।