भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 591, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 591

५७८ तैत्तिरीये आरण्यके

पृ॒थि॒वीꣳ सदे॑वां॒ यद॒हं वेद॒ तद॒हं धा॑रयाणि॒ मा म॑द्वेदोऽधि॒ विस्र॑सत्^{(३४)}। ^{(३५)}मे॒धामनी॒षे माऽऽवि॑शताꣳ समीची॑ भू॒तस्य॒ भव्य॒स्याव॑रुद्ध्यै॒ सर्व॒मायु॑रयाणि॒ सर्व॒मायु॑रयाणि^{(३५)}। ^{(३६)}आ॒भिर्गी॒र्भिर्यदतो॑ न॒ जन॒माप्या॑यय हरिवो व॒र्द्धमा॑नः। य॒दा स्तो॒तृभ्यो॒ महि॑ गो॒त्रा

विस्तीर्णां, 'सदेवां' देवसहितां, 'दिवं', 'दाधार' परमात्मा धृतवान्। 'यत्' परमात्मतत्त्वं, तत्प्रतिपादकं वेदवाक्यं वा, 'अहं' यजमानः, 'वेद' जानामि। 'तत्' उभयं, 'अहं', सर्वदा मनसि 'धारयाणि'। स वेदः, 'मत्' मत्तः सकाशात्, 'अधि' आधिक्येन, 'मा विस्रसत्' विस्रस्तो माभूत् ॥

अथ पञ्चत्रिंशं मन्त्रमाह। ^{(३५)}"मेधामनीषे ० सर्वमायुरयाणि"^{(३५)} इति। 'मेधा' धारणशक्तिः, 'मनीषा' ग्रहणशक्तिः, ते उभे 'समीची' अनुकूले सत्यौ, 'मां' यजमानं, 'आविशतां' सर्वतः प्रविशतां। किमर्थं, 'भूतस्य' पूर्वमधीतस्य, 'भव्यस्य' अध्येष्यमाणस्य, च 'अवरुद्ध्यै' स्वीकारार्थं, एतत्सिद्ध्यर्थमेव 'सर्वमायुः', 'अयाणि' प्राप्नवानि। द्विरुक्तिरादरार्था ॥

अथ षट्त्रिंशं मन्त्रमाह। ^{(३६)}"आभिर्गीर्भिर्यदतः ० अध ते स्याम"^{(३६)} इति। हे 'हरिवः' अश्वयुक्तेन्द्र, 'आभिर्गीर्भिः' अस्मदीयस्तुतिभिः, 'वर्द्धमानः', त्वं 'अतः', अस्मात्कर्मणः, 'जनं',