भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 532, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 532

४ प्रपाठक ११ अनुवाकः। ५१६

त्यम॒स्मभ्य॑ग्ँ॒ सनि॑* । गा॒य॒त्रं नवी॑याग्ँसम् । अग्ने॑ दे॒वेषु॒ प्रवो॑चः⁽२५⁾ ॥ ८ ॥

याग्नीध्रे॒ तां त॒ एतेनाव॑यजे॒ स्वाहा॑, धर्म्म॑णा, शं- युर्धायाः, प्यासिषीमहि, पोषे॑ण, निश॑त्तः, वि॒द्म, सं॑न्तु, अ॒ष्टौ च॑ ॥ अनु०११ ॥

कल्पः । इममूषु त्यमस्मभ्यमित्याहवनीये जुहोतीत्युपति- ष्ठन्त^\dagger इत्येक इति । पाठस्तु । ⁽२५⁾"इममूषु त्यमस्मभ्यग्ँ सनिं । ० अग्ने देवेषु प्रवोचः⁽२५⁾ इति । हे 'अग्ने', 'देवेषु', मध्ये 'अस्मभ्यं', 'सनिं' फलदानं, 'प्रवोचः' प्रकर्षेण कथय । न केवलं फलदानं, किन्तु 'त्यमिममूषु' तं शास्त्रप्रसिद्धमिममस्माभि- रिदानीं अनुष्ठितं प्रवर्ग्यमपि सुष्ठु देवेषु, वपय । कीदृशं प्रवर्ग्यं, 'गायत्रं' गायत्र्यादिछन्दोयुक्तं । अतएव पूर्व्वत्राम्नातं, 'छन्दोभिर्वा एषक्रियत इति' । 'नवीयाग्ँसं' अतिशयेन नूतनं, सर्वाङ्गसम्पूर्णमित्यर्थः ॥

शाखान्तरे यानि प्रवर्ग्यसामानि, तेषामाधारभूता ये मन्त्रांस्तान् विधत्ते । "प्रजापतिं वै देवाः शुक्लं पयोऽदुहन् । तदेभ्यो न व्यभवत् । तदग्निर्व्यकरोत् । तानि शुक्रियाणि सामा- न्यभवन् । तेषां यो रसोऽत्यक्षरत् । तानि शुक्लयजूंष्यभवन् ।


* G, I, चिह्नितपुस्तकद्वये "भ्यं"कार उदात्तः ।
^\dagger उपतिष्ठत इति D चिह्नितपुस्तकपाठः ।
3 T