तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 590, कुल 940 में से
संदर्भ में पढ़ें४ प्रपाठके १२ अनुवाकः। ५७७
सरिरस्य मध्यात्स मा वृषभो लो॑हिता॒क्षः सूर्यो॑ विप- श्चिन्मन॑सा पुनातु^(३३)। ^(३४)ब्रह्म॑ण॒श्रोतन्य॑सि॒ ब्रह्म॑ण आ॒णी स्थो॒ ब्रह्म॑ण आवप॑नमसि धारि॒तेयं पृ॑थि॒वी ब्र॒- ह्म॑णा म॒ही धारि॑त॒मेने॑न म॒हद॒न्तरि॑क्षं दिवं॑ दाधार
अथ त्रयस्त्रिंशं मन्त्रमाह। ^(३३)“य उदगात् ॰ मनसा पुनातु”^(३३) इति। ‘यः’ सूर्यः, ‘महतः’ प्रौढात्, ‘अर्णवात्’ पूर्वसमुद्रात्, तत्रापि विशेषतः ‘सरिरस्य’* जलस्य, ‘मध्यात्’, ‘विभ्राजमानः’ विशेषेण दीप्यमानः, ‘उदगात्’ उदयङ्गच्छति। ‘सः सूर्यः’, ‘मनसा’, मां ‘पुनातु’ शोधयतु। कीदृशः सूर्यः, ‘वृषभः’ कामानां वर्षयिता, ‘लोहिताक्षः’ रक्तवर्णाक्षियुक्तः, ‘विपश्चित्’ सर्वज्ञः ॥
अथ चतुस्त्रिंशं मन्त्रमाह। ^(३४)“ब्रह्मणश्रोतन्यसि ॰ अधि- विक्षमत्”^(३४) इति। अत्र वेदः सम्बोध्यते। हे श्रुते त्वं ‘ब्र- ह्मणः’ परमात्मवस्तुनः, ‘श्रोतनी’ श्रवणहेतुभूता, ‘असि’, ब्रह्म- तत्त्वं बोधयसीत्यर्थः। हे मदीये श्रोत्रे, युवां ‘ब्रह्मणः’ वेदस्य, ‘आणी स्थः’ नेतृणी भवथः, वेदं शृणुथ इत्यर्थः। हे मनः, ‘ब्रह्मणः’ वेदस्य, ‘आवपनं’ धारणस्थानं, ‘असि’। ‘इयं’, ‘मही’ महती, ‘पृथिवी’, ‘ब्रह्मणा’ वेदप्रतिपाद्येन परमात्मना, ‘धारिता’। ‘महत्’ प्रौढं, ‘अन्तरिक्षं’, ‘एनेन’† परमात्मना, धारितं। ‘पृथिवीं’
* सलिलस्येति E चिह्नितपुस्तकपाठः।
† एतेनेति D चिह्नितपुस्तकपाठः।
4 A 2