तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 577, कुल 940 में से
संदर्भ में पढ़ें५६४ तैत्तिरीये आरण्यके
अहा॑नि॒ शम्भ॑वन्तु न॒ः शꣳ रात्रि॒ः प्रति॑धीयतां^(१) । ^(२)शमु॒षा नो॒ व्यु॑च्छतु॒ शमा॑दि॒त्य उदे॑तु नः । शि॒वा न॑ः शन्त॑मा भव सुमृ॒डी॒का सर॑स्वति । मा ते॒ व्योम॑ सं॒दृशि॑^(२) । ^(३)इ॒डायै॒ वास्तो॑सि वा॒स्तुम॑द्वा॒स्तुम॑न्तो भूयास्म॒ मा वास्तोश्छि॑त्स्म॒ ह्यवा॑स्तुः स भू॑या॒द्योऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यं
'मातरिश्वा' अन्तरिक्षनिवासी, 'वातः,' 'नः' अस्माकं, 'शं' सुखं, यथा भवति, तथा, 'पवतां' । 'सूर्यः,' अपि तथैव 'तपतु' । 'अहानि,' अपि 'नः' अस्माकं, सुखकराणि 'भवन्तु' । 'रात्रिः,' च सुखकरी सम्पद्यतां ॥
द्वितीयं मन्त्रमाह । ^(२)“शमुषा नो व्युच्छतु ० मा ते व्योम संदृशि”^(२) इति । 'उषा,' देवी, 'नः' अस्माकं, सुखकरी प्रभातं करोतु । 'आदित्यः,' चास्माकं सुखकरः 'उदेतु' । हे 'सरस्वति,' त्वं 'नः' अस्मान् प्रति, 'शिवा' अनुकूला, 'शन्तमा' अतिशयेन सर्वोपद्रवशमनी, 'सुमृडीका' सुष्ठु सुखकरी, च 'भव' । 'ते संदृशि' तव कटाक्षे सति, 'व्योम' सुखशून्यत्वं, 'मा,' भूत् ॥
तृतीयं मन्त्रमाह । ^(३)“इडायै वास्तु ० यं च वयन्द्विष्मः”^(३) इति । हे भूमे त्वं 'इडायै' धेनुरूपाया इडादेव्याः, 'वास्तु असि' निवासस्थानमसि । सर्वं जगत् तत्प्रसादात् 'वास्तुमत्' निवासस्थानयुक्तं भवतु । वयमपि तत्प्रसादात् 'वास्तुमन्तः' निवासस्थानयुक्ताः, 'भूयास्म' । 'वास्तोः,' निवासस्थानात् 'माच्छित्स्म' विच्छिन्ना मा-