भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 592, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 592

४ प्रपाठके ४२ अनुवाकः । ५७६

रु॒जासि॑ भूयि॑ष्ठ॒भाजो॒ अध॑ ते स्याम^(३६) । ^(३७)ब्रह्म॑ प्रा- वा॑दिष्म॒ तन्नो॒ मा हा॑सीत् । ॐ शान्तिः॒ शान्तिः॒ शा- न्तिः॑^(३७) ॥ ५ ॥

परा॒वत॑:, दधातु, ब॒द्धान्, जिन्वथ, दृ॒शे, सप्त च॑ ॥

अनु० ॥ ४२ ॥

^(१)नम॑:, ^(२)यु॒ञ्जते॑, ^(३)वृष्णो॒ अश्व॑स्य, ^(४)ब्रह्म॑न् प्र- व॒र्येण, ^(५)ब्रह्म॑न् प्रच॑रिष्यामः, ^(६)दश॒ प्राची॑:, ^(७)अ-


अङ्गं, 'नः' अस्मदर्थं, 'आप्यायय' अभिवर्द्धय । 'यदा' यस्मिन् काले, 'स्तोतृभ्यः' स्तोत्रनुग्रहार्थं, 'महि गोत्रा' महतो मेघान्, 'रुजासि' भग्नान् करोषि। 'अध' तदा, वयं 'ते' तव, अनुग्रहात्, 'भूयिष्ठभाजः' 'स्याम' प्रभूतधनानां लब्धारो भूयास्म ॥

अथ सप्तत्रिंशं मन्त्रमाह । ^(३७)“ब्रह्म प्रावादिष्म ० शान्तिः शान्तिः”^(३७) इति। एवमुक्तेन प्रकारेण 'ब्रह्म' परमात्मप्रतिपादक मन्त्रजातं, 'प्रावादिष्म' प्रकर्षेण वयं कथितवन्तः । 'तत्' ब्रह्मतत्त्वं, तस्य प्रतिपादकं वाक्यञ्च, 'नः' अस्मान्, 'मा हासीत्' कदाचि- दपि मा परित्यजतु । हे प्रणवप्रतिपाद्य परमात्मन्, आध्यात्मिकानां ज्वरशिरोव्यथादिकृतानां विघ्नानां 'शान्तिः', अस्तु । आधि- भौतिकानां चोरव्याघ्रादिकृतानां विघ्नानां 'शान्तिः', अस्तु । आ- धिदैविकानां यक्षराक्षसादिकृतानां विघ्नानां 'शान्तिः', अस्तु ॥