तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 558, कुल 940 में से
संदर्भ में पढ़ें४ प्रपाठके २५ अनुवाकः । ५४५
स॒ह॒सह्वा॑ँश्च॒ सह॑मानश्च॒ सह॑स्वाँश्च॒ सहो॑याँश्च । एत्य॒ प्रेत्य॑ विक्षिपः॑ ।^{(१)} ॥ अनु० २५ ॥
अथ षड्विंशोऽनुवाकः ।
^{(१)}अ॒हो॒रा॒त्रे त्वोदी॑रयतां । अ॒र्ध॒मा॒सास्त्वादौ॑ञ्जयन्तु ।
पदानि गणगतानां मरुद्विशेषाणां नामधेयानि । सहस्वादीनि विक्षिप इत्यन्तानि षण्नामानि विकल्पितानि । अनुवाकद्वयोक्तं गणद्वयं कपालोपधाने विकल्पितं । उत्तरगणे च नामषट्कं पुनर्विकल्पितं ॥
इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजु- रारण्यके चतुर्थप्रपाठके पञ्चविंशोऽनुवाकः ॥ २५ ॥
अथ षड्विंशोऽनुवाकः ।
कल्पः । यदि घर्मदुघं वा महावीरं वास्तेनोपहरेत्, गार्हपत्ये स्रुवाहुतिं जुहुयात्, अहोरात्रे त्वोदीरयतामिति । पा- ठस्तु । ^{(१)}“अ॒हो॒रा॒त्रे त्वोदी॑रयतां ॰ संवत्स॒रस्त्वा॒हन्व॒सौ”^{(१)} इति । चौरस्य नामनिर्देशार्थः ‘असौ,’ इति शब्दः । हे देवदत्त- नामक चौर त्वामहोरात्रदेवते ‘उदीरयतां’ उद्गमयतां । अर्धमा- सदेवतास्त्वां ‘उदौञ्जयन्तु’ उत्कर्षेणैव जयन्तु । मासदेवतास्त्वां
3 w 2