तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 533, कुल 940 में से
संदर्भ में पढ़ें५२० तैत्तिरीये आरण्यके
शुक्रियाणां वा एतानि शुक्रियाणि । सामपयसं वा एतयो- रन्यत् । देवानामन्यत्यः । यद् गोः पयः ॥१॥ तत्साम्नः पयः । यदजायै पयः । तद्देवानां पयः । तस्माद्यचैतैैर्यजुर्भिस्वरन्ति । तत्पयसा चरन्ति । प्रजापतिमेव तद्देवान् पयसान्नाद्येन सम- र्द्धयन्ति ।” इति । (५ प्र०।१० अ०।१ म०) । पुरा कदाचित् ‘देवाः’, सर्वे ‘प्रजापतिं’, कामधेनुं कृत्वा ‘शुक्रं पयः’ प्रवर्ग्यरूपं क्षीरं, दुग्धवन्तः। ‘तत्’ एकमेव, भूत्वा देवेभ्यः ‘न व्यभवत्’ बहूनां देवानार्थे विविधं नाभूत् । अतः सर्वेषां भोगाय न पर्याप्तं, तदानीं ‘अग्निः’, ‘तत्’ एकं पयः, विविधं ‘अकरोत्’ । ‘तानि’ विविधानि पयांसि, ‘शुक्रियाणि’ प्रवर्ग्यसम्बन्धीनि, ‘सामा- न्यभवन्’ । ‘तेषां’ च पयोरूपाणां साम्नां, ‘यो रसः’, ‘अत्यचरत्’ तेभ्यः अस्रवत्, ‘तानि’ सामभ्यः स्रुतानि साराणि, ‘शुक्रयजूंषि’ प्रवर्ग्यसम्बन्धिनो मन्त्राः, आसन*। ‘शुक्रियाणां’ प्रवर्ग्यसम्बन्धिनां साम्नां, सम्बन्धीनि प्रवर्ग्ययोग्यानि ‘एतानि’ यजूंषि । इत्थं प्रव- र्ग्याङ्गमन्त्रोत्पत्तिरुक्ता, अथ द्रव्यमुच्यते, ‘एतयोः’ वक्ष्यमाणयोः द्वयोः पयसोर्मध्ये, ‘अन्यत्’ एकं, ‘सामपयसं’ साम्नां प्रियं क्षीरं, ‘अन्यत्’, ‘यत्’, ‘देवानां’, प्रियं । तदुभयं विभज्य प्रदर्श्यते । तत्र गव्यं सामदेवतायाः प्रियं, अजाक्षीरं देवानां प्रियं, यस्मादेवं मन्त्रोत्पत्तिः, क्षीरद्वयञ्च एतादृशं, ‘तस्मात्’, ‘यत्र’ कर्मणि, ‘एतैः’ ‘यजुर्भिः’ प्रवर्ग्यमन्त्रैः, ‘चरन्ति’ अनुतिष्ठन्ति । ‘तत्’ तत्र कर्मणि, द्विविधेन ‘पयसा’, ‘चरन्ति’ । शुक्रियामन्त्रैः क्षीरद्वयं
* अभवन् इति E, चिह्नितपुस्तकपाठः ।