तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 526, कुल 940 में से
संदर्भ में पढ़ें४ प्रपाठक ११ अनुवाकः। ५१३
परि॒धीँर॑पश्यत्^{(१५)}। ^{(१६)}विश्वा॑वसुरभि॒ तन्नो॑ गृणा- तु। दि॒व्यो ग॑न्ध॒र्व्वो रज॑सो वि॒मान॑:। यद्वा॒द्य स॒त्य- मु॒त यन्न वि॒द्म ॥ ७ ॥
‘परिधीन्’ परिधिसदृशान्, दग्धाभिमानिनो देवान्, ‘पर्य- पश्यत्’ परितो वेष्टयितॄन् अवलोकितवान् । यदा गन्धर्व्व: सोमं मुष्णाति तदानीमापो दृष्ट्वा तत्र गताः, इन्द्रश्च तद- भिज्ञाय अपां सहायार्थं गन्धर्व्वमवरोद्धुं सूर्य्यरश्मीन् प्रेषित- वानित्यर्थः ॥
विश्वावसुवृत्तान्तस्मरणस्य विकलाङ्गसमाधानार्थत्वं दर्श- यति । “विश्वावसुꣳ सोमगन्धर्व्वमित्याह । यदेवास्य क्रिय- माणस्यान्तर्य्यन्ति । तदेवास्मैतेनाप्याययति* ।” इति । (५ प्र० । ६ अ० । १६ म०) । अनुष्ठीयमानस्य प्रवर्ग्र्यस्य ‘यत्’ अङ्गम्, ऋत्विजः अन्तर्हितं कुर्व्वन्ति, ‘तत्’ अङ्गं, ‘एतेन’ वृत्तान्तस्मरणेन, समृद्धं करोति । गन्धर्व्वेणापादितस्य वैकल्यस्याद्भिरिन्द्रेण च समा- हितत्वात्तदनुस्मरणस्य समाधानार्थत्वं युक्तं ॥
सप्तमं मन्त्रमाह । ^{(१६)}“विश्वावसूरभि तन्नो गृणातु । ० धियो हिन्वानो धिय इन्नो अव्यात् ।”^{(१६)} इति। अस्मिन् कर्म्मणि ‘यद्वाद्य’ यदेव किञ्चिदङ्गं यथाशास्त्रं अनुष्ठितं, ‘उत’ अपि च, ‘यत्’ अङ्गम्, ‘न विद्म’ वयं विस्मृतवन्तः, ‘तत्’-सर्व्वं, ‘नः’ अस्मभ्यं,
* प्याययति इति F, H, चिह्नितपुस्तकद्वयपाठः।
3 s 2