भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 587, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 587
५७४तैत्तिरीये आरण्यके

^{(२६)}अ॒न्तरि॑क्षꣳ शा॒न्तं तद्वा॒युना॑ शा॒न्तं तन्मे॑ शा॒न्तꣳ शुचं॑ꣳ शमयतु^{(२६)}। ^{(२७)}द्यौः शा॒न्ता सा॒दि॒त्येन॑ शा॒न्ता सा मे॑ शा॒न्ता शुचं॑ꣳ शमयतु^{(२७)}। ^{(२८)}पृ॒थि॒वी शा॒न्ति॑र॒न्तरि॑क्षꣳ शा॒न्ति॒र्द्यौः शा॒न्ति॒र्दिशः॑ शा॒न्ति॑- रवा॑न्तरदि॒शाः शा॒न्ति॑र॒ग्निः शा॒न्ति॑र्वा॒युः शा॒न्ति॑रा- दि॒त्यः शा॒न्ति॑श्च॒न्द्रमाः॒ शा॒न्ति॒र्नक्ष॑त्राणि॒ शा॒न्ति॒रापः॑ शा॒न्ति॒रोष॑धयः॒ शा॒न्ति॒र्वन॒स्पत॑यः॒ शा॒न्ति॒र्गौः शा॒न्ति॑- र॒जा शा॒न्ति॒रश्वः॒ शा॒न्तिः॒ पुरु॑षः॒ शा॒न्ति॒र्ब्रह्म॒ शा॒न्ति॑- र्ब्रा॒ह्म॒णः शा॒न्तिः॒ शा॒न्ति॑रे॒व शा॒न्तिः॒ शा॒न्ति॑र्मे अस्तु॒ शा॒न्तिः॑^{(२८)}। ^{(२९)}तया॒ऽहꣳ शा॒न्त्या सर्व॑शान्त्या॒ मह्यं॑ द्वि॒पदे॑


अथ षड्विंशसप्तविंशौ मन्त्रावाह। ^{(२६)}“अन्तरिक्षꣳ ० शुचंꣳ शमयतु”^{(२६)}। ^{(२७)}“द्यौः शान्ता ० शुचंꣳ शमयतु”^{(२७)} इति। 'अन्त' 'द्यौः शान्ता' मन्त्रद्वयं पृथिवीमन्त्रवद्व्याख्येयं॥

अथाष्टाविंशं मन्त्रमाह। ^{(२८)}“पृथिवी शान्तिरन्तरिक्षꣳ शान्तिः ० शान्तिर्मे अस्तु शान्तिः”^{(२८)} इति। पृथिव्यादयः सर्व- देवता अस्मदनिष्टशमनहेतुत्वात् शान्तिदेवतारूपाः। 'ब्रह्म'वेदः, पृथिव्यादीनामुपचरितं शान्तिदेवतारूपत्वं। या तु शान्त्यभिमा- निनो देवता सा 'शान्तिरेव' मुख्यमेव तस्याः शान्तित्वं, अतः सा शान्तिदेवता 'मे', 'शान्तिरस्तु' सर्वानिष्टशमनहेतुरस्तु ॥