भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 588, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 588

४ प्रपाठके ४२ अनुवाकः। ५७५

चतु॑ष्पदे च॒ शान्ति॑ङ्करोमि॒ शान्ति॑र्मे अस्तु॒ शान्तिः॑।(१९)। (२०)एह॒ श्रीश्च॒ ह्रीश्च॒ धृति॑श्च॒ तपो॑ मे॒धा प्र॑ति॒ष्ठा श्र॒द्धा स॒त्यं धर्म॑श्चै॒तानि॒ मोत्ति॑ष्ठन्त॒मनूत्ति॑ष्ठन्तु॒ मा मा॑* श्रीश्च॒ ह्रीश्च॒ धृति॑श्च॒ तपो॑ मे॒धा प्र॑ति॒ष्ठा श्र॒द्धा स॒त्यं धर्म॑श्चै- तानि॒ मा मा॑ हासिषुः।(२०)। (२१)उ॒दायु॑षा॒ स्वायु॒षोष॑- धीनां॒ रसे॒नोत्प॒र्जन्य॑स्य॒ शुष्मे॒णोद॑स्थाम॒मृताँ॒ अनु॑(२१)।


अथैकोनत्रिंशं मन्त्रमाह । (१९)“तयाहँ शान्त्या ० अस्तु शान्तिः”(१९) इति । ‘अहं’ यजमानः, ‘सर्वशान्त्या’ सर्वा- निष्टशमनहेतुतया, पूर्वोक्तगुणविशिष्टया, ‘शान्त्या’ शान्तिदेवतया, ‘मह्यं’ मच्छरीरार्थं, ‘द्विपदे’ मदीयाय मनुष्यार्थं, ‘चतुष्पदे’ मदीयाय पश्वर्थं ‘च’, ‘शान्तिं’ सर्वानिष्टशमनं, ‘करोमि’ । अतः शान्तिदेवता ‘मे’ मदर्थं, ‘शान्तिः’ सर्वानिष्टशमनहेतुः, ‘अस्तु’ ॥

अथ त्रिंशं मन्त्रमाह । (२०)“एह श्रीश्च ह्रीश्च ० मा मा हासिषुः”(२०) इति । श्रीप्रभृतयो धर्मान्ता या देवताः सन्ति, ‘एतानि’ देवशरीराणि, इह कर्मसमाप्तौ ‘उत्तिष्ठन्तं’, ‘माम्’, ‘अनु’ आसमन्तात्, ‘उत्तिष्ठन्तु’। यानि श्रीप्रभृतीनां स्वरूपाणि ‘एतानि’, ‘मा’, ‘मा हासिषुः’ मा परित्यजन्तु । पुनरपि ‘मा मा हासिषुः’, द्विरुक्तिरादरार्था ॥

अथैकत्रिंशं मन्त्रमाह । (२१)“उदायषा स्वायषा ० अमृताँ


* मामित्यस्य स्थाने मा हासिषुः इति पाठः भाष्यसम्मतः। परन्तु आदर्शपुस्तकेषु तथा नास्ति ।