भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 577, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 577

५६४ तैत्तिरीये आरण्यके

अहा॑नि॒ शम्भ॑वन्तु न॒ः शꣳ रात्रि॒ः प्रति॑धीयतां^(१) । ^(२)शमु॒षा नो॒ व्यु॑च्छतु॒ शमा॑दि॒त्य उदे॑तु नः । शि॒वा न॑ः शन्त॑मा भव सुमृ॒डी॒का सर॑स्वति । मा ते॒ व्योम॑ सं॒दृशि॑^(२) । ^(३)इ॒डायै॒ वास्तो॑सि वा॒स्तुम॑द्वा॒स्तुम॑न्तो भूयास्म॒ मा वास्तोश्छि॑त्स्म॒ ह्यवा॑स्तुः स भू॑या॒द्योऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यं


'मातरिश्वा' अन्तरिक्षनिवासी, 'वातः,' 'नः' अस्माकं, 'शं' सुखं, यथा भवति, तथा, 'पवतां' । 'सूर्यः,' अपि तथैव 'तपतु' । 'अहानि,' अपि 'नः' अस्माकं, सुखकराणि 'भवन्तु' । 'रात्रिः,' च सुखकरी सम्पद्यतां ॥

द्वितीयं मन्त्रमाह । ^(२)“शमुषा नो व्युच्छतु ० मा ते व्योम संदृशि”^(२) इति । 'उषा,' देवी, 'नः' अस्माकं, सुखकरी प्रभातं करोतु । 'आदित्यः,' चास्माकं सुखकरः 'उदेतु' । हे 'सरस्वति,' त्वं 'नः' अस्मान् प्रति, 'शिवा' अनुकूला, 'शन्तमा' अतिशयेन सर्वोपद्रवशमनी, 'सुमृडीका' सुष्ठु सुखकरी, च 'भव' । 'ते संदृशि' तव कटाक्षे सति, 'व्योम' सुखशून्यत्वं, 'मा,' भूत् ॥

तृतीयं मन्त्रमाह । ^(३)“इडायै वास्तु ० यं च वयन्द्विष्मः”^(३) इति । हे भूमे त्वं 'इडायै' धेनुरूपाया इडादेव्याः, 'वास्तु असि' निवासस्थानमसि । सर्वं जगत् तत्प्रसादात् 'वास्तुमत्' निवासस्थानयुक्तं भवतु । वयमपि तत्प्रसादात् 'वास्तुमन्तः' निवासस्थानयुक्ताः, 'भूयास्म' । 'वास्तोः,' निवासस्थानात् 'माच्छित्स्म' विच्छिन्ना मा-