भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 589, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 589

५७६ तैत्तिरीये आरण्यके

(२२)तच्चक्षुर्देव॑हि॒तं पु॒रस्ता॑च्छु॒क्रमुच्चर॑त् । पश्ये॑म श॒रदः॑ श॒तं जीवे॑म श॒रदः॑ श॒तं नन्दा॑म श॒रदः॑ श॒तं मोदा॑म श॒रदः॑ श॒तं भवा॑म श॒रदः॑ श॒तःँ शृ॒णवा॑म श॒रदः॑ श॒तं प्रब्र॑वाम श॒रदः॑ श॒तमजी॑ताः स्याम श॒रदः॑ श॒तं ज्योक् च॒ सूर्यँ॑ दृ॒शे(२२) ॥ (२३)य उद॑गान्मह॒तोऽर्णवा॑द्वि॒भ्राज॑मानः


अनु''(२१) इति । अहं 'अमृतान्' देवान्, 'अनु'लक्ष्य, आयुरादि-विशेषणविशिष्टेन सोमेन सह 'उदस्थां' उत्तिष्ठामि । चिरजीवनं 'आयुः', तत्रापि रोगाद्युपद्रवरहितं 'स्वायुः', तदुभयप्रदत्वाद्स्य तद्रूपत्वं । 'ओषधीनां', 'पर्जन्यस्य', च 'रसः' सारं । चतुर्भिर्विशेषणैः पृथक् क्रियापदमन्वेतुं चत्वारः 'उत्'शब्दाः ॥

अथ द्वात्रिंशं मन्त्रमाह । (२२)“तच्चक्षुर्देवहितं ० सूर्यं दृशे”(२२) इति । 'पुरस्तात्' पूर्वस्यान्दिशि, 'उच्चरत्' उदयं गच्छ । 'शुक्रं' ज्योतिःस्वरूपं, 'देवहितं' सर्वेभ्यो देवेभ्यो हितकारि, 'चक्षुः' दृष्टेरनुग्राहकं, 'तत्' आदित्यमण्डलं, 'शरदः शतं' शतसङ्ख्याकान् संवत्सरान्, सर्वदा 'पश्येम' । तत्प्रसादाज्जीवनादिव्यापारांश्च प्राप्नुवाम । 'नन्दाम' द्रव्यैः समृद्धा भूयास्म । 'मोदाम' तद्भोगेने हृष्टाः स्म । 'भवाम' स्वस्थाने निवसाम । 'शृणवाम' वेदशास्त्ररहस्यं गुरुमुखादवगच्छेम । 'प्रब्रवाम' शिष्येभ्यः प्रकर्षेण कथयाम । 'अजीताः' अऋणा केनाप्यजिताः, किञ्च 'ज्योक्' दीर्घं कालं, 'सूर्यं', 'दृशे' द्रष्टुं समर्था भूयास्म ॥