तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
४ प्रपाठके ४२ अनुवाकः । ५७६
रु॒जासि॑ भूयि॑ष्ठ॒भाजो॒ अध॑ ते स्याम^(३६) । ^(३७)ब्रह्म॑ प्रा- वा॑दिष्म॒ तन्नो॒ मा हा॑सीत् । ॐ शान्तिः॒ शान्तिः॒ शा- न्तिः॑^(३७) ॥ ५ ॥
परा॒वत॑:, दधातु, ब॒द्धान्, जिन्वथ, दृ॒शे, सप्त च॑ ॥
अनु० ॥ ४२ ॥
^(१)नम॑:, ^(२)यु॒ञ्जते॑, ^(३)वृष्णो॒ अश्व॑स्य, ^(४)ब्रह्म॑न् प्र- व॒र्येण, ^(५)ब्रह्म॑न् प्रच॑रिष्यामः, ^(६)दश॒ प्राची॑:, ^(७)अ-
अङ्गं, 'नः' अस्मदर्थं, 'आप्यायय' अभिवर्द्धय । 'यदा' यस्मिन् काले, 'स्तोतृभ्यः' स्तोत्रनुग्रहार्थं, 'महि गोत्रा' महतो मेघान्, 'रुजासि' भग्नान् करोषि। 'अध' तदा, वयं 'ते' तव, अनुग्रहात्, 'भूयिष्ठभाजः' 'स्याम' प्रभूतधनानां लब्धारो भूयास्म ॥
अथ सप्तत्रिंशं मन्त्रमाह । ^(३७)“ब्रह्म प्रावादिष्म ० शान्तिः शान्तिः”^(३७) इति। एवमुक्तेन प्रकारेण 'ब्रह्म' परमात्मप्रतिपादक मन्त्रजातं, 'प्रावादिष्म' प्रकर्षेण वयं कथितवन्तः । 'तत्' ब्रह्मतत्त्वं, तस्य प्रतिपादकं वाक्यञ्च, 'नः' अस्मान्, 'मा हासीत्' कदाचि- दपि मा परित्यजतु । हे प्रणवप्रतिपाद्य परमात्मन्, आध्यात्मिकानां ज्वरशिरोव्यथादिकृतानां विघ्नानां 'शान्तिः', अस्तु । आधि- भौतिकानां चोरव्याघ्रादिकृतानां विघ्नानां 'शान्तिः', अस्तु । आ- धिदैविकानां यक्षराक्षसादिकृतानां विघ्नानां 'शान्तिः', अस्तु ॥
५८० तैत्तिरीये आरण्यके
प॑श्यं गो॒पां, ⁽८⁾दे॒वस्य॑, ⁽९⁾समु॒द्राय॑, ⁽१०⁾इ॒षे पी॑पिहि, ⁽११⁾घ॒र्म्म या ते॑, ⁽१२⁾म॒हीनां च॒त्वारि॑, ⁽१३⁾अ॒स्कान्, ⁽१४⁾या पु॒रस्ता॑त् स॒प्त सं॒त, ⁽१५⁾प्रा॒णाय॒ त्रीणि॑, ⁽१६⁾पू॒ष्णो च॒त्वारि॑, ⁽१७⁾उ॒दस्य॒ एका॑दश॒, ⁽१८⁾यास्ते॑ स॒प्त, ⁽१९⁾अ॒ग्नि-र्ध्रु॒वः सी॑द॒ एको॑नविंश॒तिः, ⁽२०⁾भूः ऊ॒र्द्ध्वः त्रि॒ꣳशत्, ⁽२१⁾भूः मयि॒ षोड॑श॒, ⁽२२⁾यास्ते॑ घो॒राः नव॑, ⁽२३⁾सि॒क् च॒ अष्टौ॑, ⁽२४⁾धु॒निश्च॒ द्वे, ⁽२५⁾उ॒ग्रश्च॒ त्रीणि॑, ⁽२६⁾अहोरा॒त्रे प॒ञ्च, ⁽२७⁾खट् त्रीणि॑, ⁽२८⁾वि॒गाः स॒प्तद॒श, ⁽२९⁾अ॒स्रं-ङ्मुखः च॒त्वारि॑, ⁽३०⁾यदेतद्धृ॑कसः प॒ञ्च, ⁽३१⁾यदोपितः च॒त्वारि॑, ⁽३२⁾दी॒र्घ॑मुखि॒ त्रीणि॑, ⁽३३⁾इ॒त्या च॒त्वारि॑, ⁽३४⁾यदेतद्भू॒तानि॒ षट्, ⁽३५⁾प्र॒सार्य॑ त्रीणि॑, ⁽३६⁾अ॒र्चिषा॒ दश॑, ⁽३७⁾आ॒ह॒राव॑द्य॒ ⁽३८⁾ब्रह्म॑णा॒ षट् षट्, ⁽३९⁾उ॒त्तुद् अ॒ष्टौ, ⁽४०⁾भूः षट्, ⁽४१⁾पृ॑थि॒वी अ॑ष्ट॒ष॒ष्टिः, ⁽४२⁾शन्न॑ः स॒प्तप॑ञ्चा॒शत् ॥ द्विच॑त्वारि॒ꣳशत् ॥
अथ नमो वाच इत्यारभ्य शन्नो वातः पवतामित्यन्तैरनुवाकैः सम्पाद्यं प्रवर्ग्यं स्तोतुं तस्य प्रवर्ग्यस्य नामानि दर्शयति । “प्रजापतिः सम्भ्रियमाणः । सम्राट् सम्भृतः । घर्मः प्रवृक्तः । महावीर उदासितः । असौ खलु वावैष आदित्यः । यत्प्रवर्ग्यः । स
४ प्रपाठके ४२ अनुवाकः । ५८१
यु॒ञ्जते॒,* ब्रह्म॑न् प्र॒चरि॑ष्यामः, अप॑श्यं गो॒पां, सं- मु॒द्राय॑, वय॒मनु॑क्रामाम, पू॒ष्णे, धु॒निश्च॑, यदे॒तहू॒तानि॑, तच्छं॒केयं॑ अ॒ष्टाशी॑तिः* ॥ ८८ ॥ नमः॑, अनु॑मदन्तु ॥ ॥*॥ ओम् शान्तिः॒ शान्तिः॒ शान्तिः॑॥०॥ हरिः॑ ओम्॥*॥
एतानि नामान्यकुरुत" इति। (५ प्र० । ११ अ० । २ म०)। अस्य प्रवर्ग्यस्य तत्तदवस्थाभेदेन प्रजापत्यादीनि नामानि सम्पद्यन्ते। यदा मृद्वराहविहतवल्मीकवपादिसम्भारैः 'सम्भ्रियमाण'त्व-दशापन्नो भव-
* एतत्परिसङ्ख्याने प्रथमोऽनुवाको न गणितः। युञ्जत इत्यारभ्य दशदशतिपरिगणनया द्वितीयानुवाकस्य पञ्चदशत्या अतिरिक्तनवकण्डिकाः दशतित्वेन परिगणिताः। ब्रह्मन् प्रचरिष्यामः इत्यारभ्य दशदशतो षष्ठानुवाकस्य अतिरिक्तनवकण्डिका दशतित्वेन परिसङ्ख्याताः। अपश्यं गोपा इत्यारभ्य दशदशत्यां अष्टमानुवाकस्य अतिरिक्तनवकण्डिका दशतित्वेन परिगृहीताः। B, G चिह्नितपुस्तकद्वये दशत्याः समष्टिर्ह्यशीतिरेव निर्णीता। J चिह्नितपुस्तकेऽपि तथैव। परन्तु उभयत्र प्रतीकाः विभिन्नाः वर्त्तन्ते।
B, G चिह्नितपुस्तकद्वयस्य दशदशतिप्रतीकाः यथा, नमः, युञ्जते, ब्रह्मन् प्रचरिष्यामः, अपश्यं गोपाः, समुद्राय, वयमनुक्रामाम, पूष्णे, अहोरात्रे, अग्निणा त्वा, आपो जनयथाचन, ह्यशीतिः ॥ ८२ ॥
J चिह्नितपुस्तकस्य दशतिप्रतीकाः यथा, नमः, युञ्जते, ब्रह्मण षट् षट्, उत्तुदाष्टौ, भूः षट्, समुद्राय, वयमनुक्रामाम, पूष्णे, अहोरात्रे, अग्निना त्वा, आपो जनयथाचन, ह्यशीतिः ॥ ८२ ॥
अत्र उभयत्र पाठे दशदशगणनया दशतीनां क्रमेण परिसङ्ख्यानं न कृतं। कुत्रचित् दशदशतिसङ्ख्याया न्यूनाधिकं दृश्यते। अतएव तदुभयविधपाठेऽशुद्ध इति अनुमीयते।
५८२ तैत्तिरीये आरण्यके
ति, तदा 'प्रजापतिः', इत्येवास्य नाम। सर्वात्मना सम्भूतलदशापन्नस्य 'सम्राट्', इति नाम। प्रवृञ्जनदशापन्नस्य 'घर्म्मः', इति नाम। उद्वासनदशापन्नस्य 'महावीरः', इति नाम। एताभिर्दशाभिः अवस्थावत् 'यत्' स्वरूपं, तेन रूपेण 'आदित्यः', इति नाम। सः 'प्रवर्ग्य', एवं 'एतानि' 'नामानि', 'अकुरुत', सम्पादितवान्॥
नामवेदनं प्रशंसति। “य एवं वेद। विदुरेनं नाम्ना” इति। (५ प्र०।११ अ०।२ म०)। देवदत्तोपाध्याय इत्येवं तदीयं नाम सर्वैः ज्ञातं भवति॥
अथ नामविशेषव्यवहारप्रदर्शनेन प्रशंसति। “ब्रह्मवादिनो वदन्ति॥१॥ यो वै वसीयाᳪसं यथानाममुपचरति। पुष्यार्त्तिं वै स तस्मै कामयते। पुष्यार्त्तिमस्मै कामयन्ते। यः एवं वेद। तस्मादेवं विद्वान्। घर्म इति दिवाऽऽचक्षीत। सम्राडिति नक्तं। एते वा एतस्य प्रिये तन्वौ। एते अस्य प्रिये नामनी। प्रिययैवैनं तनुवा॥२॥ प्रियेण नाम्ना समर्द्धयति। कीर्त्तिरस्य पूर्वा गच्छति जनतामायतः” इति। (५ प्र०।११ अ०।३ म०)। 'यो वै' यः कोऽपि पुमान् भृत्यः, 'वसीयाᳪसं' अतिशयेन वसुमन्तं धनिकं राजानममात्यादिकं वा, 'यथानामं' तदीयं नामानतिक्रम्य नामकरणकाले सम्पादितेनैव नाम्ना, 'उपचरति' अधिपते स्वामिन्नित्यादिशब्दैर्विना भो देवदत्तेत्यादिकेनैव मुख्येन नाम्ना तमाह्वयति, 'सः' भृत्यः, 'तस्मै' धनिकाय, 'पुष्यार्त्तिं वै' भाग्यहानिमेव, 'कामयते', उत्तमोपचारयोग्ये नीचव्यवहारात्। अथवा 'सः' धनिको राजादिः, 'तस्मै' स्वाभाविकनाम्ना व्यवहरते भृत्याय,
४ प्रपाठके ४२ अनुवाकः। ५८३
'पुष्यार्त्तिं' धनादिहानिं, 'कामयते' दण्डयितुमिच्छति। न केवलं राजादिरेव किन्तु 'यः' मूढः, 'एवं वेद' स्वाभाविकनाम्नैव व्यवहारं निश्चिनोति, 'अस्मै' मूढाय, राजादिप्रभुपरिसरवर्त्तिनः सर्वेऽपि पुरुषाः 'पुष्यार्त्तिं' ताडनधनहान्यादिकं, 'कामयन्ते', एवं 'ब्रह्मवादिनः', आहुः। यस्मादेवं 'तस्मात्', 'एवं विद्वान्' नामान्तरेणैव प्रभुर्व्यवहरणीय इत्येवं जानन् पुरुषः, प्रवर्ग्यं प्रत्यहनि 'घर्म इति', नाम्ना व्यवहरेत्, रात्रौ तु 'सम्राट्', 'इति', नाम्ना। तत्र घर्मशब्देनोच्यमाना दीप्यमाना या तनूः, सम्राट्शब्देनोच्यमाना सम्यग्राजमाना या तनूः, 'एते' उभे अपि, 'एतस्य' प्रवर्ग्यस्य, 'प्रिये', शरीरे, 'एते' घर्मसम्राट्शब्दरूपे, 'अस्य' प्रवर्ग्यस्य, 'प्रिये', 'नामनी'। तस्मादेताभ्यां शब्दाभ्यां व्यवहरन् पुरुषः 'प्रिययैव', 'तनुवा' देवादिरूपेण, 'प्रियेण', च 'नाम्ना', तच्छरीरोचितेनैव, प्रवर्ग्यं समृद्धं करोति। तथा सति 'जनतामायतः' जनसमूहं सभां प्रति आगच्छतः, 'अस्य' घर्मादिनामभिर्व्यवहारिणः पुरुषस्य, 'कीर्त्तिः', 'पूर्वा' अस्मादपि पुरुषात् पूर्वभाविनी, 'गच्छति'। अस्य पुरुषस्यागमनात्प्रागेव सर्वेऽपि सभानिष्ठा जना रुचिताभिज्ञोऽयं महात्मेत्येवं 'एनं',* प्रशंसन्ति॥
घर्मादिनामविशेषद्वारा प्रवर्ग्यस्य प्रशंसां कृत्वा गायत्रीच्छन्दोगतसङ्ख्यासाम्येनापि प्रशंसति। “गायत्री देवेभ्योऽपाक्रामत्। तां देवाः प्रवर्ग्येणैवानुव्यभवन्। प्रवर्ग्येणाप्नुवन्। यच्चतुर्विꣳशतिः कृत्वः प्रवर्ग्यं प्रवृणक्ति। गायत्रीमेव तदनु विभवति। गायत्रीमा-
* महानित्येवमेनमिति D चिह्नितपुस्तकपाठः 4 B
५८४ तैत्तिरीये आरण्यके
प्रोति । पूर्वाऽस्य जनं यतः कीर्त्तिर्गच्छति" इति । (५ प्र० । ११ अ० । ४ म०) । पुरा कदाचिदपरक्ता सती 'गायत्री', देवी, 'देवेभ्यः', सकाशात्, 'अपाक्रामत्' । तदा 'देवाः', प्रवर्ग्यमनुष्ठाय तेन 'एव', 'प्रवर्येण', 'तां' गायत्रीं, 'अनुव्यभवन्' अन्वेष्टुं विभवः समर्थाः अभवन् । अन्विष्य च तेन 'प्रवर्येण', 'तां' गायत्रीं, 'प्राप्नुवन्' । अतो यदि द्वादशसु दिनेष्वेकैकस्मिन् दिने द्विरित्येवं 'चतुर्विंशतिकृत्वः', 'प्रवर्ग्यं', अनुतिष्ठेत्, 'तत्' तदा, 'गायत्रीमेव', 'अनु'गन्तुं समर्थो भवति । चतुर्विंशतिसङ्ख्याया गायत्र्यक्षरनिष्ठत्वात् । अतः सङ्ख्या- सामान्यात् 'गायत्रीं', 'प्राप्नोति' । 'जनं यतः' सभां गच्छतः, 'अस्य' चतुर्विंशतिवारं प्रवर्ग्यानुष्ठायिनः पुरुषस्य, 'कीर्त्तिः', तस्मा- दपि पूर्वभाविनी सती सभां प्राप्नोति ॥
पुनरपि प्रकारान्तरेणावस्थाविशेषगतैर्नामभिः प्रशंसति । "वैश्वदेवः सँसन्नः ॥३॥ वसवः प्रवृक्तः । सोमोऽभिकीर्य्यमाणः । आश्विनः पयस्यानीयमाने । मारुतः कथन् । पौष्ण उदन्तः । सारस्वतो विष्यन्दमानः । मैत्रः शरो गृहीतः । तेज उद्यतो वायुः । ह्रियमाणः प्रजापतिः । हूयमानो वाग्धुतः ॥४॥ असौ खलु वावैष आदित्यः । यत्प्रवर्ग्यः । स एतानि नामान्यकुरुत" इति । (५ प्र० । ११ अ० । ५ म०) । 'संसन्नः' सम्यगासादनदशां प्राप्तो यः प्रवर्ग्यः, तस्य 'वैश्वदेवः', इति नाम, तेन हि विश्वेदेवास्तुष्य- न्ति । प्रवृञ्जनदशापन्नस्य 'वसवः', इति नाम, वसूनां प्रीतिहेतु- त्वात् । प्रवृञ्जने सति पात्रस्यान्तरे इतस्ततश्चलनमभिकीर्य्यमाणत्वं तद्दशापन्नस्य 'सोमः', इति नाम, तत्प्रीतिहेतुत्वात् । आनीयमान-
| ४ प्रपाठके ४२ अनुवाकः | ५८५ |
|---|
क्षीरदशापन्नस्य ‘आश्विनः’, इति नाम, तेन हि अश्विनौ तृप्यतः । पयसा सह क्वथनदशापन्नस्य ‘मारुतः’, इति नाम । पात्रस्यान्त- पर्यन्तमुद्गमनं ‘उदन्तः’, तदवस्थापन्नस्य ‘पौष्णः’, इति नाम । पात्रादप्युन्नतत्वं ‘विष्यन्दनं’,* तद्दशापन्नस्य ‘सारस्वतः’, इति नाम । पचनबाहुल्येन घनीभाववत् प्रतीयमानः ‘शरः’, शराकारग्रहण- दशापन्नस्य ‘मैत्रः’, इति नाम । शफाभ्यां खरादुद्यमनदशापन्नस्य ‘तेजः’, इति नाम । • आहवनीयं प्रति ह्रियमाणत्वदशापन्नस्य ‘वायुः’, इति नाम । आहवनीये हूयमानत्वदशापन्नस्य ‘प्रजा- पतिः’, इति नाम । हुतत्वदशापन्नस्य ‘वाक्’, इति नाम । एता- भिर्दशाभिरवस्थावान् यः ‘प्रवर्ग्यः’, तस्य ‘आदित्यः’, इति नाम । ‘सः’, प्रवर्ग्यः, एवं तत्तद्देवताप्रीतिहेतुत्वात् स्वस्य ‘एतानि’, ‘ना- मानि’, ‘अकुरुत’ सम्पादितवान् ॥
नामवेदनं प्रशंसति । “य एवं वेद । विदुरेनं नाम्ना” इति । (५ प्र० । ११ अनु० । ६ म०) ॥
अथ प्रश्नोत्तराभ्यां मृण्मयस्य महावीरस्य होमसाधनत्वमुपपा- दयति । “ब्रह्मवादिनो वदन्ति । यन्मृण्मयमाहुतिं नाश्नुतेऽथ । कस्मादेषोऽश्नुत इति । वागेष इति ब्रूयात् । वाचैव वाचं दधाति ॥ ५ ॥ तस्मादश्नुते” इति । (५ प्र० । ११ अनु० । ७ म०) । दारुमयस्य होमसाधनत्वं सर्वत्र दृष्टं नतु क्वचिदपि मृण्मयस्य । अतएव साकम्प्रस्थायीयप्रकरणे समाम्नायते । दारुपात्रेण जुहोति
* निष्यन्दनमिति D चिह्नितपुस्तकपाठः । परिष्यन्दनमिति E चिह्नितपुस्तकपाठः ।
4 B 2
५८६ तैत्तिरीये आरण्यके
नहि मृण्मयमाहुतिमानशे इति । एवं सत्यत्र कस्मात्कारणादेव महावीर आहुतिसाधनत्वं प्राप्नोतीति ब्रह्मवादिनां प्रश्नः । तत्राभिज्ञः पुरुषो ‘वागेषः’, ‘इति’, उत्तरं ‘ब्रूयात्’ । ‘एषः’ महावीरः, मन्त्रैर्निष्पादितत्वात् वागात्मकः । अतोऽनेन होमे सति वाचो मन्त्रनिष्पन्ने महावीरे ‘एव’, ‘वाचं’ मन्त्रनिष्पादितामाहुतिं, सम्पादयति । ‘तस्मात्’ कारणात्, मृण्मयोऽप्ययं महावीर आहुतिमर्हति ॥
प्रकारान्तरेण द्वादशधाविभागमुपजीव्य प्रशंसति । “प्रजापतिर्वा एष द्वादशधा विहितः । यत्प्रवर्ग्यः । यत्प्रागवकाशेभ्यः । तेन प्रजा असृज । अवकाशैर्देवासुरानसृजत । यदूर्ध्वमवकाशेभ्यः । तेनान्नमसृजत । अन्नं प्रजापतिः । प्रजापतिर्वावैषः ॥ ६ ॥” इति । (५ प्र० । ११ अ० । ७ म०) । यः अयं ‘प्रवर्ग्यः’, सः ‘एषः’, ‘द्वादशधा’, विभक्तः, ‘प्रजापतिः’ एव । तत्कथमिति तदुच्यते । अवकाशमन्त्रेभ्यः प्राचीनो यो भागः ‘तेन’ भागेन, प्रजापतिः ‘प्रजाः’, सृष्टवान् । अपश्यं गोपामित्यनुवाके समाम्नाता दश मन्त्रा अवकाशनामकाः । एतच्च* तद्ब्राह्मणे समाम्नातं । नवैतेऽवकाशा भवन्ति, पत्नियै दशम इति । नमो युञ्जत इत्यादिभिः षड्भिरनुवाकैरूक्तो मन्त्रसमूहः अवकाशेभ्यः प्राचीनो भागः तेन प्रजासृष्टिः । ‘अवकाशाख्यैस्तु दशभिर्मन्त्रैः ‘देवासुरान्’, ‘असृजत’ । देवस्य त्वा सवितु प्रसवे इत्यादिकः ‘अवकाशेभ्यः’, ‘ऊर्ध्वः’, मन्त्रभागः, ‘तेन’, प्रजापतिः ‘अन्नं’, ‘असृजत’ । एवं पूर्वोत्तरभागौ द्वौ, मध्यदेशः अवकाशः,
* ततश्च इति D चिह्नितपुस्तकपाठः ।
४ प्रपाठके १२ अनुवाकः । ५८१
इतिद्वादशप्रकारे मन्त्रसङ्घः प्रजापतिस्वरूपः । 'अन्नं', च प्रजा- पतिसृष्टत्वात् प्रजापतिरूपम् । तादृशः 'प्रजापतिः', एव 'एषः' प्रवर्ग्यरूपः । एवमस्य प्रशस्तत्वं द्रष्टव्यं ॥
वदन्ति, तनुवा, सꣳसन्नः, ह्रयमानो वाग्घृतः, दधाति, एषः, ॥ अनु०॥ ११ ॥
इति पञ्चमप्रपाठके एकादशोऽनुवाकः ॥
अथ दिनविशेषेषु फलविशेषकथनेन प्रवर्ग्यं प्रशंसति । “सविता भूत्वा प्रथमेऽहन् प्रवृज्यते । तेन कामान् एति । यद् द्वितीयेऽहन् प्रवृज्यते । अग्निर्भूत्वा देवानेति । यत्तृतीयेऽहन् प्रवृ- ज्यते । वायुर्भूत्वा प्राणानैति । यच्चतुर्थेऽहन् प्रवृज्यते । आदित्यो भूत्वा रश्मीनेति । यत्पञ्चमेऽहन् प्रवृज्यते । चन्द्रमा भूत्वा नक्ष- त्राण्येति ॥१॥ यत् षष्ठेऽहन् प्रवृज्यते । ऋतुर्भूत्वा संवत्सरमेति । यत्सप्तमेऽहन् प्रवृज्यते । धाता भूत्वा शक्वरीरेति । यदष्टमेऽहन् प्रवृज्यते । बृहस्पतिर्भूत्वा गायत्रीमेति । यन्नवमेऽहन् प्रवृज्यते । मित्रो भूत्वा विशत इमांल्लोकानेति । यद्दशमेऽहन् प्रवृज्यते । वरुणो भूत्वा विराजमेति ॥२॥ यदेकादशेऽहन् प्रवृज्यते । इन्द्रो भूत्वा त्रिष्टुभमेति । यद् द्वादशेऽहन् प्रवृज्यते । सोमो भूत्वा सुत्या- मेति” इति । (५ प्र०। १२ अ०। १ म०) । प्रथमे दिवसे 'प्रवृज्यते', इति यत् 'तेन', अनुष्ठानेन, अयं 'सवितृदेवः 'भूत्वा', 'कामान्', प्राप्नोति । एवमुत्तरेष्वपि वाक्येषु योजनीयं ॥
द्वादशदिनानुष्ठानं प्रशस्य उपसद्भ्यः प्राचीनप्रतीचीनकालानु-
५८८ तैत्तिरीये आरण्यके
द्वादशदिनानुष्ठानं प्रशस्य उपसद्भ्यः प्राचीनप्रतीचीनकालानु- ष्ठाने* प्रशंसति। “यत् पुरस्तादुपसदां प्रवृज्यते। तस्मादितः पराङ्- मूँल्लोकाँ स्तपन्नेति। यदुपरिष्टादुपसदां प्रवृज्यते। तस्मादमुतोऽ- र्वाङिँमाँल्लोकाँ स्तपन्नेति” इति। (५ प्र० । १२ अ० । २ म०)। प्रवर्ग्यः आदित्यस्वरूपः, उपसदः लोकस्वरूपाः, तथा सति प्रतिदिनं प्रव- र्ग्यानुष्ठानाय पश्चादुपसदानुष्ठानादादित्योऽधोभागवर्त्ती ‘पराङ्’ ऊर्ध्वाभिमुखः सन्, ‘इतः’, अपि उपरितनान् ‘अमून्’ स्व- र्गादिलोकान्, ‘तपन्नेति’ प्रकाशयन् सञ्चरति । तथा पूर्व्वपूर्व्व- दिनगतेभ्यः उपसद्भ्यः उत्तरोत्तरदिनगतः प्रवर्ग्यः ‘उपरिष्टात्’, वर्त्तते । ‘तस्मात्’, असावादित्य ऊर्ध्वलोकवर्त्ती सन् ‘अमुतोऽर्वाङ्’ स्वर्गलोकादधोमुखो भूत्वा, ‘इमान्’ भूरादीन् लोकान्, प्रकाशयन् सञ्चरति ॥
वेदनं प्रशंसति। “य एवं वेद। एव तपति ॥ ३ ॥” इति। (५ प्र० । १२ अ० । ३ म०)। ‘यः’ पुमान्, ‘एवं’ उक्तेन प्रकारेण, प्रवर्ग्यस्या- धस्तादुपरिष्टाच्चावस्थानं जानाति सोऽयं सर्व्वतः प्रकाशितः ‘एव’। तदेवं ब्राह्मणगताभ्यां एकादशद्वादशानुवाकगताभ्यां त्रिचत्वारिं- शदनुवाकोक्तमन्त्रैरनुष्ठेयः प्रवर्ग्यः प्रशस्तः ॥
नक्षत्राण्येति, विराजमेति, तपति ॥ अनु० ॥ १२ ॥
इति पञ्चमप्रपाठके द्वादशोऽनुवाकः ॥
* प्राचीनकालानुष्ठानमिति E चिह्नितपुस्तकपाठः ।
चतुर्थपञ्चमाभ्यां प्रपाठकाभ्यां प्रपञ्चितः ।
४ प्रपाठके ४२ अनुवाकः । ५८६
चतुर्थपञ्चमाभ्यां प्रपाठकाभ्यां प्रपञ्चितः ।
मन्त्रब्राह्मणरूपाभ्यां प्रवर्ग्योऽयमशेषतः ॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरार-
ण्यके चतुर्थप्रपाठके द्विचत्वारिंशोऽनुवाकः ॥ ४२ ॥
समाप्तश्चतुर्थप्रपाठकः ॥
तद्व्याख्यानरूपेण पञ्चमप्रपाठकोऽपि समाप्तः ॥
पञ्चमप्रपाठके प्रथमोऽनुवाकः ।
तैत्तिरीये आरण्यके
पञ्चमप्रपाठके प्रथमोऽनुवाकः ।
श्ननस्तन्नो॒ माहा॑सीत् । ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ । ओम् ।
^(१)दे॒वा वै स॒त्रमा॑सत । ऋ॒द्धिप॑रिमितं॒ यश॑स्कामाः । तेऽब्रु॑वन् । यन्नः॒ प्रथमं॒ यश॑ ऋ॒च्छात् । सर्वे॑षान्नस्तत्स॒हास॒दिति॑ । तेषां॑ कुरुक्षे॒त्रं वेदि॑रासीत् । तस्यै॑ खाण्ड॒वो दक्षि॑णार्द्ध आसीत् । तूर्घ्न॒मुत्त॑रार्द्धः । परि॑णज्ज॑घनार्द्धः । मरव॑ उत्क॒रः ॥ १ ॥
तेषां॑ म॒खं वैष्ण॒वं यश॒ आर्छ॑त्^(१) । ^(२)तन् न्य॑कामयत । तेनापा॑क्रामत् । तं दे॒वा अ॑न्वा॒यन् । यशो॑ऽवरु॑त्समानाः । तस्यान्वा॑गतस्य । स॒व्याद्धनु॒रजायत । दक्षि॑णादिष॑वः । तस्मा॑दि॒षुधन्वं॑ पु॒ण्यंज॑न्म । य॒ज्ञज॑न्मा हि ॥ २ ॥
तमेकँ॑ सन्तं॑ । ब॒ह्वो नाभ्य॑धृष्णुवन् । तस्मादेक॑मिषुध॒न्विनं॑ । ब॒ह्वो॑ऽनिषुध॒न्वा नाभिधृ॑ष्णुवन्ति^(२) । ^(३)सो॑ऽस्मयत । एकं॑ मा॒ सन्तं॒ बह॑वो॒ नाभ्य॑धर्षिषुरिति॑ ।
१ एतन्मन्त्रस्य भाष्यं ३७१ पृष्ठे द्रष्टव्यं ।
२ ,, ३७२ ,,
३ ,, ३७३ ,,
५ प्रपाठके १ अनुवाकः । ५६१
तस्य॑ सिस्रिषाण॒स्य तेजोऽपा॑क्रामत् । तद्दे॒वा ओष॑धीषु न्य॑मृजुः । ते श्या॒माका॑ अभवन् । स्मा॒का वै नामै॒- ते ॥ ३ ॥
तत् स्माया॑कानां स्मायाक॒त्वं । तस्मा॑द्दीक्षि॒तेनापि॒ गृह्यं॑ स्मेत॒व्यं॑ । तेज॑सो धृत्यै॑ ^{(३)} । ^{(४)}स धनुः प्रतिष्कभ्या॑ऽ- तिष्ठत् । ता उप॑दीका॑ अब्रुवन् वरं॑ वृणामहै । अथ॑ व इमं॒ रन्ध्याम । यत्र॒ क्व॑ च खनाम॑ । तद॒पोऽभितृ॑ण- दामेति॑ । तस्मा॑दु॒प॑दीका यत्र॒ क्व॑ च॒ खन॑न्ति । तद॒पो- ऽभितृ॑न्दन्ति ॥ ४ ॥
वारं॑ वृतं॒ ह्या॑सां । तस्य॒ ज्यामप्या॑दन् । तस्य॒ धनु॑- र्विप्रथ॑माणं॒ शिर॒ उद॑वर्त्तयत् । तद् द्यावा॑पृथिवी अनु॑- प्राव॑र्त्तत । यत् प्राव॑र्त्तत । तत् प्र॒वर्ग्य॑स्य प्रव॒र्ग्यत्वं॑ । यद्द्वा॒३ इत्यप॑तत् । तद्ध॒र्मस्य॑ घर्म॒त्वं । म॒हतो वी॒र्यमप॑त्तदि- ति॑ । तन्म॑हावी॒रस्य॑ महावी॒र॒त्वं ॥ ५ ॥
यद॒स्याः सम॒भरन् । तत् स॒म्राज्ञः सम्रा॒टत्वं ^{(४)} । ^{(५)}तं स्तुतं दे॒वता॑स्त्रेधा व्य॑गृह्णत । अ॒ग्निः प्रा॒तःस॒व- नं । इन्द्रो॒ माध्य॑न्दिनं॒ सव॑नं । विश्वे॑ दे॒वास्तृतीय-
३ एतन्मन्त्रस्य भाष्यं ३७३ पृष्ठे द्रष्टव्यं ।
४ ,, ३७४ ,,
५ ,, ३७६ ,,
4 c
५६२ तैत्तिरीय आरण्यके
सव॑नं । तेनाप॑शीर्ष्णा य॒ज्ञेन॒ यज॑मानाः । नाशिषो॒ऽवारुन्धत । न सु॑व॒र्गं लो॒कम॒भ्य॑जयन्^(५) । ^(६)ते दे॒वा अ॒श्विना॑वब्रुवन् ॥ ६ ॥
भि॒षजौ॒ वै स्थ॑ः । इ॒दं य॒ज्ञस्य॒ शिरः॒ प्रति॑धत्तमिति॑ । तावे॑ब्रूतां॒ वरं॑ वृणावहै । ग्र॒ह एव ना॑व॒त्रापि॑ गृह्यता॒मिति॑ । ताभ्या॑मे॒तमा॑श्वि॒नम॑गृह्णन् । तावे॒तद्य॒ज्ञस्य॒ शिरः॒ प्रत्य॑धत्तां^(६) । ^(७)यत्प्र॑व॒र्ग्यः॑ । तेन॑ सश॒ीर्ष्णा य॒ज्ञेन॒ यज॑मानाः । अवा॑शिषो॒ऽरुन्धत । अ॒भि सु॑व॒र्गं लो॒कम॑जयन्* ॥ यत्प्र॑व॒र्ग्यं प्र॒वृण॒क्ति॑ । य॒ज्ञस्यै॑व तच्छिरः॒ प्रति॑दधाति । तेन॒ सशी॑र्ष्णा य॒ज्ञेन॒ यज॑मानः । अवा॒शिषो॑ रुन्धे । अ॒भि सु॑व॒र्गं लो॒कं ज॑यति । तस्मा॑दे॒ष आ॑श्विनप्र॑वया इव । यत्प्र॑व॒र्ग्यः॑^(७) ॥ ७ ॥
उ॒त्क॒रः(१), हि(२), एं॒ते(३), तृ॑न्दन्ति(४), महावी॒र॒त्वम्(५), अ॑ब्रुवन्(६), अजयन्, स॒प्त च॑(७) ॥ अनु० १ ॥
६ एतन्मन्त्रस्य भाष्यं ३७७ पृष्ठे द्रष्टव्यं ।
७ ,, ३७८ ,,
* अभ्यजयन्निति A चिह्नितपुस्तकपाठः ।
५ प्रपाठके २ अनुवाकः । ५६३
अथ द्वितीयोऽनुवाकः ।
(१)सा॒वि॒त्रं जु॑होति प्रसूतयै॑ । च॒तुर्गृ॑हीतेन जुहोति ।
चतु॑ष्पादः प॒शवः॑ । प॒शूने॒वाव॑रुन्द्धे । चत॑स्रो॒ दिशः॑ ।
दिक्ष्वे॒व प्रति॑तिष्ठति^(१) । ^(२)छन्दाँ॑सि दे॒वेभ्योऽपा॑क्रामन् ।
न वो॑ भागा॒नि ह॒व्यं व॑क्ष्याम॒ इति॑ । तेभ्य॑ ए॒तच्च॑तुर्गृहीत-
म॑धारयन् । पु॒रोऽनु॒वाक्या॑यै या॒ज्या॑यै ॥ १ ॥
दे॒वता॑यै वषट्का॒राय॑ । यच्च॑तुर्गृहीतं जु॒होति॑ ।
छन्दाँ॑स्येव तत् प्री॑णाति । तान्य॑स्य प्री॒तानि॑ दे॒वेभ्यो॑
ह॒व्यं वह॑न्ति^(२) । ^(३)ब्रह्म॑वा॒दिनो॑ वदन्ति । होत॒व्य॑न्दी-
क्षि॒तस्य॑ गृहा३ इन् हौत॒व्या३मिति॑ । ह॒विर्वै दी॑क्षि॒तः ।
यज्जु॑हु॒यात् । ह॒विष्कृतं यज॑मानम॒ग्नौ प्रद॑ध्यात् । यन्न
जु॑हु॒यात्^(३) ॥ २ ॥
^(४)य॒ज्ञप॑रु॒रन्त॑रियात् । यजु॑रेव व॑देत् । न ह॒विष्कृतं
यज॑मानम॒ग्नौ प्रद॑धाति । न य॒ज्ञप॑रु॒रन्त॒रेति॑^(४) । ^(५)गा॒-
| १ | एतन्मन्त्रस्य भाष्यं | ३७८ | पृष्ठे द्रष्टव्यं |
|---|---|---|---|
| २ | " | ३७६ | " |
| ३ | " | ३८० | " |
| ४ | " | ३८० | " |
| ५ | " | ३८१ | " |
4 c 2
५६४ तैत्तिरीये आरण्यके
य॒ची छन्दा॑ꣳ॒स्यत्य॑मन्यत । तस्यै॒ वष॑ट्का॒रोऽभ्य॑स्य॒ शि- रो॑ऽच्छिनत् । तस्यै॑ द्वे॒धा रसः॒ परा॑पतत् । पृ॒थि॒वीमर्धः॑ प्रावि॑शत् । प॒शून॒र्धः । यः पृ॑थि॒वीं प्रावि॑शत् ॥ ३ ॥
स ख॑दि॒रोऽभ॑वत् । यः प॒शून् । सोऽजा॑ । यत् खा॑दि॒र्य्यभ्रिर्भव॑ति । छन्द॑सामे॒व रसे॑न य॒ज्ञस्य॒ शिरः॑ सम्भर॑ति <sup>५)</sup> । <sup>(६)</sup>यदौदु॑म्बरी । ऊ॒र्ग्वा उ॑दु॒म्बरः॑ । ऊ॒र्जैव य॒ज्ञस्य॒ शिरः॑ सम्भर॑ति । यद्वै॑ण॒वी । तेजो॒ वै वे॒णुः ॥ ४ ॥
तेज॑सैव य॒ज्ञस्य॒ शिरः॑ सम्भर॑ति । यद्वै॑कङ्क॒ती । भा ए॒वाव॑रुन्धे <sup>(६)</sup> । <sup>(७)</sup>दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्य॒भ्रि- माद॑त्ते प्रसू॑त्यै । अ॒श्विनो॑र्बा॒हुभ्या॒मित्या॑ह । अ॒श्विनौ॑ हि दे॒वाना॑म॒ध्वर्यू आस्ता॑म् । पू॒ष्णो हस्ता॑भ्या॒मित्या॑ह यत्यै॑ <sup>(७)</sup> । <sup>(८)</sup>वज्र॑ इव॒ वा ए॒षा । यद॒भ्रिः । अ॒भिर॑सि॒ नारि॑रसीत्या॑ह॒ शान्त्यै॑ <sup>(८)</sup> ॥ ५ ॥
<sup>(९)</sup>अ॒ध्व॒र॒क्लृप्त्यै॑ दे॒वेभ्य॒ इत्या॑ह । य॒ज्ञो वा अ॑ध्व॒रः । य॒ज्ञ- क्लृप्त्यै॑ दे॒वेभ्य॒ इति॒ वावैतदा॑ह <sup>(९)</sup> । <sup>(१०)</sup>उत्ति॑ष्ठ ब्रह्मणस्पत॒
| ६ | एतन्मन्त्रस्य भाष्यं | ३८२ | पृष्ठे द्रष्टव्यं । |
|---|---|---|---|
| ७ | ,, | ३८२ | ,, |
| ८ | ,, | ३८३ | ,, |
| ९ | ,, | ३८३ | ,, |
| १० | ,, | ३८४ | ,, |
५ प्रपाठके २ अनुवाकः। ५६५
इत्या॑ह॒। ब्रह्म॑णै॒व य॒ज्ञस्य॒ शिरोऽच्छैति॑^{(१०)}। ^{(११)}प्रैतु॒ ब्रह्म॑- ण॒स्पति॒रित्या॑ह। प्रेत्यै॒व य॒ज्ञस्य॒ शिरोऽच्छैति॑^{(११)}। ^{(१२)}प्र- दे॒व्ये॑तु सू॒नृतेत्या॑ह। य॒ज्ञो वै सू॒नृता॑^{(१२)}। ^{(१३)}अच्छो॑ वी॒रन्व॑र्यं प॒ङ्क्तिरा॑धस॒मित्या॑ह ॥ ६ ॥ पा॒ङ्क्तो हि य॒ज्ञः^{(१३)}। ^{(१४)}दे॒वा य॒ज्ञं न॑यन्तु न॒ इत्या॑ह। दे॒वाने॒व य॒ज्ञनियः॑ कुरुते^{(१४)}। ^{(१५)}देवी॒ द्यावा॑पृथिवी॒ अनु॑ मेमँसाथामित्या॑ह। आ॒भ्यामे॒वानु॑मतो य॒ज्ञस्य॒ शिरः॒ सम्भ॑रति^{(१५)}। ^{(१६)}ऋ॒द्द्यास॑म॒द्य म॒खस्य॒ शिर॒ इत्या॑ह। य॒ज्ञो वै म॒खः। ऋ॒द्द्यास॑म॒द्य य॒ज्ञस्य॒ शिर॒ इति॒ वावैत- दा॑ह^{(१६)}। ^{(१७)}म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णा इत्या॑ह। नि॒र्दिश्यै॒वैन॑द्धरति^{(१७)} ॥ ७ ॥ ^{(१८)}त्रिर्ह॑रति। त्रयो॑ वा इ॒मे लो॒काः। एभ्य ए॒व लो॒केभ्यो॑ य॒ज्ञस्य॒ शिरः॒ सम्भ॑रति। तूष्णीं च॑तु॒र्थँ हर॑ति। अ॒प- रि॑मितादे॒व य॒ज्ञस्य॒ शिरः॒ सम्भ॑रति^{(१८)}। ^{(१९)}मृ॒त्खनाद-
| ११ | एतन्मन्त्रस्य भाष्यं | ३८५ | पृष्ठे द्रष्टव्यं । |
|---|---|---|---|
| १२ | ,, | ३८५ | ,, |
| १३ | ,, | ३८५ | ,, |
| १४ | ,, | ३८५ | ,, |
| १५ | ,, | ३८५ | ,, |
| १६ | ,, | ३८६ | ,, |
| १७ | ,, | ३८६ | ,, |
| १८ | ,, | ३८६ | ,, |
| ५६६ | तैत्तिरीये आरण्यके |
|---|
ग्रैं हरति । तस्मा॑न् मृत्खनः॑ क॑रुण्ड॑तमः^(१६)। ^(२०)इ॒यत्यग्र॑
आसी॒रित्या॑ह । अ॒स्यामे॒वाच्छं॑वट्का॒रं* य॒ज्ञस्य॒ शिरः॑
सम्भ॑रति^(२०) । ^(२१)ऊर्जं॑ वा ए॒तः॑ रसं॑ पृथि॒व्या उ॑पदी-
का॒ उद्दि॑हन्ति ॥ ८ ॥
यद्व॑ल्मी॒कं । यद्व॑ल्मीकव॒पास॑म्भा॒रो भर्व॑ति । ऊर्ज॑-
मे॒व रसं॑ पृथि॒व्या अव॑रुन्थे । अथो॒ श्रोत्र॑मेव । श्रोत्रँ॑
ह्ये॑तत् पृ॑थि॒व्याः । यद्व॑ल्मीकः॑^(२१) । ^(२२)अब॑धिरो भवति ।
य ए॒वं वेद॑^(२२) । ^(२३)इन्द्रो॑ वृ॒त्राय॒ वज्र॒मुद॑यच्छत् । स
यच॑ यच॒ परा॑क्रमत ॥ ९ ॥
तन्नाध्रि॑यत । स पू॑तीकस्त॒म्बे परा॑क्रमत । सो॑ऽध्रि-
यत । सो॑ऽब्रवीत् । ऊ॒तिं वै मे॑धा॒ इति॑ । तद्पूतीका॑नामूती-
क॒त्वं । यद्पूतीका॒ भव॑न्ति । य॒ज्ञायै॒वोतिं द॑धति^(२३) । ^(२४)
अ॒भ्रिजा॒ असि॑ प्र॒जाप॑ते॒ रेत॒ इत्या॑ह । य ए॒व रसः॑
प॒शून् प्रावि॑शत् ॥ १० ॥
| सं. | सन्दर्भ | पृष्ठ | टिप्पणी |
|---|---|---|---|
| १६ | एतन्मन्त्रस्य भाष्यं | ३८७ पृष्ठे | द्रष्टव्यं । |
| २० | ,, | ३८८ | ,, |
| २१ | ,, | ३८६ | ,, |
| २२ | ,, | ३८६ | ,, |
| २३ | ,, | ३८६ | ,, |
| २४ | ,, | ३९१ | ,, |
* अच्छंवषट्कारमिति J चिह्नितपुस्तकपाठः ।
५ प्रपाठके २ अनुवाकः । ५९७
तमे॒वाव॑रुन्धे^(२४) । ^(२५)पञ्चै॒ते सं॒भारा॑ भवन्ति । पाङ्क्तो॑ य॒ज्ञः । यावा॑ने॒व य॒ज्ञः । तस्य॒ शिरः॒ संभ॑रति^(२५) । ^(२६)यद् ग्रा॒म्याणां॑ प॒शूनां॒ चर्म॑णा॒ संभ॑रेत् । ग्राम्यान् प॒शूञ्छुचा॒ऽर्प॑येत् । कृ॒ष्णा॒जि॒नेन॒ संभ॑रति । आ॒र॒ण्याने॒व प॒शूञ्छुचा॒ऽर्प॑यति । तस्मा॑त् समा॒वत् प॒शूनां॑ प्र॒जाय॑मानानां ॥ ११ ॥
आ॒र॒ण्याः प॒शवः॒ कनी॑यांसः । शुचा॒ ह्यृ॑ताः^(२६) । ^(२७)लोम॑तः॒ संभ॑रति । अतो॒ ह्य॑स्य मेध्यं॑^(२७) । ^(२८)परि॑गृ॒ह्या॑र्यन्ति । रक्ष॑सामप॑हत्यै । ब॒हवो॒ हर॑न्ति । अप॑चितिमे॒वास्मि॑न्दधति । उद्व॑ते सिक॑तापो॒ते प॑रिश्रिते॒ निद॑धति॒ शान्त्यै॑^(२८) । ^(२६)मद॑न्तीभिरुप॑सृजति ॥ १२ ॥
तेज॑ ए॒वास्मि॑न्दधाति^(२९) । ^(३०)मधु॑ त्वा॒ मधु॑ला करो॒त्वित्या॑ह । ब्रह्म॑णै॒वास्मिं॒स्तेजो॑ दधाति^(३०) । ^(३१)यद्ग्रा॒म्याणां॑ पात्रा॑णां क॒पालैः॑ सँ॒सृजेत्॑ । ग्रा॒म्याणि॑
| २५ | एतन्मन्त्रस्य भाष्यं | ३६१ | पृष्ठे द्रष्टव्यं । |
| २६ | ,, | ३६१ | ,, |
| २७ | ,, | ३६२ | ,, |
| २८ | ,, | ३६३ | ,, |
| २६ | ,, | ३६३ | ,, |
| ३० | ,, | ३६४ | ,, |
| ३१ | ,, | ३६४. | ,, |
५६८ तैत्तिरीये आरण्यके
पात्रा॑णि शुचा॒ऽर्पये॑त् । अ॒र्मक॒पालैः सꣳसृ॑जति । ए॒तानि॒ वा अ॑नुपजीवनी॒यानि॑ । तान्ये॒व शुचा॒र्पय॑ति⁽३१⁾ । ⁽३२⁾शर्क॑राभिः सꣳसृ॑जति धृत्यै॑ । अथो॒ शुन्ध्या॑य⁽३२⁾ ॥ ⁽३३⁾अ॒जलोमैः॒ सꣳसृ॑जति । ए॒षा वा अ॒ग्नेः प्रि॒या त॒नूः । यद॒जा । प्रि॒ययै॒वैन॑न्त॒नुवा॒ सꣳसृ॑जति । अथो॒ तेज॑सा⁽३३⁾ । ⁽३४⁾कृ॒ष्णा॒जि॒नस्य॒ लोम॑भिः सꣳसृ॑जति । य॒ज्ञो वै कृ॑ष्णाजि॒नं । य॒ज्ञेनै॒व य॒ज्ञꣳ सꣳसृ॑जति⁽३४⁾ ॥ ॥ १३ ॥
या॒ज्या॑यै(१), न जु॑हुयात्(२), आवि॑शत्(३), वेगाः(४), शान्त्यै(५), प॒ङ्क्तिरा॑ध॒समित्या॑ह(६), हर॑ति(७), दिहन्ति(८), परा॑क्रमत(९), आवि॑शत्(१०), प्र॒जाय॑मानानाः(११), सृजति(१२), शुन्ध्याय, अ॒ष्टौ च॑, १३ ॥ अनु० २ ॥
३२ एतन्मन्त्रस्य भाष्यं ३६४ पृष्ठे द्रष्टव्यं।
३३ ,, ३६४ ,,
३४ ,, ३६५ ,,