तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 588, कुल 940 में से
संदर्भ में पढ़ें४ प्रपाठके ४२ अनुवाकः। ५७५
चतु॑ष्पदे च॒ शान्ति॑ङ्करोमि॒ शान्ति॑र्मे अस्तु॒ शान्तिः॑।(१९)। (२०)एह॒ श्रीश्च॒ ह्रीश्च॒ धृति॑श्च॒ तपो॑ मे॒धा प्र॑ति॒ष्ठा श्र॒द्धा स॒त्यं धर्म॑श्चै॒तानि॒ मोत्ति॑ष्ठन्त॒मनूत्ति॑ष्ठन्तु॒ मा मा॑* श्रीश्च॒ ह्रीश्च॒ धृति॑श्च॒ तपो॑ मे॒धा प्र॑ति॒ष्ठा श्र॒द्धा स॒त्यं धर्म॑श्चै- तानि॒ मा मा॑ हासिषुः।(२०)। (२१)उ॒दायु॑षा॒ स्वायु॒षोष॑- धीनां॒ रसे॒नोत्प॒र्जन्य॑स्य॒ शुष्मे॒णोद॑स्थाम॒मृताँ॒ अनु॑(२१)।
अथैकोनत्रिंशं मन्त्रमाह । (१९)“तयाहँ शान्त्या ० अस्तु शान्तिः”(१९) इति । ‘अहं’ यजमानः, ‘सर्वशान्त्या’ सर्वा- निष्टशमनहेतुतया, पूर्वोक्तगुणविशिष्टया, ‘शान्त्या’ शान्तिदेवतया, ‘मह्यं’ मच्छरीरार्थं, ‘द्विपदे’ मदीयाय मनुष्यार्थं, ‘चतुष्पदे’ मदीयाय पश्वर्थं ‘च’, ‘शान्तिं’ सर्वानिष्टशमनं, ‘करोमि’ । अतः शान्तिदेवता ‘मे’ मदर्थं, ‘शान्तिः’ सर्वानिष्टशमनहेतुः, ‘अस्तु’ ॥
अथ त्रिंशं मन्त्रमाह । (२०)“एह श्रीश्च ह्रीश्च ० मा मा हासिषुः”(२०) इति । श्रीप्रभृतयो धर्मान्ता या देवताः सन्ति, ‘एतानि’ देवशरीराणि, इह कर्मसमाप्तौ ‘उत्तिष्ठन्तं’, ‘माम्’, ‘अनु’ आसमन्तात्, ‘उत्तिष्ठन्तु’। यानि श्रीप्रभृतीनां स्वरूपाणि ‘एतानि’, ‘मा’, ‘मा हासिषुः’ मा परित्यजन्तु । पुनरपि ‘मा मा हासिषुः’, द्विरुक्तिरादरार्था ॥
अथैकत्रिंशं मन्त्रमाह । (२१)“उदायषा स्वायषा ० अमृताँ
* मामित्यस्य स्थाने मा हासिषुः इति पाठः भाष्यसम्मतः। परन्तु आदर्शपुस्तकेषु तथा नास्ति ।