भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 557, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 557

५४४ तैत्तिरीये आरण्यके

अथ चतुर्विंशोऽनुवाकः। ^(१)धु॒निश्च॑ ध्वान्त॒श्च ध्व॒निश्च॑ ध्वनयँ॒श्च । नि॒लिम्प॑श्च वि॒लिम्प॑श्च वि॒क्षिपः॑^(१) ॥ अनु० २४ ॥

अथ पञ्चविंशोऽनुवाकः। ^(१)उ॒ग्रश्च॑ धु॒निश्च॑ ध्वान्त॒श्च ध्व॒निश्च॑ ध्वनयँ॒श्च ।


अथ चतुर्विंशोऽनुवाकः ।

मरुद्गणप्रतिपादकं प्रथममनुवाकमाह । ^(१)“धुनिश्च ध्वान्त- श्च • विलिम्पश्च विक्षिपः”^(१) इति । धुन्यादीनि सप्त पदानि गणगतानां मरुद्विशेषाणां नामधेयानि । एतद्रूपेण कपाला- न्यवतिष्ठामीत्यर्थः* ॥

इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजु- रारण्यके चतुर्थप्रपाठके चतुर्विंशोऽनुवाकः ॥ २४ ॥


अथ पञ्चविंशोऽनुवाकः।

मरुद्गणप्रतिपादकमनुवाकान्तरमाह । ^(१)“उग्रश्च धुनिश्च एत्य प्रेत्य विक्षिपः”^(१) इति । उग्रादीनि सहमानान्तानि सप्त


* कपालान्यवतिष्ठन्तामित्यर्थ इति E चिह्नितपुस्तकपाठः ।