भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 564, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 564

४ प्रपाठके ३२ अनुवाकः । ५५१

अथ एकत्रिंशोऽनुवाकः ।

(१)यदी॑षि॒तो यदि॑ वा स्व॒कामी॑ । भ॒येड॑को वद॑ति॒ वाच॑मे॒ताम् । तामिन्द्रा॑ग्नी॒ ब्रह्म॑णा॒ संवि॑दानौ । शि॒वाम॒स्मभ्यं॑ कृणुतं गृ॒हेषु॑(१) ॥ अनु० ३१ ॥

अथ द्वात्रिंशोऽनुवाकः ।

(१)दी॒र्घमु॑खि दुर्ह॑णु । मास्म॑ दक्षि॒णतो॑ वदः । यदि॑


अथ एकत्रिंशोऽनुवाकः ॥

भयेडकविषयमनुवाकमाह । (१)“यदीषितो यदि वा ० कृणुतं गृहेषु”(१) इति । एडको* मेषः, स च युद्धव्यमनयुक्तः ‘भयेडकः,’ तन्दृष्ट्वैव भीत्या मनुष्याः पलायन्ते । स च ‘यदि,’ केनचित् ‘ईषितः’† प्रवर्त्तितः, ‘यदि वा,’ ‘स्वकामी’ स्वेच्छावर्त्ती सन्, ‘एतां’ श्रूयमाणां, ‘वाचं वदति’ ध्वनिं करोति । हे ‘इन्द्राग्नी,’ ‘ब्रह्मणा’ परमेश्वरेण सह, ‘संविदानौ’ ऐकमत्यङ्गतौ, ‘अस्मभ्यं’ अस्मदर्थं, ‘गृहेषु,’ अस्मदीयेषु, ‘तां’ वाचं, ‘शिवां’ सुखकरीं, ‘कृणुतं’ कुरुतं ॥

इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके चतुर्थप्रपाठके एकत्रिंशोऽनुवाकः ॥ ३१ ॥


अथ द्वात्रिंशोऽनुवाकः ।

दीर्घमुखीविषयमनुवाकमाह । (१)“दीर्घमुखि दुर्हणु ० द्विषन्तं मेऽवबाधस्व”(१) इति । ‘दीर्घमुखी’ काकस्त्री, गर्दभी वा, ‘दुष्टा


* एलक इति D F चिह्नितपुस्तकद्वयपाठः ।
† एषित इति E चिह्नितपुस्तकपाठः ।
६ x

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद) · पृष्ठ 564, कुल 940 में से · BharatKosha