भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 527, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 527

५१४ तैत्तिरीये आरण्यके

धियो॑ हिन्वा॒नो धिय॒ इन्नो॑ अव्यात्^(१९) । ^(२०)स- सि॑मविन्दच्चर॑णे नदीना॑म् । अपा॑वृणो॒द् दुरो॒ अश्म॑-


‘विश्वावसुः’, ‘गृणातु’ कथयतु । कीदृशः, ‘दिव्यो गन्धर्व्वः’ दिवि भवो गन्धर्व्वजातिः, अतः सर्व्वज्ञ इत्यर्थः । ‘रजसो वि- मानः’ रञ्जकस्य गीतस्य विशेषेण निर्माता, ‘धियो हिन्वानः’ बुद्धेः प्रीणयिता, स गन्धर्व्वः ‘नः’ अस्मदीयाः, ‘धिय इत्’ बुद्धीः सर्व्वा अपि, ‘अव्यात्’ रक्षतु ॥

पूर्व्वमन्त्रे* यथाङ्गवैकल्यसमाधानहेतुत्वं, तद्वदस्यापि वैकल्य- समाधानहेतुतां दर्शयति । “विश्वावसुरभितन्नो गृणात्वि- त्याह ॥ ६ ॥ पूर्व्वमेवोदितं । उत्तरेणाभिगृणातु” । इति । (५ प्र० । ८ अ० । ३० म०) ॥

चतुर्थपादे धीरक्षणेन ऋतुसमृद्धिविवक्षितेति दर्शयति । “धियो हिन्वानो धिय इन्नो अव्यादित्याह । ऋतूनेवास्मै कल्पयति” । इति । (५ प्र० । ८ अ० । ३१ म०) । ऋतवो यदा स्वस्वकार्य्यकराः तदा प्राणिनां बुद्धयः स्वस्था भवन्ति । अतो धीरक्षणं ऋतुषु प्रवाहरूपेण प्रवर्त्तते ॥

अष्टममन्त्रमाह । ^(२०)“ससिमविन्दच्चरणे नदीनां । ० इन्द्रो दत्तं परिजानादहीनं”^(२०) इति । यः पूर्व्वो गन्धर्व्वः अस्ति सः


* पूर्व्वमन्त्रो यथाङ्गवैकल्यसमाधानहेतुः। इति F, H, चिह्नितपुस्तकद्वयपाठः ।