तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 565, कुल 940 में से
संदर्भ में पढ़ें५५२ तैत्तिरीये आरण्यके
दक्षिण॒तो वदा॑द्द्विष॒न्तं मे॒ऽवबा॑धस्व^(१)॥ अनु० ३२॥
अथ त्रयस्त्रिंशोऽनुवाकः ।
^(१)इ॒त्या॑दुलू॑क॒ आप॑पत् । हिर॑ण्या॒क्षो॒ अयो॑मुखः ।
रक्ष॑सान्दू॒त आ॑ग॒तः । तमि॒तो ना॑शयाऽग्ने^(१)॥
अनु० ३३॥
हनूः यस्याः सा दुर्हणूः । हे 'दुर्हणु,' 'दीर्घमुखि,' 'दक्षिणतः' दक्षिणभागे, 'मास्म वदः' ध्वनिम्मा कार्षीः,। 'यदि,' दक्षिणभागे, 'वदात्' शब्दङ्कुर्याः, तदा 'मे,' 'द्विषन्तं,' 'अवबाधस्व' विनाशय ॥
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके चतुर्थप्रपाठके द्वात्रिंशोऽनुवाकः ॥ ३२ ॥
अथ त्रयस्त्रिंशोऽनुवाकः ।
उलूकविषयमनुवाकमाह । ^(१)“इत्यादुलूकः ० तमितो नाशयाऽग्ने”^(१)इति । उलूकः, काकविरोधी घूकः, सोयं 'उलूकः,' 'इत्यात्' अनेन प्रकारेण, 'आपपत्' प्राप्नोत् । कीदृशः, हिरण्यवद्रक्ते अक्षिणी यस्यासौ 'हिरण्याक्षः,' अयोवत् कृष्णवर्णमुखं यस्यासौ 'अयोमुखः,' स च यज्ञविघातिनां 'रक्षसां,' 'दूतः,' सन्, इह समागतः । हे 'अग्ने,' 'तं' उलूकं, 'इतः' स्थानात्, 'नाशय' ॥
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके चतुर्थप्रपाठके त्रयस्त्रिंशोऽनुवाकः ॥ ३३ ॥