भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 566, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 566

४ प्रपाठके ३४ अनुवाकः। ५५३

अथ चतुस्त्रिंशोऽनुवाकः।

(१)यदे॑तद्भू॒तान्य॑न्वा॒विश्य॑। दैवीँ॒ वाचँ॑ व॒दसि॑। द्वि॒षतो॑ नः॒ परा॑वद। तान्मृ॒त्यो॒ मृत्य॑वे नय। त आर्त्याऽऽर्त्तिमा॒र्च्छन्तु॑। अ॒ग्निना॒ऽग्निः सं॑वदतां॑(१) ॥ अनु० ३४ ॥


अथ चतुस्त्रिंशोऽनुवाकः।

अथ भूतोपसृष्टविषयमनुवाकमाह। (१)“यदेतद्भूतान्यन्वाविश्य ॰ अग्निनाऽग्निः संवदतां”(१) इति। यक्षराक्षसग्रहाविष्टो मनुष्यो यद्वदति तद्विषयमिदमुच्यते। यक्षादिभूतानि प्राणिनः मनुष्यान् अनुप्रविश्य ‘दैवीं वाचं’ मनुष्याणामयोग्यां काञ्चिद्वाचं, ‘वदसि,’ इति ‘यत्,’ ‘एतत्’ एतेन वचनेन, ‘नः’ अस्माकं, ‘द्विषतः’ शत्रून्, ‘परावद’ पराभूतां यथा भवन्ति तथा वद। हे ‘मृत्यो,’ यक्षादिरूप ‘मृत्यवे’ परममृत्युरूपाय* देवाय, ‘तान्’ द्विषतः, ‘नय’ प्रापय। ‘ते’ द्विषन्तः, ‘आर्त्त्या’ रोगेण, ‘आर्त्तिं’ दुःखं, ‘आर्च्छन्तु’ प्राप्नुवन्तु। अस्मिन्नर्थे ‘अग्निना’ उल्मुकमूलभागवर्त्तिना, ‘अग्निः’ उल्मुकाग्रवर्त्ती, ‘संवदतां’ संवादमनुमतिं करोतु॥

इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके चतुर्थप्रपाठके चतुस्त्रिंशोऽनुवाकः ॥ ३४ ॥


* परमृत्युरूपाय इति D चिह्नितपुस्तकपाठः
3 x 2